श्री शिव पूजा
। श्रीशिव पूजा ।
ॐ सर्वेभ्यो गुरुभ्यो नमः ।
ॐ सर्वेभ्यो देवेभ्यो नमः ।
ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः ॥
प्रारम्भ कार्यं निर्विघ्नमस्तु ।
शुभं शोभनमस्तु ।
इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु ॥
अनुज्ञां देहि ॥
|| आचमनः ||
ॐ केशवाय स्वाहा ।
ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेंद्राय नमः ।
ॐ हरये नमः ।
श्री कृष्णाय नमः ॥
|| प्राणायामः ||
ॐ प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता ।
दैवी गायत्री छन्दः । प्राणायामे विनियोगः ॥
ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः ।
ॐ जनः । ॐ तपः । ॐ सत्यम् ।
ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही
धियो यो नः प्रचोदयात् ॥
पुनराचमन
ॐ आपोज्योति रसोमृतं ब्रह्म भूर्भुवस्सु वरोम् ॥
|| सङ्कल्पः ||
वरद मूर्तये श्रीमन् महागणाधिपतये नमः ।
इष्टदेवताभ्यो नमः ।
कुलदेवताभ्यो नमः ।
स्थानदेवताभ्यो नमः ।
ग्रामदेवताभ्यो नमः ।
वास्तुदेवताभ्यो नमः ।
शचीपुरंदराभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
मातापितृभ्यां नमः ।
लक्ष्मीनारायणाभ्यां नमः ।
सर्वेभ्यो देवेभ्यो नमो नमः ।
सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः ।
येतद्कर्मप्रधान देवताभ्यो नमो नमः ।
॥ अविघ्नमस्तु ॥
सुमुखश्च एकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥
धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेत् श्रुणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे सङ्कटेश्चैव विघ्नः तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवी नारायणी नमोऽस्तुते ॥
सर्वदा सर्व कार्येषु नास्ति तेषां अमङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।
विद्या बलं दैवबलं तदेव लक्ष्मीपतेः तेंघ्रिऽयुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषां इन्दीवर श्यामो हृदयस्थो जनार्दनः ॥
विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् ।
सरस्वतीं प्रणम्यादौ सर्व कार्यार्थ सिद्धये ॥
श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य
अद्य ब्रह्मणोऽद्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे
वैवस्वत मन्वन्तरे भारत वर्षे भरत खंडे जम्बूद्वीपे
दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे कृष्णवेण्यो उत्तरे
तीरे परशुराम क्षेत्रे सम्युक्त अमुक ग्र ामे शालिवाहन शके वर्तमाने व्यवहारिके अमुक नाम संवत्सरे अमुक अयणे अमुक ऋतौ अमुक मासे अमुक पक्षे अमुक तिथौ अमुक नक्षत्रे अमुक वासरे अमुक स्थिते श्रीचंद्रे अमुक स्थिते श्रीसूर्ये अमुक स्थिते देवगुरौ राजगुरौ शेषेषु सर्व ग्रहेषु यथा राशि स्थानानी
स्थितेषु सत्सु येवं गुणविशेषेण विशिष्टायां शुभपुण्यतिथौ मम
आत्मन श्रुतिस्मृतिपुराणोक्त फलप्राप्यर्थं अमुक गोत्रे उत्पन्न: अमुक शर्मन: मम सकुटुम्बस्य क्षेम स्थैर्य आयुरारोग्य चतुर्विध पुरुषार्त्थ सिध्यर्थं अंगीकृत श्री शिवपूजन अंगत्वेन सम्पादित सामग्रय्य श्रीगणेश वरुण इंद्रादि अष्टलोकपाल गणपति चतुष्ट देवता पूजनपूर्वकं श्री शिव प्रीत्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः पुरुषसूक्त पुराणोक्त मन्त्रैश्च ध्यानावाहनादि षोडशोपचारे श्री शिव पूजनं करिष्ये ॥
इदं फलं मयादेव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर् भवेत् जन्मनि जन्मनि ॥
|| शिव पञ्चाक्षरी न्यास ||
॥ ॐ ॥
अस्य श्री शिव पञ्चाक्षरी मन्त्रस्य वामदेव ऋषिः ।
अनुष्टुप् छन्दः । श्री सदाशिवो देवता ।
श्री सदाशिव प्रीत्यर्थे न्यासे पूजने च विनियोगः ॥
वामदेव ऋषये नमः । शिरसे स्वाहा ॥
अनुष्टुप् छन्दसे नमः । मुखे स्वाहा ॥
श्री सदाशिव देवतायै नमः । ललाटे स्वाहा ॥
ॐ नं तत्पुरुषाय नमः । हृदये स्वाहा ॥
ॐ मं अघोराय नमः । पादयो स्वाहा ॥
ॐ शिं सद्योजाताय नमः । गुह्ये स्वाहा ॥
ॐ वं वामदेवाय नमः । मूर्ध्नि स्वाहा ॥
ॐ यं ईशानाय नमः । श्रोत्रे स्वाहा ॥
ॐ ॐ हृदयाय नमः ।
ॐ नं शिरसे स्वाहा ।
ॐ मं शिखायै वौषट् ।
ॐ शिं कवचाय हुम् ।
ॐ वं नेत्रत्रयाय वौषट् ।
ॐ यं अस्त्राय फट् ।
|| दिग्बन्धन ||
ॐ अघोरष्ट्रेन इति दिग्बन्धः । दिशो बद्नामि ॥
|| गणपति पूजा ||
आदौ निर्विघ्नतासिध्यर्थं महा गणपतिं पूजनं करिष्ये ।
ॐ गणानां त्वा शौनको गृत्समदो गणपतिर्जगति
गणपत्यावाहने विनियोगः ॥
ॐ गणानां त्वा गणपतिं आवामहे ।
कविं कविनामुपम श्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत ।
आनः शृण्वन्नूतिभिः सीदसादनम् ॥
भूः गणपतिं आवाहयामि ।
भुवः गणपतिं आवाहयामि ।
स्वः गणपतिं आवाहयामि ।
ॐ भूर्भुवस्वः महागणपतये नमः ।
ध्यायामि । ध्यानं समर्पयामि ।
ॐ महागणपतये नमः । आवाहनं समर्पयामि ।
ॐ महागणपतये नमः । आसनं समर्पयामि ।
ॐ महागणपतये नमः । पाद्यं समर्पयामि ।
ॐ महागणपतये नमः । अर्घ्यं समर्पयामि ।
ॐ महागणपतये नमः । आचमनीयं समर्पयामि ।
ॐ महागणपतये नमः । स्नानं समर्पयामि ।
ॐ महागणपतये नमः । वस्त्रं समर्पयामि ।
ॐ महागणपतये नमः । यज्ञोपवीतं समर्पयामि ।
ॐ महागणपतये नमः । चंदनं समर्पयामि ।
ॐ महागणपतये नमः । परिमल द्रव्यं समर्पयामि ।
ॐ महागणपतये नमः । पुष्पाणि समर्पयामि ।
ॐ महागणपतये नमः । धूपं समर्पयामि ।
ॐ महागणपतये नमः । दीपं समर्पयामि ।
ॐ महागणपतये नमः । नैवेद्यं समर्पयामि ।
ॐ महागणपतये नमः । ताम्बूलं समर्पयामि ।
ॐ महागणपतये नमः । फलं समर्पयामि ।
ॐ महागणपतये नमः । दक्षिणां समर्पयामि ।
ॐ महागणपतये नमः । आर्तिक्यं समर्पयामि ।
ॐ भूर्भुवस्वः महागणपतये नमः ।
मन्त्रपुष्पं समर्पयामि ।
ॐ भूर्भुवस्वः महागणपतये नमः ।
प्रदक्षिणा नमस्कारान् समर्पयामि ।
ॐ भूर्भुवस्वः महागणपतये नमः ।
छत्रं समर्पयामि ।
ॐ महागणपतये नमः । चामरं समर्पयामि ।
ॐ महागणपतये नमः । गीतं समर्पयामि ।
ॐ महागणपतये नमः । नृत्यं समर्पयामि ।
ॐ महागणपतये नमः । वाद्यं समर्पयामि ।
ॐ महागणपतये नमः । सर्व राजोपचारान् समर्पयामि ॥
॥ अथ प्रार्थना ॥
ॐ वक्रतुण्ड महाकाय कोटि सूर्य समप्रभा ।
न िर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
ॐ भूर्भुवस्वः महागणपतये नमः । प्रार्थनां समर्पयामि ।
अनया पूजया विघ्नहर्ता महागणपति प्रीयताम् ॥
|| दीप स्थापना ||
अथ देवस्य वाम भागे दीप स्थापनं करिष्ये ।
अग्निनाग्नि समिध्यते कविर्ग्रहपतिर्युवा हव्यवात् जुवास्यः ॥
|| भूमि प्रार्थना ||
महिद्यौ पृथ्वीचन इमं यज्ञं मिमिक्षतां
पिप्रतान्नो भरीमभिः ॥
|| धान्य राशि ||
ॐ औषधाय संवदंते सोमेन सहराज्ञ ।
यस्मै कृणेति ब्राह्मणस्थं राजन् पारयामसि ॥
|| कलश स्थापना ||
ॐ आ कलशेषु धावति पवित्रे परिसिंच्यते
उक्तैर्यज्ञेषु वर्धते ॥
ॐ इमं मे गङ्गे यमुने सरस्वती शुतुद्रिस्तोमं सचता परुष्ण्य ।
असिक्न्य मरुद्वृधे वितस्थयार्जीकीये श्रुणुह्या सुषोमय ॥
ॐ गंधद्वारां धुरादर्शां नित्य पुष्टां करीषिणीम् ।
ईश्वरीं सर्व भूतानां तामि होपह्वयेश्रियम् ॥