Skip to main content

श्री दुर्गा सप्तशती षष्ठोऽध्याय:

षष्ठोऽध्याय:

ध्यानम्

ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली-

भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्‌भासिताम् ।

मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां

सर्वज्ञेश्‍वरभैरवाङ्‌कनिलयां पद्‌मावतीं चिन्तये ॥

'ॐ' ऋषिरुवाच ॥१॥

इत्याकर्ण्य वचो देव्या: स दूतोऽमर्षपूरित: ।

समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥२॥

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् तत: ।

सक्रोध: प्राह दैत्यानामधिपं धूम्रलोचनम् ॥३॥

हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारित: ।

तामानय बलाद् दुष्टां केशकर्षणविह्‌वलाम् ॥४॥

तत्परित्राणद: कश्‍चिद्यदि वोत्तिष्ठतेऽपर: ।

स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥५॥

ऋषिरुवाच ॥६॥

तेनाज्ञप्तस्तत: शीघ्रं स दैत्यो धूम्रलोचन: ।

वृत: षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥७॥

स दृष्ट्‌वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।

जगदोच्चै: प्रयाहीति मूलं शुम्भनिशुम्भयो: ॥८॥

न चेत्प्रीत्याद्य भवती मद्‌भर्तारमुपैष्यति ।

ततो बलान्नयाम्येष केशाकर्षणाविह्‌‍वलाम् ॥९॥

देव्युवाच ॥१०॥

दैत्येश्‍वरेण प्रहितो बलवान् बलसंवृत: ।

बलान्नयसि मामेवं तत: किं ते करोम्यहम् ॥११॥

ऋषिरुवाच ॥१२॥

इत्युक्त: सोऽभ्यधावत्तामसुरो धूम्रलोचन: ।

हुंकारेणैव तं भस्म सा चकाराम्बिका तत: ॥१३॥

अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।

ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधै: ॥१४॥

ततो धुतसट: कोपात्कृत्वा नादं सुभैरवम् ।

पपातासुरसेनायां सिंहो देव्या: स्ववाहन: ॥१५॥

कांश्‍चित् करप्रहारेण दैत्यानास्येन चापरान् ।

आक्रम्य चाधरेणान्यान्‌ स जघान महासुरान् ॥१६॥

केषांचित्पाटयामास नखै: कोष्ठानि केसरी ।

तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ॥१७॥

विच्छिन्नबाहुशिरस: कृतास्तेन तथापरे ।

पपौ च रुधिरं कोष्ठादन्येषां धुतकेसर: ॥१८॥

क्षणेन तद्‌बलं सर्वं क्षयं नीतं महात्मना ।

तेन केसरिणा देव्या वाहनेनातिकोपिना ॥१९॥

श्रृत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।

बलं च क्षयितं कृत्स्नं देवीकेसरिणा तत: ॥२०॥

चुकोप दैत्याधिपति: शुम्भ: प्रस्फुरिताधर: ।

आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥२१॥

हे चण्ड हे मुण्ड बलैर्बहुभि: परिवारितौ ।

तत्र गच्छत गत्वा च सा समानीयतां लघु ॥२२॥

केशेष्वाकृष्य बद्ध्वा वा यदि व: संशयो युधि ।

तदाशेषायुधै: सर्वैरसुरैर्विनिहन्यताम् ॥२३॥

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।

शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ॐ॥२४॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहत्मये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम

षष्ठोऽध्याय: ॥६॥

उवाच ४, श्‍लोका: २०, एवम्‌ २४

एवमारित: ॥४१२॥

श्री अंबिका विजयते