Skip to main content

मंत्र

📄️श्री बगलामुखी खड्गमालामन्त्रः

अस्य श्रीपीताम्बरा बगलामुखी खड्गमाला मन्त्रस्य नारायण ऋषिः, त्रिष्टुप् छन्दः, बगलामुखी देवता, ह्लीं बीजं, स्वाहा शक्तिः, ओं कीलकं, ममाभीष्टसिद्ध्यर्थे सर्वशत्रुक्षयार्थे जपे विनियोगः ।

📄️श्री बगलामुखी मालामन्त्रः

ओं नमो भगवति ओं नमो वीरप्रतापविजयभगवति बगलामुखि मम सर्वनिन्दकानां सर्वदुष्टानां वाचं मुखं पदं स्तम्भय स्तम्भय ब्राह्मीं मुद्रय मुद्रय बुद्धिं विनाशय विनाशय अपरबुद्धिं कुरु कुरु आत्मविरोधिनां शत्रूणां शिरो ललाट मुख नेत्र कर्ण नासिकोरू पद अणुरेणु दन्तोष्ठ जिह्वा तालु गुह्य गुद कटि जानु सर्वाङ्गेषु केशादिपादपर्यन्तं पादादिकेशपर्यन्तं स्तम्भय स्तम्भय खें खीं मारय मारय परमन्त्र परयन्त्र परतन्त्राणि छेदय छेदय आत्ममन्त्रयन्त्रतन्त्राणि रक्ष रक्ष ग्रहं निवारय निवारय व्याधिं विनाशय विनाशय दुःखं हर हर दारिद्र्यं निवारय निवारय सर्वमन्त्रस्वरूपिणि सर्वतन्त्रस्वरूपिणि सर्वशिल्पप्रयोगस्वरूपिणि सर्वतत्त्वस्वरूपिणि दुष्टग्रह भूतग्रह आकाशग्रह पाषाणग्रह सर्वचाण्डालग्रह यक्षकिन्नरकिम्पुरुषग्रह भूतप्रेतपिशाचानां शाकिनीडाकिनीग्रहाणां पूर्वदिशां बन्धय बन्धय वार्तालि मां रक्ष रक्ष दक्षिणदिशां बन्धय बन्धय किरातवार्तालि मां रक्ष रक्ष पश्चिमदिशां बन्धय बन्धय स्वप्नवार्तालि मां रक्ष रक्ष उत्तरदिशां बन्धय बन्धय कालि मां रक्ष रक्ष ऊर्ध्वदिशां बन्धय बन्धय उग्रकालि मां रक्ष रक्ष पातालदिशं बन्धय बन्धय बगलापरमेश्वरि मां रक्ष रक्ष सकलरोगान् विनाशय विनाशय सर्वशत्रुपलायनाय पञ्चयोजनमध्ये राजजनस्त्रीवशतां कुरु कुरु शत्रून् दह दह पच पच स्तम्भय स्तम्भय मोहय मोहय आकर्षय आकर्षय मम शत्रून् उच्चाटय उच्चाटय हुं फट् स्वाहा ॥

📄️श्री गायत्री तत्त्वमालामन्त्रम्

अस्य श्रीगायत्रीतत्त्वमालामन्त्रस्य विश्वामित्र ऋषिः अनुष्टुप् छन्दः परमात्मा देवता हलो बीजानि स्वराः शक्तयः अव्यक्तं कीलकं मम समस्तपापक्षयार्थे श्रीगायत्री मालामन्त्र जपे विनियोगः ।

📄️श्री ललिता मूलमन्त्र कवचम्

अस्य श्रीललिता कवच स्तवरत्न मन्त्रस्य, आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, श्री महात्रिपुरसुन्दरी ललितापराम्बा देवता ऐं बीजं ह्रीं शक्तिः श्रीं कीलकं, मम श्री ललिताम्बा प्रसादसिद्ध्यर्थे श्री ललिता कवचस्तवरत्न मन्त्र जपे विनियोगः ।

📄️श्री महागणपति मन्त्रविग्रह कवचम्

ओं अस्य श्रीमहागणपति मन्त्रविग्रह कवचस्य । श्रीशिव ऋषिः । देवीगायत्री छन्दः । श्री महागणपतिर्देवता । ओं श्रीं ह्रीं क्लीं ग्लौं गं बीजानि । गणपतये वरवरदेति शक्तिः । सर्वजनं मे वशमानय स्वाहा कीलकम् । श्री महागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

📄️श्री मेधा दक्षिणामूर्ति मन्त्रः

ओं अस्य श्री मेधादक्षिणामूर्ति महामन्त्रस्य शुकब्रह्म ऋषिः गायत्री छन्दः मेधादक्षिणामूर्तिर्देवता मेधा बीजं प्रज्ञा शक्तिः स्वाहा कीलकं मेधादक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ।

📄️श्री प्रत्यङ्गिरा सहस्राक्षरी मन्त्रः

अस्य श्रीप्रत्यङ्गिरा सहस्राक्षरी मन्त्रस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीप्रत्यङ्गिरा देवताः, क्रीं बीजं, ह्रीं शक्तिः, हूं कीलकं, श्रीप्रत्यङ्गिरा देवता प्रीत्यर्थे जपे विनियोगः ॥

📄️श्री सुब्रह्मण्य मालामन्त्रः

ओं अस्य श्रीसुब्रह्मण्यमालामहामन्त्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीसुब्रह्मण्यः कुमारो देवता, श्रीं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

📄️श्री विपरीत प्रत्यङ्गिरा मालामन्त्रः

ओं ओं ओं ओं ओं कुं कुं कुं मां सां खां चां लां क्षां ओं ह्रीं ह्रीं ओं ओं ह्रीं वां धां मां सां रक्षां कुरु । ओं ह्रीं ह्रीं ओं सः हुं ओं क्षौं वां लां धां मां सां रक्षां कुरु । ओं ओं हुं प्लुं रक्षां कुरु । ओं नमो विपरीत प्रत्यङ्गिरायै विद्याराज्ञि त्रैलोक्यवशङ्करि (तुष्टिपुष्टिकरि) सर्वपीडापहारिणि सर्वापन्नाशिनि सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिनि मोदिनि सर्वशस्त्राणां भेदिनि क्षोभिणि तथा परमन्त्रतन्त्रयन्त्रविषचूर्ण-सर्वप्रयोगादीनन्येषां निवर्तयित्वा यत्कृतं तन्मे अस्तु कलिपातिनि सर्वहिंसा मा कारयति अनुमोदयति मनसा वाचा कर्मणा ये देवाऽसुरराक्षसास्तिर्यग्योनि-सर्वहिंसका विरूपेकं कुर्वन्ति मम मन्त्रतन्त्रयन्त्रविषचूर्ण-सर्वप्रयोगादीनात्महस्तेन यः करोति करिष्यति कारयिष्यति तान् सर्वान्येषां निवर्तयित्वा पातय कारय मस्तके स्वाहा ॥