Skip to main content

श्री परशुराम स्तोत्रम्

कराभ्यां परशुं चापं दधानं रेणुकात्मजम् |
जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम् ||१||

नमामि भार्गवं रामं रेणुकाचित्तनंदनम् |
मोचिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनम् || २ ||

भयार्तस्वजनत्राणतत्परं धर्मतत्परम् |
गतवर्गप्रियं शूरं जमदग्निसुतं मतम् || ३ ||

वशीकृतमहादेवं दृप्तभूपकुलान्तकम् |
तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् || ४ ||

परशुं दक्षिणे हस्ते वामे च दधतं धनु: |
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् || ५ ||

शुद्धं बुद्धं महाप्रज्ञामंडितं रणपण्डितं |
रामं श्रीदत्तकरुणाभाजनं विप्ररंजनं || ६ ||

मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनं |
य एतानि जपेद्रामनामानि स कृती भवेत || ७ ||

|| इति श्री प.प. वासुदेवानंदसरस्वतीविरचितं श्री परशुरमस्तोत्रं संपूर्णम् ||

parashuram stotram