Skip to main content
पडताळणी प्रलंबित

श्री शिव ध्यानम्

ओं डिं डिं डिङ्कत डिम्ब डिम्ब डमरु पाणौ सदा यस्य वै

फुं फुं फुङ्कत सर्पजाल हृदयं, घं घं च घण्टारवम् ।

वं वं वङ्कत वम्ब वम्ब वहनं, कारुण्य पुण्यात् परं

भं भं भङ्कत भम्ब भम्ब नयनं, ध्यायेत् शिवं शङ्करम् ॥ १ ॥

यावत् तोय धरा धरा धर धरा, धारा धरा भूधरा

यावत् चारु सुचारु चारु चमरं, चामीकरं चामरम् ।

यावत् रावण राम राम रमणं, रामायणे श्रूयतां

तावत् भोग विभोग भोगमतुलं, यो गायते नित्यशः ॥ २ ॥

यस्याग्रे द्राट द्राट द्रुट द्रुटममलं, टण्ट टण्ट टण्टटं

तैलं तैलं तु तैलं खुखु खुखु खुखुमं, खङ्ख खङ्ख सखङ्खम् ।

डंस डंस डुडंस डुहि चकितं, भूपकं भूय नालं

ध्यायन्ते विप्रगाहे सवसति सबलः पातु वः चन्द्रचूडः ॥ ३ ॥

गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितं

खट्वाङ्ग च सितं सितश्च वृषभः, कर्णे सिते कुण्डले ।

गङ्गाफेनसिता जटा पशुपतेश्चनद्रः सितो मूर्धनि

सोऽयं सर्वसितो ददातु विभवं, पापक्षयं सर्वदा ॥ ४ ॥

इति शिव ध्यानम् ।

sri shiva dhyana mantra