Skip to main content

श्री विष्णु स्तवनम्

मार्कण्डेय उवाच । नरं नृसिंहं नरनाथमच्युतं प्रलम्बबाहुं कमलायतेक्षणम् । क्षितीश्वरैरर्चितपादपङ्कजं नमामि विष्णुं पुरुषं पुरातनम् ॥ १ ॥

जगत्पतिं क्षीरसमुद्रमन्दिरं तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम् । श्रियः पतिं श्रीधरमीशमीश्वरं नमामि गोविन्दमनन्तवर्चसम् ॥ २ ॥

अजं वरेण्यं जनदुःखनाशनं गुरुं पुराणं पुरुषोत्तमं प्रभुम् । सहस्रसूर्यद्युतिमन्तमच्युतं नमामि भक्त्या हरिमाद्यमाधवम् ॥ ३ ॥

पुरस्कृतं पुण्यवतां परां गतिं क्षितीश्वरं लोकपतिं प्रजापतिम् । परं पराणामपि कारणं हरिं नमामि लोकत्रयकर्मसाक्षिणम् ॥ ४ ॥

भोगे त्वनन्तस्य पयोदधौ सुरः पुरा हि शेते भगवाननादिकृत् । क्षीरोदवीचीकणिकाम्बुनोक्षितं तं श्रीनिवासं प्रणतोऽस्मि केशवम् ॥ ५ ॥

यो नारसिंहं वपुरास्थितो महान् सुरो मुरारिर्मधुकैटभान्तकृत् । समस्तलोकार्तिहरं हिरण्यकं नमामि विष्णुं सततं नमामि तम् ॥ ६ ॥

अनन्तमव्यक्तमतीन्द्रियं विभुं स्वे स्वे हि रूपे स्वयमेव संस्थितम् । योगेश्वरैरेव सदा नमस्कृतं नमामि भक्त्या सततं जनार्दनम् ॥ ७ ॥

आनन्दमेकं विरजं विदात्मकं वृन्दालयं योगिभिरेव पूजितम् । अणोरणीयांसमवृद्धिमक्षयं नमामि भक्तप्रियमीश्वरं हरिम् ॥ ८ ॥

इति श्रीनरसिंहपुराणे मार्कण्डेयचरित्रे दशमोऽध्याये मार्कण्डेयप्रोक्त श्रीविष्णु स्तवनम् ।

इतर श्री विष्णु स्तोत्राणि पश्यतु |

vishnu stavanam stotra