Skip to main content
पडताळणी प्रलंबित

श्री अन्नपूर्णा मन्त्र स्तवः

श्री दक्षिणामूर्तिरुवाच ।

अन्नपूर्णामनुं वक्ष्ये विद्याप्रत्यङ्गमीश्वरी ।

यस्य श्रवणमात्रेण अलक्ष्मीर्नाशमाप्नुयात् ॥ १ ॥

प्रणवं पूर्वमुच्चार्य मायां श्रियमथोच्चरेत् ।

कामं नमः पदं प्रोक्तं पदं भगवतीत्यथ ॥ २ ॥

माहेश्वरी पदं पश्चादन्नपूर्णेत्यथोच्चरेत् ।

उत्तरे वह्निदयितां मन्त्र एष उदीरितः ॥ ३ ॥

ऋषिः ब्रह्मास्य मन्त्रस्य गायत्री छन्द ईरितम् ।

अन्नपूर्णेश्वरीदेवी देवता प्रोच्यते बुधैः ॥ ४ ॥

मायाबीजं बीजमाहुः लक्ष्मीशक्तिरितीरिता ।

कीलकं मदनं प्राहुर्मायया न्यासमाचरेत् ॥ ५ ॥

रक्तां विचित्रवासनां नवचन्द्रजूटा-

-मन्नप्रदाननिरतां स्तनभारनम्राम् ।

अन्नप्रदाननिरतां नवहेमवस्त्रा-

-मम्बां भजे कनकमौक्तिकमाल्यशोभाम् ॥ ६ ॥

नृत्यन्तमिन्दिशकलाभरणं विलोक्य

ह्यष्टां भजे भगवतीं भवदुःखहन्त्रीम् ।

आदाय दक्षिणकरेण सुवर्णदर्पं

दुग्धान्नपूर्णमितरेण च रत्नपात्रम् ॥ ७ ॥

एवं ध्यात्वा महादेवीं लक्षमेकं जपेन्मनुम् ।

दशांशमन्नं जुहुयान्मन्त्रसिद्धिर्भविष्यति ॥ ८ ॥

एवं सिद्धस्य मन्त्रस्य प्रयोगाच्छृणु पार्वति ।

लक्षमेकं जपेन्मन्त्रं सहस्रैकं हविर्हुनेत् ॥ ९ ॥

महतीं श्रियमाप्नोति कुबेरत्रयसन्निभाम् ।

जप्त्वैकलक्षं मन्त्रज्ञो हुनेदन्नं दशांशकम् ॥ १० ॥

तत्कुलेन्नसमृद्धिस्स्यादक्षय्यं नात्र संशयः ।

अन्नं स्पृष्ट्वा जपेन्मन्त्रं नित्यं वारचतुष्टयम् ॥ ११ ॥

अन्नराशिमवाप्नोति स्वमलव्यापिनीमपि ।

सहस्रं प्रजपेद्यस्तु मन्त्रमेतं नरोत्तमः ॥ १२

इह भोगान्यथाकामान्भुक्त्वान्ते मुक्तिमाप्नुयात् ।

कुले न जायते तस्य दारिद्र्यं कलहावलिः ॥ १३ ॥

न कदाचिदवाप्नोति दारिद्र्यं परमेश्वरि ।

पलाशपुष्पैर्हवनमयुतं यस्समाचरेत् ॥ १४ ॥

स लब्ध्वा महतीं कान्तिं वशीकुर्याज्जगत्रयम् ।

पयसा हवनं मर्त्यो य आचरति कालिकः ॥ १५ ॥

तद्गेहे पशुवृद्धिस्स्याद्गावश्च बहुदुग्धदाः ।

एवं मन्त्रं जपेन्मर्त्यो न कदाचिल्लभेद्भयम् ॥ १६ ॥

असौख्यमश्रियं दुःखं संशयो नात्र विद्यते ।

हविष्येण हुनेद्यस्तु नियुतं मानवोत्तमः ॥ १७ ॥

सर्वान्कामानवाप्नोति दुर्लभानप्यसंशयः ।

अन्नपूर्णाप्रयोगोयमुक्तो भक्तेष्टदायकः ।

किमन्यदिच्छसि श्रोतुं भूयो मे वद पार्वति ॥ १८ ॥

इति श्रीमहात्रिपुरसिद्धान्ते अन्नपूर्णा मन्त्रस्तवः ।

sri annapurna mantra stava