Skip to main content

श्री दुर्गा सप्तशती त्रयोदशोऽध्याय:

त्रयोदशोऽध्याय:

ध्यानम्

ॐ बालार्कण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।

पाशाङ्‌कुशवराभीतीर्धारयन्तीं शिवां भजे ।

'ॐ' ऋषिरुवाच ॥१॥

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।

एवंप्रभावा सा देवी ययेदं धार्यते जगत् ॥२॥

विद्या तथैव क्रियते भगवद्विष्णुमायया ।

तया त्वमेष वैश्‍यश्‍च तथैवान्ये विवेकिन:॥३॥

मोह्यन्ते मोहिताश्‍चैव मोहमेष्यन्ति चापरे ।

तामुपैहि महाराज शरणं परमेश्‍वरीम् ॥४॥

आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥५॥

मार्कण्डेय उवाच ॥६॥

इति तस्य वच: श्रुत्वा सुरथ: स नराधिप: ॥७॥

प्रणिपत्य महाभागं तमृषिं शंसितव्रतम् ।

निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥८॥

जगाम सद्यस्तपसे स च वैश्यो महामुने ।

संदर्शनार्थमम्बाया नदीपुलिनसंस्थित: ॥९॥

स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।

तौ तस्मिन पुलिने देव्या: कृत्वा मूर्तिं महीमयीम् ॥१०॥

अर्हणां चक्रतुस्तस्या: पुष्पधूपाग्नितर्पणै: ।

निराहारो यताहारो तन्मनस्कौ समहितौ ॥१२॥

ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनो: ॥१२॥

परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥१३॥

देव्युवाच ॥१४॥

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन

मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत् ॥१५॥

मार्कण्डेय उवाच ॥१६॥

ततो वव्रे नृपो राज्यमविभ्रंश्‍यन्यजन्मनि ।

अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥१७॥

सोऽपि वैश्‍यस्ततो ज्ञानं वव्रे निर्विण्णमानस: ।

ममेत्यहमिति प्राज्ञ: सङ्‌गविच्युतिकारकम् ॥१८॥

देव्युवाच ॥१९॥

स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥२०॥

हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥२१॥

मृतश्‍च भूय: सम्प्राप्य जन्म देवाद्विवस्वत: ॥२२॥

सावर्णिको नाम मनुर्भवान् भुवि भविष्यति ॥२३॥

वैश्‍यवर्य त्वया यश्‍च वरोऽस्मत्तोऽभिवाञ्छित: ॥२४॥

तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥२५॥

मार्कण्डेय उवाच ॥२६॥

इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ॥२७॥

बभुवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।

एवं देव्या वरं लब्द्ध्वा सुरथ: क्षत्रियर्षभ: ॥२८॥

सूर्याज्जन्म समासाद्य सावर्णि भविता मनु: ॥क्लीं ॐ॥॥२९॥

एवं देव्या वरं लब्धवा सुरथ: क्षत्रियर्षभ:

सूर्याज्जन्म समासाद्य सावर्णि भविता मनु: ॥क्लीं ॐ॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे

देवीमाहात्मये सुरथवैश्ययोर्वरप्रदानं नाम

त्रयोदशोऽध्याय: ॥१३॥

श्री भक्तवरदायिनी विजयते -

उवाच ६, अर्धश्लोका: ११, श्लोका: १२,

एवम्  २९,

एवमादित: ७०० ॥ समस्ता उवाचमन्त्रा: ५७,

अर्धश्लोका: ४२, श्लोका: ५३५,

अवदानानि ६६॥

-श्री दुर्गामाता विजयते -

  • श्री गौरी प्रार्थना -

अरुणकमल संस्था तद्रज: पुन्जवर्षा

करकमल धृतेष्टा भीतियुग्माम्बुजाता ।

मणिमुकुट विचित्रालड्‌कृति: पद्‌ममाला

भवतु भुवनमाता सततं श्री: श्रियै न: ॥१॥