श्री दुर्गा सप्तशती तृतीयोऽध्याय:
तृतीयोऽध्याय:
ध्यानम्
ॐ उद्य्दभानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् ॥
'ॐ' ऋषिउवाच ॥१॥
निहन्यमानं तत्सैन्यमवलोक्य महासुर: ।
सेनानीश्चिक्षुर: कोपाद्ययौ योद्धुमथाम्बिकाम् ॥२॥
स देवीं शरवर्षेण ववर्ष समरेऽसुर: ।
यथा मेरुगिरे: श्रृङ्गं तोयवर्षेण तोयद: ॥३॥
तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम् ॥४॥
चिच्छेद च धनु: सद्यो ध्वजं चातिसमुच्छ्रितम् ।
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगै: ॥५॥
सच्छिन्नधन्वा विरथो हताश्वो हतसारथि: ।
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुर: ॥६॥
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।
आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥७॥
तस्या: खड्गो भुजं प्राप्य पफाल नृपनन्दन ।
ततो जग्राह शूलं स कोपादरुणलोचन: ॥८॥
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुर: ।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥९॥
दृष्ट्वा तदापतच्छूलं देवी शूलममुंचत ।
तच्छूलं शतधा तेन नीतं स च महासुर: ॥१०॥
हते तस्मिनमहावीर्ये महिषस्य चमूपतौ ।
आजगाम गजारूढश्चामरस्त्रिदशार्दन: ॥११॥
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।
हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम् ॥१२॥
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वित: ।
चिक्षेप चामर: शूलं बाणैस्तदपि साच्छिनत् ॥१३॥
तत: सिंह: समुत्पत्य गजकुम्भान्तरे स्थित: ।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥१४॥
युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।
युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणै: ॥१५॥
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।
करप्रहारेण शिरश्चामरस्य पृथक्कृतम् ॥१६॥
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हत: ।
दन्तमुष्टितलैश्चैव करालश्च निपातित: ॥१७॥
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥१८॥
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥१९॥
बिडालस्यासिना कायात्पातयामास वै शिर: ।
दुर्धरं दुर्मुखं चोभौ शरौर्निन्ये यमक्षयम् ॥२०॥
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुर: ।
माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥२१॥
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।
लाङ्गूलताडितांश्चान्यांछृङ्गाभ्या च विदारितान् ॥२२॥
वेगेन कांश्र्चिदपरान्नादेन भ्रमणेन च ।
नि:श्वासपवनेनान्यान् पातयामास भूतले ॥२३॥
निपात्य प्रमथानीकमभ्यधावत सोऽसुर: ।
सिंहं हन्तुं महादेव्या: कोपं चक्रे ततोऽम्बिका॥२४॥
सोऽपि कोपन्महावीर्य: खुरक्षण्णमहीतल: ।
श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥२५॥
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।
लाङ्गूलेनाहतश्चाब्धि: प्लावयामास सर्वत: ॥२६॥
धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घना: ।
श्वासानिलास्ता: शतशो निपेतुर्नभसोऽचला: ॥२७॥
इति क्रोधसमाध्मातमापतन्तं महासुरम् ।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥२८॥
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥२९॥
तत: सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिर: ।
छिनत्ति तावत्पुरुष: खड्गपाणिरदृश्यत ॥३०॥
तत एवाशु पुरुषं देवी चिच्छेद सायकै: ।
तं खड्गचर्मणा सार्द्धं तत: सोऽभून्महागज: ॥३१॥
करेण च महासिंहं तं चकर्ष जगर्ज च ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥३२॥
ततो महासुरो भूयो माहिषं वपुरास्थित: ।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥३३॥
तत: क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।
पपौ पुन: पुनश्चैव जहासारुणलोचना ॥३४॥
ननर्द चासुर: सोऽपि बलवीर्यमदोद्धत: ।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूध-रान् ॥३५॥
सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करै: ।
उवाचं तं मदोद्धृतमुखरागाकुलाक्षरम् ॥३६॥
देव्युवाच ॥३७॥
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवता: ॥३८॥
ऋषिरुवाच ॥३९॥
एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम् ।
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥४०॥
तत: सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्तत: ।
अर्धनिष्क्रान्त एवासीद् देव्या वीर्येण संवृत: ॥४१॥
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुर: ।
तया महासिना देव्या शिरश्छित्त्वा निपातित: ॥४२॥
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।
प्रहर्षं च परं जग्मु: सकला देवतागणा: ॥४३॥
तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभि: ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणा: ॥४४॥
इति श्रीमार्कण्डेयपुराणे सार्वर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरवधो नाम तृतीयोऽध्याय: ॥३॥
उवाच ३, श्लोका: ४१, एवम् ४४,
एवमादित: २१७ ॥