Skip to main content
पडताळणी प्रलंबित

श्री मनसा देवी मूलमन्त्रम्

ध्यानम् ।

श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।

वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ १ ॥

महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् ।

सिद्धाधिष्टातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ २ ॥

पञ्चोपचार पूजा ।

ओं नमो मनसायै – गन्धं परिकल्पयामि ।

ओं नमो मनसायै – पुष्पं परिकल्पयामि ।

ओं नमो मनसायै – धूपं परिकल्पयामि ।

ओं नमो मनसायै – दीपं परिकल्पयामि ।

ओं नमो मनसायै – नैवेद्यं परिकल्पयामि ।

मूलमन्त्रम् ।

ओं ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहा ॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे षट्चत्वारिंशत्तमोऽध्याये द्वादशाक्षर मूलमन्त्रम् ॥

sri manasa devi mula mantram