Skip to main content

देवीसूक्तम्

ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः ।

अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥ १॥

अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भगम्᳚ ।

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ए॒ ३॒॑ यज॑मानाय सुन्व॒ते ॥ २॥

अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् ।

तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚ वे॒शयन्᳚तीम् ॥ ३॥

मया॒ सोऽअन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् ।

अ॒म॒न्तवो॒मान्त उप॑क्षियन्ति श्रु॒धिश्रु॑त श्रद्धि॒वं ते᳚ वदामि ॥ ४॥

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः ।

यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ ५॥

अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒हन्त॒ वा उ॑ ।

अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी आवि॑वेश ॥ ६॥

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व (अ॒) १॒॑न्तः स॑मु॒द्रे ।

ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒ तामूं द्यां व॒र्ष्मणोप॑स्पृशामि ॥ ७॥

अ॒हमे॒व वात॑ऽइव॒ प्रवा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ ।

प॒रो दि॒वा प॒रए॒ना पृ॑थि॒व्यै ताव॑ती महि॒ना सम्ब॑भूव ॥ ८॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ अथ स्वररहितदेवीसूक्तम् ॥

ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।

अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १॥

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।

अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए ३ यजमानाय सुन्वते ॥ २॥

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।

तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्या वेशयन्तीम् ॥ ३॥

मया सोऽअन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।

अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि ॥ ४॥

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।

यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ ।

अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥ ६॥

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व अन्तः समुद्रे ।

ततो वितिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोपस्पृशामि ॥ ७॥

अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा ।

परो दिवा परएना पृथिव्यै तावती महिना सम्बभूव ॥ ८॥

ॐ शान्तिः शान्तिः शान्तिः ॥

shri devi suktam stotram