Skip to main content
पडताळणी प्रलंबित

श्री विपरीत प्रत्यङ्गिरा मन्त्रः

अस्य श्री विपरीत प्रत्यङ्गिरा मन्त्रस्य भैरव ऋषिः अनुष्टुप् छन्दः श्री विपरीत प्रत्यङ्गिरा देवता ममाभीष्ट सिद्ध्यर्थे जपे विनियोगः ॥

ऋष्यादि न्यासः –

भैरव ऋषये नमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

श्री विपरीत प्रत्यङ्गिरा देवतायै नमः हृदि ।

ममाभीष्ट सिद्ध्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –

ओं ऐं अङ्गुष्ठाभ्यां नमः ।

ओं ह्रीं तर्जनीभ्यां नमः ।

ओं श्रीं मध्यमाभ्यां नमः ।

ओं प्रत्यङ्गिरे अनमिकाभ्यां नमः ।

ओं मां रक्ष रक्ष कनिष्ठिकाभ्यां नमः ।

ओं मम शत्रून् भञ्जय भञ्जय करतलकर पृष्ठाभ्यां नमः ।

हृदयादिन्यासः –

ओं ऐं हृदयाय नमः ।

ओं ह्रीं शिरसे स्वाहा ।

ओं श्रीं शिखायै वषट् ।

ओं प्रत्यङ्गिरे कवचाय हुम् ।

ओं मां रक्ष रक्ष नेत्रत्रयाय वौषट् ।

ओं मम शत्रून् भञ्जय भञ्जय अस्त्राय फट् ।

ध्यानम् –

खड्गं कपालं डमरुं त्रिशूलं

सम्बिभ्रती चन्द्रकलावतंसा ।

पिङ्गोर्ध्वकेशाऽसित भीमदंष्ट्रा

भूयाद्विभूत्यै मम भद्रकाली ॥

पञ्चपूजा –

लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।

हं आकाशात्मिकायै पुष्पैः पूजयामि ।

यं वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं अग्न्यात्मिकायै दीपं दर्शयामि ।

वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।

सं सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि ।

मालाप्रार्थन –

मां माले महामाये सर्वशक्तिस्वरूपिणी ।

चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥

ओं ह्रीं सिद्ध्यै नमः ॥

मनुः –

ओं ऐं ह्रीं श्रीं प्रत्यङ्गिरे मां रक्ष रक्ष मम शत्रून् भञ्जय भञ्जय स्फ्रें हूं फट् स्वाहा ॥

sri vipareeta pratyangira mantra