Skip to main content
पडताळणी प्रलंबित

शरवणभव मन्त्राक्षर षट्कम्

शक्तिस्वरूपाय शरोद्भवाय

शक्रार्चितायाथ शचीस्तुताय ।

शमाय शम्भुप्रणवार्थदाय

शकाररूपाय नमो गुहाय ॥ १ ॥

रणन्मणिप्रोज्ज्वलमेखलाय

रमासनाथप्रणवार्थदाय ।

रतीशपूज्याय रविप्रभाय

रकाररूपाय नमो गुहाय ॥ २ ॥

वराय वर्णाश्रमरक्षकाय

वरत्रिशूलाभयमण्डिताय ।

वलारिकन्यासुकृतालयाय

वकाररूपाय नमो गुहाय ॥ ३ ॥

नगेन्द्रकन्येश्वरतत्त्वदाय

नगाधिरूढाय नगार्चिताय ।

नगासुरघ्नाय नगालयाय

नकाररूपाय नमो गुहाय ॥ ४ ॥

भवाय भर्गाय भवात्मजाय

भस्मायमानाद्भुतविग्रहाय ।

भक्तेष्टकामप्रदकल्पकाय

भकाररूपाय नमो गुहाय ॥ ५ ॥

वल्लीवलारातिसुतार्चिताय

वराङ्गरागाञ्चितविग्रहाय ।

वल्लीकराम्भोरुहमर्दिताय

वकाररूपाय नमो गुहाय ॥ ६ ॥

इति श्रीशरवणभवमन्त्राक्षरषट्कम् ।

saravanabhava mantrakshara shatkam