Skip to main content
पडताळणी प्रलंबित

श्री प्रत्यङ्गिरा सूक्तम् (ऋग्वेदीय पाठान्तरम् – १)

(ऋ.वे.खि.४.५)

यां कल्पयन्ति नोऽरयः क्रूरां कृत्यां वधूमिव ।

तां ब्रह्मणा परि निङ्मः प्रत्यक्कर्तारमृच्छतु ॥ १ ॥

शीर्षण्वतीं कर्णवतीं विश्वरूपां भयंकरीम् ।

यः प्राहिणोमि हाद्य त्वा वि तत्त्वं योजयाशुभि ॥ २ ॥

येन चित्तेन वदसि प्रतिकूलमघायूनि ।

तमेवं ते नि कृत्ये मास्मान् ऋष्यो अनागसः ॥ ३ ॥

अभि वर्तस्व कर्तारं निरस्तास्माभिरोजसा ।

आयुरस्य नि वर्तस्व प्रजां च पुरुषादिनि ॥ ४ ॥

यस्त्वा कृत्ये चकारेह तं त्वं गच्छ पुनर्नवे ।

अरातीः कृत्यां नाशय सर्वाश्च यातुधान्यः ॥ ५ ॥

क्षिप्रं कृत्ये नि वर्तस्व कर्तुरेव गृहान् प्रति ।

पशूंश्चावास्य नाशय वीरांश्चास्य नि बर्हय ॥ ६ ॥

यस्त्वा कृत्ये प्र जिगाति विद्वान् अविदुषो गृहान् ।

तस्त्यैवेतः परेत्याशु तनुं कृधि परुष्यसः ॥ ७ ॥

प्रतीचीं त्वापसेधतु ब्रह्म रोचिष्ण्वमित्रहा ।

अग्निश्च कृत्ये रक्षोहा रिप्रहा चाज एकपात् ॥ ८ ॥

यथा त्वाङ्गिरसः पूर्वे भृगवश्चाप सेधिरे ।

अत्रयश्च वसिष्ठाश्च तथैव त्वापसेधिम ॥ ९ ॥

यस्ते परूंषि संदधौ रथस्येव ऋभुर्धिया ।

तं गच्छ तत्र ते जनमज्ञातस्तेऽयं जनः ॥ १० ॥

यो नः कश्चिद्रणस्थो वा कश्चिद्वान्योऽभि हिंसति ।

तस्य त्वं द्रोरिवेद्धोऽग्निस्तनुः पृच्छस्व हेळितः ॥ ११ ॥

भवा शर्वा देवहेळिमस्य ते पापकृत्वने ।

हरस्वतीस्त्वं च कृत्ये नोच्छिषस्तस्य किञ्चन ॥ १२ ॥

ये नो शिवासः पन्थानः परायान्ति परावतम् ।

तैर्देव्यरातीः कृत्या नो गमयस्वा नि वर्तय ॥ १३ ॥

यो नः कश्चिद्द्रुहोऽरातिर्मनसाप्यभि दासति ।

दूरस्थो वान्तिकस्थो वा तस्य हृद्यमसृक् पिब ॥ १४ ॥

येनासि कृत्ये प्रहिता दूढ्येनास्मज्जिघांसया ।

तस्य व्यनच्चाव्यनच्च हिनस्तु शरदाशनिः ॥ १५ ॥

यद्यु वैषि द्विपद्यस्मान् यदि वैषि चतुष्पदी ।

निरस्तातोऽव्रतास्माभिः कर्तुरष्टापदी गृहम् ॥ १६ ॥

यो नः शपादशपतो यश्च नः शपतः शपात् ।

वृक्ष इव विद्युता हत आमूलादनुशुष्यतु ॥ १७ ॥

यं द्विष्मो यश्च नो द्वेष्ट्यघायुर्यश्च नः शपात् ।

शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥ १८ ॥

यश्च सापत्नः शपथो यश्च जाम्याः शपथः ।

ब्रह्मा च यत् क्रुद्धः शपात् सर्वं तत् कृध्यधस्पदम् ॥ १९ ॥

सबन्धुश्चासबन्धुश्च यो अस्मान् अभि दासति ।

तस्य त्वं भिन्ध्यधिष्ठाय पदा विष्पूर्यते शिरः ॥ २० ॥

अभि प्रेहि सहस्राक्षं युक्त्वाशुं शपथ रथम् ।

शत्रूँरन्विच्छती कृत्ये वृकीवाविवृतो गृहान् ॥ २१ ॥

परि णो वृङ्धि शपथान् दहन्नग्निरिव व्रजम् ।

शत्रूँरेवा वि नो जहि दिव्या वृक्षमिवाशनिः ॥ २२ ॥

शत्रून्मे प्रोष्ट शपथान् कृत्याश्च सुहृदो हृद्याः ।

जिह्माः श्लक्ष्णाश्च दुर्हृदः समिद्धं जातवेदसम् ॥ २३ ॥

असपत्नं पुरस्तान्नः शिवं दक्षिणतस्कृधि ।

अभयं सततं पश्चाद्भद्रमुत्तरतो गृहे ॥ २४ ॥

परेहि कृत्ये मा तिष्ठ वृद्धस्येव पदं नय ।

मृगस्य हि मृगारिस्त्वं तं त्वं निकर्तुमर्हसि ॥ २५ ॥

अघ्न्यास्ये घोररूपे वररूपे विनाशिनि ।

जम्भिताः प्रत्या गृभ्णीष्व स्वयमादायाद्भुतम् ॥ २६ ॥

त्वमिन्द्रो यमो वरुणस्त्वमापो अग्निरथानिलः ।

ब्रह्मा चैव रुद्रश्च त्वष्टा चैव प्रजापतिः ॥ २७ ॥

आवर्तध्वं निवर्तध्वमृतवः परिवत्सराः ।

अहोरात्राश्चाब्दाश्च त्वं दिशः प्रदिशश्च मे ॥ २८ ॥

त्वमिन्द्रो यमो वरुणस्त्वमापो अग्निरथानिलः ।

अत्याहृत्य पशून् देवानुत्पातयस्वाद्भुतम् ॥ २९ ॥

अभ्यक्तास्ताः स्वलंकृताः सर्वं नो दुरितं जहि ।

जानीथाश्चैव कृत्यानां कर्तॄन् नॄन् पापचेतसः ॥ ३० ॥

यथा हन्ति पूर्वासिनं तयैवेष्वाशुकृज्जनः ।

तथा त्वया युजा वयं तस्य निकृण्म स्थास्नु जङ्गमम् ॥ ३१ ॥

उत्तिष्ठैव परेहितो३घ्न्यास्ये किमिहेच्छसि ।

ग्रीवास्ते कृत्ये पदा चापि कर्त्स्यामि निर्द्रव ॥ ३२ ॥

स्वायसा सन्ति नोसयो विद्मश्चैव परूंषि ते ।

तैः स्थ निकृण्म स्थान्युग्रे यदि नो जीवयस्व ईम् ॥ ३३ ॥

मास्योच्छिषो द्विपदं मो च किंचिच्चतुष्पदम् ।

मा ज्ञातीरनुजास्वन्वा मा वेशं प्रतिवेशिना ॥ ३४ ॥

शत्रूयता प्रहितामिमां येनाभि यथायथा ।

ततस्तथा त्वानुदतु योऽयमन्तर्मयि श्रितः ॥ ३५ ॥

एवं त्वं निकृतास्माभिर्ब्रह्मणा देवि सर्वशः ।

यथा तमाश्रितं कर्त्वा पापधीरेव नो जहि ॥ ३६ ॥

यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति ।

देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥ ३७ ॥

यथा विद्युद्धतो वृक्ष आ मूलदनु शुष्यति ।

एवं स प्रति शुष्यतु यो मे पापं चिकीर्षति ॥ ३८ ॥

यथा प्रतिहिता भूत्वा तामेव प्रति धावति ।

पापं तमेव धावतु यो मे पापं चिकीर्षति ॥ ३९ ॥

कुवीरं ते सुखं रुद्रं नन्दीमानं विमथ ह ।

ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरं धर्म वर्म ममान्तरम् ॥ ४० ॥

sri pratyangira suktam rigveda variation 1