Skip to main content
पडताळणी प्रलंबित

श्री विष्णु सूक्त सूक्तम्

इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्।

समूढमस्य पांसुरे स्वाहा॥

इरावती धेनुमती हि भूत

सूयवसिनी मनवे दशस्या।

व्यस्कभ्नारोदसी विष्णवेतेदाधर्थ

पृथिवीमभितोमयूखैः स्वाहा॥

देवश्रुतौ देवेष्वा घोषतं प्राची प्रेतमध्वरं

कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम्।

स्वं गोष्ठमा वदतं देवी दुर्ये आयुर्मा निर्वादिष्टं प्रजां मा

निर्वादिष्टमत्र रमेथां वर्ष्मन् (Varshman) पृथिव्याः॥

विष्णोर्नु कं वीर्याणि प्र वोचं

यः पार्थिवानि विममे रजांसि।

यो अस्कभायदुत्तरँ सधस्थं

विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वा॥

दिवो वा विष्ण उत वा पृथिव्या

महो वा विष्ण उरोरन्तरिक्षात्।

उभा हि हस्ता वसुना पृणस्वा

प्र यच्छ दक्षिणादोत सव्याद्विष्णवे त्वा॥

प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः।

यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्र्वा॥

विष्णो रराटमसि विष्णोः

श्नप्त्रे (Shnaptre) स्थो विष्णोः

स्यूनसि विष्णोर्ध्रुवोऽसि (Vishnordhruvoasi)।

वैष्णवमसि विष्णवे त्वा॥

shri vishnu suktm stotram