Skip to main content
पडताळणी प्रलंबित

श्री राजराजेश्वरी मन्त्रमातृका स्तवः

कल्याणायुत पूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीं

पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।

सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीं

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १ ॥

एकारादि समस्तवर्ण विविधाकारैक चिद्रूपिणीं

चैतन्यात्मक चक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् ।

भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिं

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ २ ॥

ईहाधिक्परयोगिबृन्दविनुतां स्वानन्दभूतां परां

पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरी रूपिणीम् ।

आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ३ ॥

लक्ष्यालक्ष्यनिरीक्षणां निरूपमां रुद्राक्षमालाधरां

त्र्यक्षार्धाकृति दक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।

भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीं

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ४ ॥

ह्रीं‍बीजागत नादबिन्दुभरितामोङ्कार नादात्मिकां

ब्रह्मानन्द घनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।

इच्छाज्ञाकृतिनीं महीं गतवतीं गन्धर्वसंसेवितां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ५ ॥

हर्षोन्मत्त सुवर्णपात्रभरितां पीनोन्नतां घूर्णितां

हुङ्कारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् ।

सारासारविचार चारुचतुरां वर्णाश्रमाकारिणीं

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ६ ॥

सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीं

सम्योगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् ।

सर्वान्तर्गतिशालिनीं शिवतनूसन्दीपिनीं दीपिनीं

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ७ ॥

कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं

कारुण्याम्बुधि सर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।

पञ्चब्रह्म सनातनासनगतां गेयां सुयोगान्वितां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ८ ॥

हस्त्युत्कुम्भनिभ स्तनद्वितयतः पीनोन्नतादानतां

हाराद्याभरणां सुरेन्द्रविनुतां शृङ्गारपीठालयाम् ।

योन्याकारक योनिमुद्रितकरां नित्यां नवार्णात्मिकां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ९ ॥

लक्ष्मीलक्षणपूर्ण भक्तवरदां लीलाविनोदस्थितां

लाक्षारञ्जित पादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् ।

लोकालोकित लोककामजननीं लोकाश्रयाङ्कस्थितां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १० ॥

ह्रीं‍काराश्रित शङ्करप्रियतनुं श्रीयोगपीठेश्वरीं

माङ्गल्यायुत पङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।

कारुण्येन विशेषिताङ्ग सुमहालावण्य संशोभितां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ११ ॥

सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगां

सत्यां सर्वमयीं सहस्रदलजां सत्त्वार्णवोपस्थिताम् ।

सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १२ ॥

कादिक्षान्त सुवर्णबिन्दु सुतनुं सर्वाङ्गसंशोभितां

नानावर्ण विचित्रचित्रचरितां चातुर्यचिन्तामणीम् ।

चित्रानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीं

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १३ ॥

लक्ष्मीशान विधीन्द्र चन्द्रमकुटाद्यष्टाङ्ग पीठाश्रितां

सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।

गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गागणेशप्रियां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १४ ॥

ह्रीं‍कूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीं

वामाचारपरायणीं सुकुलजां बीजावतीं मुद्रिणीम् ।

कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकां

श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १५ ॥

या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी

या ब्रह्मादिपिपीलिकान्त जगदानन्दैकसन्दायिनी ।

या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनी

सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ १६ ॥

इति श्री राजराजेश्वरी मन्त्रमातृका स्तवः ।

sri rajarajeswari mantra matruka stava