Skip to main content
पडताळणी प्रलंबित

त्रैलोक्यविजयविद्या

महेश्वर उवाच –

त्रैलोक्यविजयां वक्ष्ये सर्वयन्त्रविमर्दिनीम् ॥ १ ॥

ओं हूं क्षूं ह्रूं ओं नमो भगवति दंष्ट्रणि भीमवक्त्रे महोग्ररूपे हिलि हिलि रक्तनेत्रे किलि किलि महानिस्वने कुलु कुलु ओं विद्युज्जिह्वे हुलु हुलु ओं निर्मांसे कट कट गोनसाभरणे चिलि चिलि जीवमालाधारिणि द्रावय ओं महारौद्री सार्धचर्मकृताच्छदे विजृंभ ओं नृत्य असिलताधारिणि भृकुटिकृतापाङ्गे विषमनेत्रकृतानने वसामेदो विलिप्तगात्रे कह कह ओं हस हस क्रुद्ध क्रुद्ध ओं नीलजीमूतवर्णे अभ्रमालाकृदाभरणे विस्फुर ओं घण्टारवाविकीर्णदेहे ओं सिंसिद्धे अरुणवर्णे ओं ह्रां ह्रीं ह्रूं रौद्ररूपे हूं ह्रीं क्लीं ओं ह्रीं हूं ओं आकर्ष ओं धून धून ओं हे हः खः वज्रिणि हूं क्षूं क्षां क्रोधरूपिणि प्रज्वल प्रज्वल ओं भीमभीषणे भिन्दि ओं महाकाये छिन्दि ओं करालिनि किटि किटि महाभूतमातः सर्वदुष्टनिवारिणि जये ओं विजये ओं त्रैलोक्य विजये हूं फट् स्वाहा ॥ २ ॥

नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये ।

न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत् ।

सङ्ग्रामे सैन्यभङ्गस्स्यात्त्रैलोक्यविजया पठात् ॥ ३ ॥

ओं बहुरूपाय स्तंभय स्तंभय ओं मोहय ओं सर्वशत्रून् द्रावय ओं ब्रह्माणमाकर्षय ओं विष्णुमाकर्षय ओं महेश्वरमाकर्षय ओं इन्द्रं चालय ओं पर्वतान् चालय ओं सप्तसागराञ्छोषय ओं छिन्दि छिन्दि बहुरूपाय नमः ॥ ४ ॥

भुजङ्गनाम्नीमुन्मूर्तिसंस्थां विद्याधरीं ततः ॥ ५ ॥

इति श्रीमहापुराणे आग्नेये उमामहेश्वर संवादे युद्धजयार्णवे त्रैलोक्यविजयविद्यानाम चतुस्त्रिंशदधिकशततमोध्यायः ।

trailokya vijaya vidya mantra