श्री दुर्गा सप्तशती प्रथमोऽध्याय:
अथ श्रीदुर्गासप्तशती
प्रथमोऽध्याय:
प्रथमचरित्र
ॐ प्रथमचरित्रस्य ब्रह्मा ऋषि: महाकाली देवता गायत्री छंद: नंदाशक्ति: रक्तदन्तिकाबीजम् अग्नितत्त्वतम् ऋग्वेद:स्वरूपम् श्री महाकालीप्रीत्यर्थे प्रथमचरित्र जपे विनियोग: ।
ध्यानम्
खड्गं चक्रगदेषुचापपरिघाच्छूलं भुशुण्डीं शिर:
शङ्खं संदधतीं करौस्त्रिनयनां सर्वाड्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥
ॐ नमश्चण्डिकायै ॥
ॐ नम: चण्डिकायै
ॐ ऎं' मार्कण्डेय उवाच ॥१॥
सावर्णि: सूर्यतनयो यो मनु: कथ्यतेऽष्टम: ।
निशामय तदुत्पत्तिं विस्तराद् गदतो मम ॥२॥
महामायानुभावेन यथा मन्वन्तराधिप: ।
स बभूव महाभाग: सावर्णिस्तनयो रवे: ॥३॥
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भव: ।
सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥४॥
तस्य पालयत: सम्यक् प्रजा: पुत्रानिवौरसान्।
बभूवु: शत्रवो भूपा: कोलाविध्वंसिनस्तदा ॥५॥
तस्य तैरभवद् युद्धमतिप्रबलदण्डिन: ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जित: ॥६॥
तत: स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्त: स महाभागस्तैस्तदा प्रबलारिभि: ॥७॥
अमात्यैर्बलिभिर्दुर्बलस्य दुरात्मभि: ।
कोशे बलं चापह्रतं तत्रापि स्वपुरे तत: ॥८॥
ततो मृगयाव्याजेन ह्रतस्वाम्य: स भूपति: ।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥९॥
स तत्राश्रममद्राक्षीद् द्बिजवर्यस्य मेधस: ।
प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥१०॥
तस्थौ कंचित्स कालं च मुनिना तेन सत्कृत; ।
इतश्चेतश्च विचरंस्तस्मिन्मुनिवराश्रमे ॥११॥
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टचेतन: ।
मत्पूर्वै: पालितं पूर्वं मया हीनं पुरं हि तत् ॥१२॥
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मत: पाल्यते न वा ।
न जाने स प्रधानो मे शूरहस्ती सदामद: ॥१३॥
मम वैरिवशं यात: कान् भॊगानुपलप्स्यते ।
ये ममानुगता नित्यं प्रसादधनभोजनै: ॥१४॥
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ।
असम्यग्व्यशीलैस्तै: कुर्वद्भि: सततं व्ययम् ॥१५॥
संचित: सोऽतिदु:खेन क्षयं कोशो गमिष्यति ।
एतच्चान्यच्च सततं चिन्तयामास पार्थिव: ॥१६॥
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श स:।
स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र क: ॥१७॥
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ।
इत्याकर्ण्य वचस्तस्य भूपते: प्रणयोदितम् ॥१८॥
प्रत्युवाच स तं वैश्य: प्रश्रयावनतो नृपम् ॥१९॥
वैश्य उवाच ॥२०॥
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥२१॥
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभि: ।
विहीनश्च धनैर्दारै: पुत्रैरादाय मे धनम् ॥२२॥
वनमभ्यागतो दु:खी निरस्तश्र्चाप्तबन्धुभि: ।
सोऽहं न वेद्मि पुत्राणां कुशलकुशलात्मि-काम् ॥२३॥
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थित: ।
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ॥२४॥
कथं ते किं न सद्वृत्ता दुर्वृत्ता: किं नु मे सुता: ॥२५॥
राजोवाच ॥२६॥
यैर्निरस्तो भवाँल्लुब्धै: पुत्रदारादिभिर्धनै: ॥२७॥
तेषु किं भवतु: स्नेहमनुबघ्नाति मानसम् ॥२८॥
वैश्य उवाच ॥२९॥
एवमेतद्यथा प्राह भवानस्मद्गतं वच: ॥३०॥
किं करोमि न बध्नाति मम निष्ठुरतां मन: ।
यै: संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृत: ॥३१॥
पतिस्वजनहार्दं च हार्दि तेष्वेव मे मन: ।
किमेतन्नाभिजानामि जानन्नपि महामते ॥३२॥
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।
तेषां कृते मे नि:श्वासो दौर्मनस्यं च जायते ॥३३॥
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥३४॥
मार्कण्डेय उवाच ॥३५॥
ततस्तौ सहितौ व िप्र तं मुनिं समुपस्थितौ ॥३६॥
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तम: ।
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥३७॥
उपविष्टौ कथा: काश्र्चिच्चक्रतुर्वैश्यपार्थिवौ ॥३८॥
राजोवाच ॥३९॥
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥४०॥
दु:खाय यन्मे मनस: स्वचित्तायत्ततां विना ।
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥४१॥
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।
अयं च निकृत: पुत्रैर्दारैर्भृत्यैस्तथोज्झित: ॥४२॥
स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति ।
एवमेष तथाहं च द्वावप्यत्यन्तदु:खितौ ॥४३॥
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥४४॥
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥४५॥
ऋषिरुवाच ॥४६॥
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥४७॥
विषयश्च महाभाग याति चैवं पृथक् पृ थक् ।
दिवान्धा: प्राणिन: केचिद्रात्रावन्धास्तथापरे ॥४८॥
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टय: ।
ज्ञानिनो मनुजा: सत्यं किं तु ते नहि केवलम् ॥४९॥
यतो हि ज्ञानिन: सर्वे पशुपक्षिमृगादय: ।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥५०॥
मनष्याणां च यत्तेषां तुल्यमन्यत्तथोभयो: ।
ज्ञानेऽपि सति पश्यैतान् पतङ्गात्र्छावचञ्चुषु ॥५१॥
कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा ।
मानुषा मनुजव्याघ्र साभिलाषा: सुतान् प्रति ॥५२॥
लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।
तथापि ममतावर्ते मोहगर्ते निपातिता: ॥५३॥
महामायाप्रभवेण संसारस्थितिकारिणा ।
तन्नात्र विस्मय: कार्यो योगनिद्रा जगत्पते: ॥५४॥
महामाया हरेश्चैषा तया संमोह्यते जगत् ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥५५॥
बलादाकृष्य मोहाय महामाया प्रयच्छति ।