Skip to main content
पडताळणी प्रलंबित

श्री ललिता मूलमन्त्र कवचम्

अस्य श्रीललिता कवच स्तवरत्न मन्त्रस्य, आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, श्री महात्रिपुरसुन्दरी ललितापराम्बा देवता ऐं बीजं ह्रीं शक्तिः श्रीं कीलकं, मम श्री ललिताम्बा प्रसादसिद्ध्यर्थे श्री ललिता कवचस्तवरत्न मन्त्र जपे विनियोगः ।

करन्यासः ।

ऐं अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

श्रीं मध्यमाभ्यां नमः ।

श्रीं अनामिकाभ्यां नमः ।

ह्रीं कनिष्ठिकाभ्यां नमः ।

ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।

ऐं हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

श्रीं शिखायै वषट् ।

श्रीं कवचाय हुम् ।

ह्रीं नेत्रत्रयाय वौषट् ।

ऐं अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् –

श्रीविद्यां परिपूर्णमेरुशिखरे बिन्दुत्रिकोणेस्थितां

वागीशादि समस्तभूतजननीं मञ्चे शिवाकारके ।

कामाक्षीं करुणारसार्णवमयीं कामेश्वराङ्कस्थितां

कान्तां चिन्मयकामकोटिनिलयां श्रीब्रह्मविद्यां भजे ॥ १ ॥

लमित्यादि पञ्चपूजां कुर्यात् ।

लं – पृथ्वीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं समर्पयामि ।

हं – आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं समर्पयामि ।

यं – वायुतत्त्वात्मिकायै श्री ललितादेव्यै धूपं समर्पयामि ।

रं – वह्नितत्त्वात्मिकायै श्री ललितादेव्यै दीपं समर्पयामि ।

वं – अमृततत्त्वात्मिकायै श्री ललितादेव्यै अमृतनैवेद्यं समर्पयामि ।

पञ्चपूजां कृत्वा योनिमुद्रां प्रदर्श्य ।

अथ कवचम् ।

ककारः पातु शीर्षं मे एकारः पातु फालकम् ।

ईकारश्चक्षुषी पातु श्रोत्रे रक्षेल्लकारकः ॥ २ ॥

ह्रीङ्कारः पातु नासाग्रं वक्त्रं वाग्भवसञ्ज्ञिकः ।

हकारः पातु कण्ठं मे सकारः स्कन्धदेशकम् ॥ ३ ॥

ककारो हृदयं पातु हकारो जठरं तथा ।

लकारो नाभिदेशं तु ह्रीङ्कारः पातु गुह्यकम् ॥ ४ ॥

कामकूटः सदा पातु कटिदेशं ममावतु ।

सकारः पातु चोरू मे ककारः पातु जानुनी ॥ ५ ॥

लकारः पातु जङ्घे मे ह्रीङ्कारः पातु गुल्फकौ ।

शक्तिकूटं सदा पातु पादौ रक्षतु सर्वदा ॥ ६ ॥

मूलमन्त्रकृतं चैतत्कवचं यो जपेन्नरः ।

प्रत्यहं नियतः प्रातस्तस्य लोका वशंवदाः ॥ ७ ॥

उत्तरन्यासः ।

करन्यासः –

ऐं अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

श्रीं मध्यमाभ्यां नमः ।

श्रीं अनामिकाभ्यां नमः ।

ह्रीं कनिष्ठिकाभ्यां नमः ।

ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।

ऐं हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

श्रीं शिखायै वषट् ।

श्रीं कवचाय हुम् ।

ह्रीं नेत्रत्रयाय वौषट् ।

ऐं अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्विमोकः ।

इति ब्रह्मकृत श्री ललिता मूलमन्त्र कवचम् ।

sri lalitha moola mantra kavacham