Skip to main content
पडताळणी प्रलंबित

श्री वाराही (वार्ताली) मन्त्रः

अस्य श्री वार्ताली मन्त्रस्य शिव ऋषिः जगती छन्दः वार्ताली देवता ग्लौं बीजं स्वाहा शक्तिः मम अखिलावाप्तये जपे विनियोगः ॥

ऋष्यादिन्यासः –

ओं शिव ऋषये नमः शिरसि ।

जगती छन्दसे नमः मुखे ।

वार्ताली देवतायै नमो हृदि ।

ग्लौं बीजाय नमो लिङ्गे ।

स्वाहा शक्तये नमः पादयोः ।

विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –

ओं वार्तालि अङ्गुष्ठाभ्यां नमः ।

ओं वाराहि तर्जनीभ्यां नमः ।

ओं वाराहमुखि मध्यमाभ्यां नमः ।

ओं अन्धे अन्धिनि अनामिकाभ्यां नमः ।

ओं रुन्धे रुन्धिनि कनिष्ठिकाभ्यां नमः ।

ओं जम्भे जम्भिनि करतल करपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –

ओं वार्तालि हृदयाय नमः ।

ओं वाराहि शिरसे स्वाहा ।

ओं वाराहमुखि शिखायै वषट् ।

ओं अन्धे अन्धिनि कवचाय हुम् ।

ओं रुन्धे रुन्धिनि नेत्रत्रयाय वौषट् ।

ओं जम्भे जम्भिनि अस्त्राय फट् ।

ध्यानम् –

रक्ताम्भोरुहकर्णिकोपरिगते शावासने संस्थितां

मुण्डस्रक्परिराजमानहृदयां नीलाश्मसद्रोचिषम् ।

हस्ताब्जैर्मुसलं हलाऽभयवरान् सम्बिभ्रतीं सत्कुचां

वार्तालीमरुणाम्बरां त्रिनयनां वन्दे वराहाननाम् ॥

पञ्चपूजा –

लं – पृथिव्यात्मिकायै गन्धं परिकल्पयामि ।

हं – आकाशात्मिकायै पुष्पं परिकल्पयामि ।

यं – वाय्वात्मिकायै धूपं परिकल्पयामि ।

रं – अग्न्यात्मिकायै दीपं परिकल्पयामि ।

वं – अमृतात्मिकायै अमृतनैवेद्यं परिकल्पयामि ।

सं – सर्वात्मिकायै सर्वोपचारान् परिकल्पयामि ।

अथ चतुर्दशोत्तरशताक्षरि मन्त्रः –

ओं ऐं ग्लौं ऐं नमो भगवति वार्तालि वाराहि वाराहमुखि ऐं ग्लौं ऐं अन्धे अन्धिनि नमो रुन्धे रुन्धिनि नमो जम्भे जम्भिनि नमो मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः ऐं ग्लौं ऐं सर्व दुष्ट प्रदुष्टानां सर्वेषां सर्व वाक् पद चित्त चक्षुर्मुख गति जिह्वा स्तम्भनं कुरु कुरु शीघ्रं वशं कुरु कुरु ऐं ग्लौं ऐं ठः ठः ठः ठः हुं फट् स्वाहा ॥

हृदयादिन्यासः –

ओं वार्तालि हृदयाय नमः ।

ओं वाराहि शिरसे स्वाहा ।

ओं वाराहमुखि शिखायै वषट् ।

ओं अन्धे अन्धिनि कवचाय हुम् ।

ओं रुन्धे रुन्धिनि नेत्रत्रयाय वौषट् ।

ओं जम्भे जम्भिनि अस्त्राय फट् ।

समर्पणम् –

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत् कृतं जपम् ।

सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥

sri varahi vartali moola mantram