Skip to main content
पडताळणी प्रलंबित

श्री सूक्तम्

हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।

च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १ ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।

यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २ ॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।

श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥ ३ ॥

कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।

प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ४ ॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।

तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥ ५ ॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।

तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ ६ ॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।

प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ ७ ॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।

अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥ ८ ॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।

ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ९ ॥

मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।

प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥ १० ॥

क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।

श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११ ॥

आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।

नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२ ॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम्।

च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १३ ॥

आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।

सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥ १४ ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।

यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५ ॥

—-

यः शुचि॒: प्रय॑तो भू॒त्वा जु॒हुया॑दाज्य॒ मन्व॑हम् ।

श्रिय॑: प॒ञ्चद॑शर्चं॒ च श्री॒काम॑: सत॒तं ज॑पेत् ॥

आन॑न्द॒: कर्द॑मश्चैव चि॒क्लीत॑ इति॒ विश्रु॑ताः ।

ऋष॑य॒: ते त्रयः पुत्राः स्वयं श्रीदेवि देवता ॥

प॒द्मा॒स॒ने प॑द्म ऊ॒रू॒ प॒द्माक्षी॑ पद्म॒सम्भ॑वे ।

त्वं मां᳚ भ॒जस्व॑ प॒द्मा॒क्षी॒ ये॒न सौ॑ख्यं ल॒भाम्य॑हम् ॥

अश्व॑दा॒यी गो॑दा॒यी॒ ध॒नदा॑यी म॒हाध॑ने ।

धनं मे॒ जुष॑तां दे॒वि॒ स॒र्वका॑मार्थ सिद्धये ॥

पुत्रपौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा॑दिग॒वे र॑थम् ।

प्र॒जा॒नां भ॑वसि मा॒ता आ॒युष्म॑न्तं क॒रोतु॑ माम् ॥

च॒न्द्राभां लक्ष्मीमी॑शा॒नां सु॒र्याभां᳚ श्रियमीश्वरीम् ।

चन्द्र सू॒र्याग्नि सर्वाभां श्रीमहालक्ष्मी॑मुपास्महे ॥

धन॑म॒ग्निर्ध॑नं वा॒युर्ध॑नं॒ सूर्यो॑ धनं॒ वसु॑: ।

धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णं॒ धन॒मश्नु॑ ते ॥

वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा ।

सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिन॑: ॥

न क्रोधो न च॑ मात्स॒र्यं न॒ लोभो॑ नाशु॒भा म॑तिः ।

भव॑न्ति॒ कृत॑पुण्या॒नां भ॒क्तानां श्रीसू᳚क्तं ज॒पेत्स॑दा ॥

वर्षन्᳚तु॒ ते वि॑भाव॒रि॒ दि॒वो अ॑भ्रस्य॒ विद्यु॑तः ।

रोहन्᳚तु॒ सर्व॑बी॒जा॒न्य॒व ब्र॑ह्म द्वि॒षो᳚ ज॑हि ॥

पद्म॑प्रिये पद्मिनि पद्म॒हस्ते पद्मा॑लये पद्मदलाय॑ताक्षि ।

विश्व॑प्रिये॒ विष्णु मनो॑ऽनुकू॒ले त्वत्पा॑दप॒द्मं मयि॒ सन्नि॑धत्स्व ॥

या सा पद्मा॑सन॒स्था विपुलकटितटी पद्म॒पत्रा॑यता॒क्षी ।

गम्भीरा व॑र्तना॒भिः स्तनभर नमिता शुभ्र वस्त्रो॑त्तरी॒या ।

लक्ष्मीर्दि॒व्यैर्गजेन्द्रैर्म॒णिगण खचितैस्स्नापिता हे॑मकु॒म्भैः ।

नि॒त्यं सा प॑द्मह॒स्ता मम वस॑तु गृ॒हे सर्व॒माङ्गल्य॑युक्ता ॥

ल॒क्ष्मीं क्षीरसमुद्रराजतनयां श्री॒रङ्गधामे॑श्वरीम् ।

दा॒सीभूतसमस्त देव व॒नितां लो॒कैक॒ दीपा॑ङ्कुराम् ।

श्रीमन्मन्दकटाक्षलब्ध विभव ब्र॒ह्मेन्द्रगङ्गा॑धराम् ।

त्वां त्रै॒लोक्य॒ कुटु॑म्बिनीं स॒रसिजां व॒न्दे मुकु॑न्दप्रियाम् ॥

सि॒द्ध॒ल॒क्ष्मीर्मो॑क्षल॒क्ष्मी॒र्ज॒यल॑क्ष्मीस्स॒रस्व॑ती ।

श्रीलक्ष्मीर्व॑रल॒क्ष्मी॒श्च॒ प्र॒सन्ना॒ म॑म स॒र्वदा ॥

वराङ्कुशौ पाशमभी॑तिमु॒द्रां॒ क॒रै॑र्वहन्तीं क॑मला॒सनस्थाम् ।

बालार्क कोटि प्रति॑भां त्रि॒णे॒त्रां॒ भ॒जेहमाद्यां ज॑गदी॒श्वरीं ताम् ॥

स॒र्व॒म॒ङ्ग॒लमा॒ङ्गल्ये॑ शि॒वे स॒र्वार्थ॑ साधिके ।

शर॑ण्ये त्र्यम्ब॑के दे॒वि॒ ना॒राय॑णि न॒मोऽस्तु॑ ते ॥

ओं म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।

तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri suktam in hindi