Skip to main content
पडताळणी प्रलंबित

श्री गणेश मूलमन्त्रपदमाला स्तोत्रम्

ओमित्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं

चोमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः ।

ओमित्येव सदा जपन्ति यतयः स्वात्मैकनिष्ठाः परं

चों‍काराकृतिवक्त्रमिन्दुनिटिलं विघ्नेश्वरं भवाये ॥ १ ॥

श्रीं बीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं

मृत्युक्रोधनशान्तिबिन्दुविलसद्वर्णाकृति श्रीप्रदम् ।

स्वान्तस्थात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं

श्रीश्रीनायकसेवितेभवदनप्रेमास्पदं भावये ॥ २ ॥

ह्रीं बीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा

चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् ।

मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं

मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ ३ ॥

क्लीं बीजं कलिधातुवत्कलयतां सर्वेष्टदं देहिनां

धातृक्ष्मायुतशान्तिबिन्दुविलसद्वर्णात्मकं कामदम् ।

श्रीकृष्णप्रियमिन्दिरासुतमनःप्रीत्येकहेतुं परं

हृत्पद्मे कलये सदा कलिहरं कालारिपुत्रप्रियम् ॥ ४ ॥

ग्लौं बीजं गुणरूपनिर्गुणपरब्रह्मादिशक्तेर्महा-

-हङ्काराकृतिदण्डिनीप्रियमजश्रीनाथरुद्रेष्टदम् ।

सर्वाकर्षिणिदेवराजभुवनार्णेन्द्वात्मकं श्रीकरं

चित्ते विघ्ननिवारणाय गिरिजाजातप्रियं भावये ॥ ५ ॥

गङ्गासुतं गन्धमुखोपचार-

-प्रियं खगारोहणभागिनेयम् ।

गङ्गासुताद्यं वरगन्धतत्त्व-

-मूलाम्बुजस्थं हृदि भावयेऽहम् ॥ ६ ॥

गणपतये वरगुणनिधये

सुरगणपतये नतजनततये ।

मणिगणभूषितचरणयुगा-

-श्रितमलहरणे चण ते नमः ॥ ७ ॥

वराभये मोदकमेकदन्तं

कराम्बुजातैः सततं धरन्तम् ।

वराङ्गचन्द्रं परभक्तिसान्द्रै-

-र्जनैर्भजन्तं कलये सदाऽन्तः ॥ ८ ॥

वरद नतजनानां सन्ततं वक्रतुण्ड

स्वरमयनिजगात्र स्वात्मबोधैकहेतो ।

करलसदमृताम्भः पूर्णपत्राद्य मह्यं

गरगलसुत शीघ्रं देहि मद्बोधमीड्यम् ॥ ९ ॥

सर्वजनं परिपालय शर्वज

पर्वसुधाकरगर्वहर ।

पर्वतनाथसुतासुत पालय

खर्वं मा कुरु दीनमिमम् ॥ १० ॥

मेदोऽस्थिमांसरुधिरान्त्रमये शरीरे

मेदिन्यबग्निमरुदम्बरलास्यमाने ।

मे दारुणं मदमुखाघमुमाज हृत्वा

मेधाह्वयासनवरे वस दन्तिवक्त्र ॥ ११ ॥

वशं कुरु त्वं शिवजात मां ते

वशीकृताशेषसमस्तलोक ।

वसार्णसंशोभितमूलपद्म-

-लसच्छ्रियाऽलिङ्गित वारणास्य ॥ १२ ॥

आनयाशु पदवारिजान्तिकं

मां नयादिगुणवर्जितं तव ।

हानिहीनपदजामृतस्य ते

पानयोग्यमिभवक्त्र मां कुरु ॥ १३ ॥

स्वाहास्वरूपेण विराजसे त्वं

सुधाशनानां प्रियकर्मणीड्य ।

स्वधास्वरूपेण तु पित्र्यकर्म-

-ण्युमासुतेज्यामय विश्वमूर्ते ॥ १४ ॥

अष्टाविंशतिवर्णपत्रलसितं हारं गणेशप्रियं

कष्टाऽनिष्टहरं चतुर्दशपदैः पुष्पैर्मनोहारकम् ।

तुष्ट्यादिप्रदसद्गुरूत्तमपदाम्भोजे चिदानन्ददं

शिष्टेष्टोऽहमनन्तसूत्रहृदयाबद्धं सुभक्त्यार्पये ॥ १५ ॥

इति श्रीअनन्तानन्दनाथकृत श्री गणेश मूलमन्त्रपदमाला स्तोत्रम् ।

sri ganesha moola mantra pada mala stotram