Skip to main content
पडताळणी प्रलंबित

श्री बाला मन्त्रसिद्धि स्तवः

ब्राह्मीरूपधरे देवि ब्रह्मात्मा ब्रह्मपालिका ।

विद्यामन्त्रादिकं सर्वं सिद्धिं देहि परेश्वरि ॥ १ ॥

महेश्वरी महामाया मानन्दा मोहहारिणी ।

मन्त्रसिद्धिफलं देहि महामन्त्रार्णवेश्वरि ॥ २ ॥

गुह्येश्वरी गुणातीता गुह्यतत्त्वार्थदायिनी ।

गुणत्रयात्मिका देवी मन्त्रसिद्धिं ददस्व माम् ॥ ३ ॥

नारायणी च नाकेशी नृमुण्डमालिनी परा ।

नानानना नाकुलेशी मन्त्रसिद्धिं प्रदेहि मे ॥ ४ ॥

घृष्टिचक्रा महारौद्री घनोपमविवर्णका ।

घोरघोरतरा घोरा मन्त्रसिद्धिप्रदा भव ॥ ५ ॥

शक्राणी सर्वदैत्यघ्नी सहस्रलोचनी शुभा ।

सर्वारिष्टविनिर्मुक्ता सा देवी मन्त्रसिद्धिदा ॥ ६ ॥

चामुण्डारूपदेवेशी चलज्जिह्वा भयानका ।

चतुष्पीठेश्वरी देहि मन्त्रसिद्धिं सदा मम ॥ ७ ॥

लक्ष्मीलावण्यवर्णा च रक्ता रक्तमहाप्रिया ।

लम्बकेशा रत्नभूषा मन्त्रसिद्धिं सदा दद ॥ ८ ॥

बाला वीरार्चिता विद्या विशालनयनानना ।

विभूतिदा विष्णुमाता मन्त्रसिद्धिं प्रयच्छ मे ॥ ९ ॥

मन्त्रसिद्धिस्तवं पुण्यं महामोक्षफलप्रदम् ।

महामोहहरं साक्षात् सत्यं मन्त्रस्य सिद्धिदम् ॥ १० ॥

इति महाकालसंहितायां श्री बाला मन्त्रसिद्धि स्तवः ।

sri bala mantra siddhi stava