Skip to main content

श्री दुर्गा सप्तशती अष्टमोऽध्याय:

अष्टमोऽध्याय:

ध्यानम्

ॐ अरुणां करुणातरङ्‌गिताक्षीं धृतपाशाङ्‌कुशबाणचापहस्ताम् ।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

ॐ ऋषिरुवाच ॥१॥

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।

बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वर: ॥२॥

तत: कोपपराधीनचेता: शुम्भ: प्रतापवान् ।

उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥३॥

अद्य सर्वबलैर्दैत्या: षडशीतिरुदायुधा: ।

कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृता: ॥४॥

कोटिवीर्याणि पंचाशद्सुराणां कुलानि वै ।

शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥५॥

कालका दौर्ह्रदा मौर्या: कालकेयास्तथासुरा: ।

युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥६॥

इत्याज्ञाप्यासुरपति: शुम्भो भैरवशासन: ।

निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृत: ॥७॥

आयान्तं चण्डिका दृष्ट्‌वा तत्सैन्यमतिभीषणम् ।

ज्यास्वनै: पूरयामास धरणीगगनान्तरम् ॥८॥

तत: सिंहो महानादमतीव कृतवान् नृप ।

घण्टास्वनेन तन्नादमम्बिका चोपबृंहयत् ॥९॥

धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्‌मुखा ।

निनादैर्भीषणै: काली जिग्ये विस्तारितानना ॥१०॥

तं निनादमुपश्रुत्य दैत्यसैन्यैश्‍चतुर्दिशम् ।

देवी सिंहस्तथा काली सरोषै: परिवारिता: ॥११॥

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।

भवायामरसिंहानामतिवीर्यबलान्विता: ॥१२॥

ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्‍तय: ।

शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्‍चण्डिकां ययु: ॥१३॥

यस्य देवस्य यद्रूपं यथाभूषणवाहनम् ।

तद्वदेव हि तच्छक्तिरसुरान् योद्‌धुमाययौ ॥१४॥

हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलु: ।

आयाता ब्रह्मण: शक्तिर्ब्रह्माणी साभिधीयते ॥१५॥

माहेश्‍वरी वृषारूढा त्रिशुलवरधारिणी ।

महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥१६॥

कौमारी शक्तिहस्ता च मयूरवरवाहना ।

योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥१७॥

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।

शङ्‌खचक्रगदाशाड्‌र्गखड्‌गहस्ताभ्युपाययौ ॥१८॥

यज्ञवाराहमतुलं रूपं या बिभ्रतो हरे: ।

शक्ति: साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥१९॥

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपु: ।

प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहति:॥२०॥

वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।

प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥२१॥

तत: परिवृतस्ताभिरीशानो देवशक्तिभि: ।

हन्यन्तामसुरा: शीघ्रं मम प्रीत्याऽऽह चण्डिकाम् ॥२२॥

ततो देवीशरीरातु विनिष्क्रान्तातिभीषणा ।

चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी ॥२३॥

सा चाह धूम्रजटिलमीशानमपराजिता ।

दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयो: ॥२४॥

ब्रुहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।

ये चान्ये दानवास्तत्र युद्धाय समुपस्थिता: ॥२५॥

त्रैलोक्यमिन्द्रो लभतां देव: सन्तु हविर्भुज: ।

यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥२६॥

बलावलेपादथ चेद्‌भवन्तो युद्धकाङ्‌क्षिणा: ।

तदागच्छतु तृप्यन्तु मच्छिवा: पिशितेन व: ॥२७॥

यतो नियुक्तो दौत्येन तया देव्या शिव: स्वयम् ।

शिवदूतीति लोकेऽस्मिस्तत: सा ख्यातिमागता ॥२८॥

तेऽपि श्रुत्वा वचो देव्या: शर्वाख्यातं महासुरा: ।

अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥२९॥

तत: प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभि: ।

ववर्षुरुद्धतामर्षास्तां देवीममरारय: ॥३०॥

सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।

चिच्छेद लीलयाऽऽध्मातधनुर्मुक्तैर्महेषुभि: ॥३१॥

तस्याग्रतस्तथा काली शूलपातविदारितान् ।

खट्‌वाङ्‌गपोथितांश्चारीन् कुर्वती व्यचरत्तदा ॥३२॥

कमण्डलुजलाक्षेपहतवीर्यान् हतौजस: ।

ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति ॥३३॥

माहेश्‍वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।

दैत्याज्जघान कौमारी तथा शक्त्यातिकोपना ॥३४॥

ऎन्द्रीकुलिशपातेन शतशो दैत्यदानवा: ।

पेतुर्विदारिता: पृथ्व्यां रुधिरौधप्रवर्षिण: ॥३५॥

तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षस: ।

वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिता: ॥३६॥

नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।

नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥३७॥

चण्डाट्टहासैरसुरा: शिवदूत्यभिदूषिता: ।

पेतु: पृथिव्यां पतितांस्तांश्‍चखादाथ सा तदा ॥३८॥

इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।

दृष्ट्‌वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिका: ॥३९॥

पलयनपरान् दृष्ट्‌वा दैत्यान् मातृगणार्दितान् ।

योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुर: ॥४०॥

रक्‍तबिन्दुर्यदा भूमौ पतत्यस्य शरीरत: ।

समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुर: ॥४१॥

युयुधे स गदापाणिरिन्द्रशक्त्या महासुर: ।

ततश्‍चैन्द्री स्ववज्रेण रक्‍तबीजमताडयत् ॥४२॥

कुलिशेनाहतस्याशु बहु सुस्राव शेणितम् ।

समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमा: ॥४३॥

यावन्त: पतितास्तस्य शरीराद्रक्‍तबिन्दव: ।

तावन्त: पुरुषा जातास्तद्वीर्यबलविक्रमा: ॥४४॥

ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवा: ।

समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥४५॥

पुनश्‍च वज्रपातेन क्षतमस्य शिरो यदा ।

ववाह रक्तं पुरुषास्ततो जाता: सहस्रश: ॥४६॥

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।

गदया ताडयामास ऎन्द्री तमसुरेश्‍वरम् ॥४७॥

वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवै: ।

सहस्रशो जगद्‌व्याप्तं तत्प्रमाणैर्महासुरै: ॥४८॥

शक्त्या जघान कौमारी वाराही च तथासिना ।

माहेश्‍वरी त्रिशूलेन रक्‍तबीजं महासुरम् ॥४९॥

स चापि गदया दैत्य: सर्वा एवाहनत् पृथक् ।

मातृ: कोपसमाविष्टो रक्तबीजो महासुर: ॥५०॥

तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।

पपात यो वै रक्‍तौघस्तेनासञ्छतशोऽसुरा: ॥५१॥

तैश्‍चासुरासृक्सम्भूतैरसुरै: सकलं जगत् ।

व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥५२॥

तान् विषण्णान् सुरान् दृष्ट्‌वा चण्डिका प्राह सत्वरा ।

उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥५३॥

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् ।

रक्‍तबिन्दो: प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥५४॥

भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।

एवमेष क्षयं दैत्य: क्षीणरक्तो गमिष्यति ॥५५॥

भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।

इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥५६॥

मुखेन काली जगृहे रक्‍तबीजस्य शोणितम् ।

ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥५७॥

न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।

तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥५८॥

यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।

मुखे समुद्गता येऽस्या रक्‍तपातान्महासुरा: ॥५९॥

तांश्‍चखादाथ चामुण्डा पपौ तस्य च शोणितम् ।

देवी शूलेन वज्रेण बाणैरसिभिऋष्टिभि: ॥६०॥

जघान रक्‍तबीजं तं चामुण्डापीतशोणितम् ।

स पपात महीपृष्ठे शस्‍त्रसङ्घसमाहत: ॥६१॥

नीरक्तश्र्च महीपाल रक्तबीजो महासुर: ।

ततस्ते हर्षमतुलमवापुस्रिदशा नृप ॥६२॥

तेषां मातृगणो जातो ननर्तासृङ्‌मदोद्धत: ॥ॐ॥६३॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे

देवीमाहात्म्ये

रक्तबीजवधो नामाष्टमोऽध्याय: ॥८॥

उवाच१, अर्धश्‍लोक: १,श्लोका: ६१,

एवम् ६३, एवमादित: ५०२ ॥