Skip to main content
पडताळणी प्रलंबित

श्री बालात्रिपुरसुन्दरी त्र्यक्षरी मन्त्रः

(शापोद्धारः – ओं ऐं ऐं सौः, क्लीं क्लीं ऐं, सौः सौः क्लीम् । इति शतवारं जपेत् ।)

अस्य श्रीबालात्रिपुरसुन्दरी महामन्त्रस्य दक्षिणामूर्तिः ऋषिः (शिरसि), पङ्क्तिश्छन्दः (मुखे) श्रीबालात्रिपुरसुन्दरी देवता (हृदि), ऐं बीजं (गुह्ये), सौः शक्तिः (पादयोः), क्लीं कीलकं (नाभौ), श्रीबालात्रिपुरसुन्दरी प्रीत्यर्थे जपे विनियोगः ।

करन्यासः –

ऐं अङ्गुष्ठाभ्यां नमः ।

क्लीं तर्जनीभ्यां नमः ।

सौः मध्यमाभ्यां नमः ।

ऐं अनामिकाभ्यां नमः ।

क्लीं कनिष्ठिकाभ्यां नमः ।

सौः करतल करपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –

ऐं हृदयाय नमः ।

क्लीं शिरसे स्वाहा ।

सौः शिखायै वषट् ।

ऐं कवचाय हुम् ।

क्लीं नेत्रत्रयाय वौषट् ।

सौः अस्त्राय फट् ।

भूर्भुवस्सुवरों इति दिग्बन्धः ॥

ध्यानम् ।

अरुणकिरणजालैः रञ्जिताशावकाशा

विधृतजपवटीका पुस्तकाभीतिहस्ता ।

इतरकरवराढ्या फुल्लकल्हारसंस्था

निवसतु हृदि बाला नित्यकल्याणशीला ॥

लमित्यादि पञ्च पूजाः ।

लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।

हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।

यं वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं अग्न्यात्मिकायै दीपं दर्शयामि ।

वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।

मूलमन्त्रः – ओं ऐं क्लीं सौः ।

उत्तर करन्यासः –

ऐं अङ्गुष्ठाभ्यां नमः ।

क्लीं तर्जनीभ्यां नमः ।

सौः मध्यमाभ्यां नमः ।

ऐं अनामिकाभ्यां नमः ।

क्लीं कनिष्ठिकाभ्यां नमः ।

सौः करतल करपृष्ठाभ्यां नमः ।

उत्तर हृदयादिन्यासः –

ऐं हृदयाय नमः ।

क्लीं शिरसे स्वाहा ।

सौः शिखायै वषट् ।

ऐं कवचाय हुम् ।

क्लीं नेत्रत्रयाय वौषट् ।

सौः अस्त्राय फट् ।

भूर्भुवस्सुवरों इति दिग्विमोकः ॥

ध्यानम् ।

अरुणकिरणजालैः रञ्जिताशावकाशा

विधृतजपवटीका पुस्तकाभीतिहस्ता ।

इतरकरवराढ्या फुल्लकल्हारसंस्था

निवसतु हृदि बाला नित्यकल्याणशीला ॥

लमित्यादि पञ्च पूजाः ।

लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।

हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।

यं वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं अग्न्यात्मिकायै दीपं दर्शयामि ।

वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।

समर्पणम् –

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।

सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ।

sri bala tripurasundari triyakshari mantra