Skip to main content
पडताळणी प्रलंबित

श्री काली प्रत्यङ्गिरा मालामन्त्रः

श्रीदेव्युवाच ।

कथयेशान सर्वज्ञ यतोऽहं तव वल्लभा ।

या प्रोक्ता त्वया नाथ सिद्धविद्या पुरा दश ।

तासां प्रत्यङ्गिराख्यं तु कवचं चैकशः परम् ॥ १ ॥

श्रीशिव उवाच ।

शृणु प्रिये प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् ।

विना येन न सिद्ध्यन्ति मन्त्राः कोटिक्रियान्विता ॥ २ ॥

प्रत्यङ्ग रक्षणकरी तेन प्रत्यङ्गिरा मता ।

काली प्रत्यङ्गिरा वक्ष्ये शृणुष्वावहितानघे ॥ ३ ॥

श्रीदेव्युवाच ।

प्रभो प्रत्यङ्गिराविद्या सर्वविद्योत्तमा स्मृता ।

अभिचारादि दोषाणां नाशिनी सिद्धिदायिनी ।

मह्यं तत् कथयस्वाद्य करुणा यदि ते मयि ॥ ४ ॥

श्रीशिव उवाच ।

साधु साधु महादेवि त्वं हि संसारमोचिनी ।

शृणुष्व सुखचित्तेन वक्ष्ये देवि समासतः ॥ ५ ॥

देवि प्रत्यङ्गिराविद्या सर्वग्रहनिवारिणी ।

मर्दिनी सर्वदुष्टानां सर्वपापप्रमोचिनी ॥ ६ ॥

स्त्री बाल प्रभृतीनां च जन्तूनां हितकारिणी ।

सौभाग्यजननी देवि बलपुष्टिकरी सदा ॥ ७ ॥

अङ्गिरास्य मुनिप्रोक्तश्छन्दोनुष्टुपुदाहृतः ।

देवता च स्वयं काली काम्येषु विनियोजयेत् ॥ ८ ॥

विनियोगः –

ओं ओं ओं अस्य श्री प्रत्यङ्गिरा मन्त्रस्य श्री अङ्गिरा ऋषिः अनुष्टुप् छन्दः श्री काली प्रत्यङ्गिरा देवता हूं बीजं ह्रीं शक्तिः क्रीं कीलकं ममाभीष्टसिद्धये पाठे विनियोगः ।

अङ्गन्यासः –

श्री अङ्गिरा ऋषये नमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

श्री काली प्रत्यङ्गिरा देवतायै नमः हृदि ।

हूं बीजाय नमः गुह्ये ।

ह्रीं शक्तये नमः पादयोः ।

क्रीं कीलकाय नमः सर्वाङ्गे ।

ममाभीष्टसिद्धये पाठे विनियोगाय नमः अञ्जलौ ॥

ध्यानम् –

भुजैश्चतुर्भिर्धृत तीक्ष्णबाण-

-धनुर्वराभीश्च शवाङ्घ्रियुग्मा ।

रक्ताम्बरा रक्ततनुस्त्रिनेत्रा

प्रत्यङ्गिरेयं प्रणतं पुनातु ॥

मालामन्त्रः –

ओं नमः सहस्रसूर्येक्षणाय श्रीकण्ठानादिरूपाय पुरुषाय पुरुहूताय ऐं महासुखायव्यापिने महेश्वराय जगत्सृष्टिकारिणे ईशानाय सर्वव्यापिने महाघोरातिघोराय ओं ओं ओं प्रभावं दर्शय दर्शय । ओं ओं ओं हिलि हिलि ओं ओं ओं विद्युज्जिह्वे बन्ध बन्ध मथ मथ प्रमथ प्रमथ विध्वंसय विध्वंसय ग्रस ग्रस पिब पिब नाशय नाशय त्रासय त्राशय विदारय विदारय मम शत्रून् खाहि खाहि मारय मारय मां सपरिवारं रक्ष रक्ष करिकुम्भस्तनि सर्वापद्रवेभ्यः । ओं महा मेघौघ राशि संवर्तक विद्युदन्त कपर्दिनि दिव्यकनकाम्भोरुह विकचमालाधारिणि परमेश्वरप्रिये छिन्धि छिन्धि विद्रावय विद्रावय देवि पिशाच नागासुर गरुड किन्नर विद्याधर गन्धर्व यक्ष राक्षस लोकपालान् स्तम्भय स्तम्भय कीलय कीलय घातय घातय विश्वमूर्ति महातेजसे ओं हूं सः मम शत्रूणां विद्यां स्तम्भय स्तम्भय ओं हूं सः मम शत्रूणां मुखं स्तम्भय स्तम्भय ओं हूं सः मम शत्रूणां हस्तौ स्तम्भय स्तम्भय ओं हूं सः मम शत्रूणां पादौ स्तम्भय स्तम्भय ओं हूं सः मम शत्रूणां गृहागत कुटुम्ब मुखानि स्तम्भय स्तम्भय स्थानं कीलय कीलय ग्रामं कीलय कीलय मण्डलं कीलय कीलय देशं कीलय कीलय सर्वसिद्धि महाभागे धारकस्य सपरिवारस्य शान्तिं कुरु कुरु फट् स्वाहा ॥ १ ॥

ओं ओं ओं ओं ओं अं अं अं अं अं हूं हूं हूं हूं हूं खं खं खं खं खं फट् स्वाहा ॥ २ ॥

जय प्रत्यङ्गिरे धारकस्य सपरिवारस्य मम रक्षां कुरु कुरु ओं हूं सः जय जय स्वाहा ॥ ३ ॥

ओं ऐं ह्रीं श्रीं ब्रह्माणि मम शिरो रक्ष रक्ष हूं स्वाहा ॥ ४ ॥

ओं ऐं ह्रीं श्रीं कौमारि मम वक्त्रं रक्ष रक्ष हूं स्वाहा ॥ ५ ॥

ओं ऐं ह्रीं श्रीं वैष्णवि मम कण्ठं रक्ष रक्ष हूं स्वाहा ॥ ६ ॥

ओं ऐं ह्रीं श्रीं नारसिंहि मम उदरं रक्ष रक्ष हूं स्वाहा ॥ ७ ॥

ओं ऐं ह्रीं श्रीं इन्द्राणि मम नाभिं रक्ष रक्ष हूं स्वाहा ॥ ८ ॥

ओं ऐं ह्रीं श्रीं चामुण्डे मम गुह्यं रक्ष रक्ष हूं स्वाहा ॥ ९ ॥

ओं नमो भगवति उच्छिष्टचाण्डालिनि त्रिशूलवज्राङ्कुशधरे मांसभक्षिणि खट्वाङ्ग कपाल वज्राऽसिधारिणि दह दह धम धम सर्व दुष्टान् ग्रस ग्रस ओं ऐं ह्रीं श्रीं फट् स्वाहा ॥ १० ॥

ओं दंष्ट्राकरालि मम मन्त्रतन्त्रबृन्दादीन् विषशास्त्राभिचारकेभ्यो रक्ष रक्ष स्वाहा ॥ ११ ॥

स्तम्भिनी मोहिनी चैव क्षोभिणी द्राविणी तथा ।

जृम्भिणी त्रासिनी रौद्री तथा संहारिणीति च ॥ १२ ॥

शक्तयः क्रम योगेन शत्रुपक्षे नियोजिताः ।

धारिताः साधकेन्द्रेण सर्वशत्रुनिवारिणी ॥ १३ ॥

ओं स्तम्भिनि स्फ्रें मम शत्रून् स्तम्भय स्तम्भय स्वाहा ।

ओं मोहिनि स्फ्रें मम शत्रून् मोहय मोहय स्वाहा ।

ओं क्षोभिणि स्फ्रें मम शत्रून् क्षोभय क्षोभय स्वाहा ।

ओं द्राविणि स्फ्रें मम शत्रून् द्रावय द्रावय स्वाहा ।

ओं जृम्भिणि स्फ्रें मम शत्रून् जृम्भय जृम्भय स्वाहा ।

ओं त्रासिनि स्फ्रें मम शत्रून् त्रासय त्रासय स्वाहा ।

ओं रौद्रि स्फ्रें मम शत्रून् सन्तापय सन्तापय स्वाहा ।

ओं संहारिणि स्फ्रें मम शत्रून् संहारय संहारय स्वाहा ॥ १४ ॥

फलश्रुतिः –

य इमां धारयेद्विद्यां त्रिसन्ध्यं वाऽपि यः पठेत् ।

सोऽपि व्यथागतश्चैव हन्याच्छत्रून् न संशयः ॥ १ ॥

सर्वतो रक्षतो देवि भयेषु च विपत्तिषु ।

महाभयेषु सर्वेषु न भयं विद्यते क्वचित् ॥ २ ॥

विद्यानामुत्तमा विद्या वाचिता धारिता पुनः ।

लिखित्वा च करे कण्ठे बाहो शिरसि धारयेत् ॥ ३ ॥

स मुच्यते महाघोरैर्मृत्युतुल्यैर्दुरासदै ।

दुष्ट ग्रह व्याल चौर रक्षो यक्ष गणास्तथा ॥ ४ ॥

पीडां न तस्य कुर्वन्ति ये चान्ये पीडकाग्रहाः ।

हरिचन्दनमिश्रेण गोरोचनकुङ्कमेन च ॥ ५ ॥

लिखित्वा भूर्जपत्रे तु धारणीया सदा नृभिः ।

पुष्पधूपविचित्रैश्च बल्युपहार वन्दनैः ॥ ६ ॥

पूजयित्वा यथा न्यायं त्रिलोहेनैव वेष्टयेत् ।

धारयेद्य इमां मन्त्री लिखित्वा रिपुनाशिनीम् ॥ ७ ॥

विलयं यान्ति रिपवः प्रत्यङ्गिरा विधारणात् ।

यं यं स्पृशति हस्तेन यं यं खादति जिह्वया ॥ ८ ॥

अमृतत्वं भवेत् तस्य मृत्युर्नास्ति कदाचन ।

त्रिपुरं तु मया दग्धमिमं मन्त्रं विजानता ॥ ९ ॥

निर्जितास्ते सुराः सर्वे देवैर्विद्याधरादिभिः ।

दिव्यैर्मन्त्रपदैर्गुह्यैः सुखोपायैः सुरक्षितैः ॥ १० ॥

पठेद्रक्षाविधानेन मन्त्रराज प्रकीर्तितः ।

क्रान्ता दमनकं चैव रोचनं कुङ्कुमं तथा ॥ ११ ॥

अरुष्करं विषाविष्टं सिद्धार्थं मालतीं तथा ।

एतद्द्रव्यगणं भद्रे गोलमध्ये निधापयेत् ।

संस्कृतं धारयेन्मन्त्री साधको ब्रह्मवित् सदा ॥ १२ ॥

इति श्रीअङ्गिरा ऋषि कृतं श्री काली प्रत्यङ्गिरा मालामन्त्रम् ॥

sri kali pratyangira mala mantram stotram