Skip to main content
पडताळणी प्रलंबित

श्री गणेश मानस पूजा

गृत्समद उवाच ।

विघ्नेशवीर्याणि विचित्रकाणि

बन्दीजनैर्मागधकैः स्मृतानि ।

श्रुत्वा समुत्तिष्ठ गजानन त्वं

ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ १ ॥

एवं मया प्रार्थित विघ्नराज-

-श्चित्तेन चोत्थाय बहिर्गणेशः ।

तं निर्गतं वीक्ष्य नमन्ति देवाः

शम्भ्वादयो योगिमुखास्तथाहम् ॥ २ ॥

शौचादिकं ते परिकल्पयामि

हेरम्ब वै दन्तविशुद्धिमेवम् ।

वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं

देवं सभायां विनिवेशयामि ॥ ३ ॥

द्विजादिसर्वैरभिवन्दितं च

शुकादिभिर्मोदसुमोदकाद्यैः ।

सम्भाष्य चालोक्य समुत्थितं तं

सुमण्डपं कल्प्य निवेशयामि ॥ ४ ॥

रत्नैः सुदीप्तैः प्रतिबिम्बितं तं

पश्यामि चित्तेन विनायकं च ।

तत्रासनं रत्नसुवर्णयुक्तं

सङ्कल्प्य देवं विनिवेशयामि ॥ ५ ॥

सिद्ध्या च बुद्ध्या सह विघ्नराज

पाद्यं कुरु प्रेमभरेण सर्वैः ।

सुवासितं नीरमथो गृहाण

चित्तेन दत्तं च सुखोष्णभावम् ॥ ६ ॥

ततः सुवस्त्रेण गणेशमादौ

सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।

चित्तेन भावप्रिय दीनबन्धो

मनो विलीनं कुरु ते पदाब्जे ॥ ७ ॥

कर्पूरकैलादिसुवासितं तु

सुकल्पितं तोयमथो गृहाण ।

आचम्य तेनैव गजानन त्वं

कृपाकटाक्षेण विलोकयाशु ॥ ८ ॥

प्रवालमुक्ताफलहाटकाद्यैः

सुसंस्कृतं ह्यन्तरभावकेन ।

अनर्घ्यमर्घ्यं सफलं कुरुष्व

मया प्रदत्तं गणराज ढुण्ढे ॥ ९ ॥

सौगन्ध्ययुक्तं मधुपर्कमाद्यं

सङ्कल्पितं भावयुतं गृहाण ।

पुनस्तथाचम्य विनायक त्वं

भक्तांश्च भक्तेश सुरक्षयाशु ॥ १० ॥

सुवासितं चम्पकजातिकाद्यै-

-स्तैलं मया कल्पितमेव ढुण्ढे ।

गृहाण तेन प्रविमर्दयामि

सर्वाङ्गमेवं तव सेवनाय ॥ ११ ॥

ततः सुखोष्णेन जलेन चाह-

-मनेकतीर्थाहृतकेन ढुण्ढे ।

चित्तेन शुद्धेन च स्नापयामि

स्नानं मया दत्तमथो गृहाण ॥ १२ ॥

ततः पयःस्नानमचिन्त्यभाव

गृहाण तोयस्य तथा गणेश ।

पुनर्दधिस्नानमनामय त्वं

चित्तेन दत्तं च जलस्य चैव ॥ १३ ॥

ततो घृतस्नानमपारवन्द्य

सुतीर्थजं विघ्नहर प्रसीद ।

गृहाण चित्तेन सुकल्पितं तु

ततो मधुस्नानमथो जलस्य ॥ १४ ॥

सुशर्करायुक्तमथो गृहाण

स्नानं मया कल्पितमेव ढुण्ढे ।

ततो जलस्नानमघापहन्तृ

विघ्नेश मायाभ्रमं वारयाशु ॥ १५ ॥

सुयक्षपङ्कस्थमथो गृहाण

स्नानं परेशाधिपते ततश्च ।

कौमण्डलीसम्भवजं कुरुष्व

विशुद्धमेवं परिकल्पितं तु ॥ १६ ॥

ततस्तु सूक्तैर्मनसा गणेशं

सम्पूज्य दूर्वादिभिरल्पभावैः ।

अपारकैर्मण्डलभूतब्रह्म-

-णस्पत्यकैस्तं ह्यभिषेचयामि ॥ १७ ॥

ततः सुवस्त्रेण तु प्रोञ्छनं त्वं

गृहाण चित्तेन मया सुकल्पितम् ।

ततो विशुद्धेन जलेन ढुण्ढे

ह्याचान्तमेवं कुरु विघ्नराज ॥ १८ ॥

अग्नौ विशुद्धे तु गृहाण वस्त्रे

ह्यनर्घ्यमौल्ये मनसा मया ते ।

दत्ते परिच्छाद्य निजात्मदेहं

ताभ्यां मयूरेश जनांश्च पालय ॥ १९ ॥

आचम्य विघ्नेश पुनस्तथैव

चित्तेन दत्तं मुखमुत्तरीयम् ।

गृहाण भक्तप्रतिपालक त्वं

नमो यथा तारकसम्युतं तु ॥ २० ॥

यज्ञोपवीतं त्रिगुणस्वरूपं

सौवर्णमेवं ह्यहिनाथभूतम् ।

भावेन दत्तं गणनाथ तत्त्वं

गृहाण भक्तोद्धृतिकारणाय ॥ २१ ॥

आचान्तमेवं मनसा प्रदत्तं

कुरुष्व शुद्धेन जलेन ढुण्ढे ।

पुनश्च कौमण्डलकेन पाहि विश्वं

प्रभो खेलकरं सदा ते ॥ २२ ॥

उद्यद्दिनेशाभमथो गृहाण

सिन्दूरकं ते मनसा प्रदत्तम् ।

सर्वाङ्गसंलेपनमादराद्वै

कुरुष्व हेरम्ब च तेन पूर्णम् ॥ २३ ॥

सहस्रशीर्षं मनसा मया त्वं

दत्तं किरीटं तु सुवर्णजं वै ।

अनेकरत्नैः खचितं गृहाण

ब्रह्मेश ते मस्तकशोभनाय ॥ २४ ॥

विचित्ररत्नैः कनकेन ढुण्ढे

युतानि चित्तेन मया परेश ।

दत्तानि नानापदकुण्डलानि

गृहाण शूर्पश्रुतिभूषणाय ॥ २५ ॥

शुण्डाविभूषार्थमनन्तखेलिन्

सुवर्णजं कञ्चुकमागृहाण ।

रत्नैश्च युक्तं मनसा मया य-

-द्दत्तं प्रभो तत्सफलं कुरुष्व ॥ २६ ॥

सुवर्णरत्नैश्च युतानि ढुण्ढे

सदैकदन्ताभरणानि कल्प्य ।

गृहाण चूडाकृतये परेश

दत्तानि दन्तस्य च शोभनार्थम् ॥ २७ ॥

रत्नैः सुवर्णेन कृतानि तानि

गृहाण चत्वारि मया प्रकल्प्य ।

सम्भूषय त्वं कटकानि नाथ

चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८ ॥

विचित्ररत्नैः खचितं सुवर्ण-

-सम्भूतकं गृह्य मया प्रदत्तम् ।

तथाङ्गुलीष्वङ्गुलिकं गणेश

चित्तेन संशोभय तत्परेश ॥ २९ ॥

विचित्ररत्नैः खचितानि ढुण्ढे

केयूरकाणि ह्यथ कल्पितानि ।

सुवर्णजानि प्रमथाधिनाथ

गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३० ॥

प्रवालमुक्ताफलरत्नजैस्त्वं

सुवर्णसूत्रैश्च गृहाण कण्ठे ।

चित्तेन दत्ता विविधाश्च माला

उरोदरे शोभय विघ्नराज ॥ ३१ ॥

चन्द्रं ललाटे गणनाथ पूर्णं

वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।

संशोभय त्वं वरसम्युतं ते

भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२ ॥

चिन्तामणिं चिन्तितदं परेश

हृद्देशगं ज्योतिर्मयं कुरुष्व ।

मणिं सदानन्दसुखप्रदं च

विघ्नेश दीनार्थद पालयस्व ॥ ३३ ॥

नाभौ फणीशं च सहस्रशीर्षं

संवेष्टनेनैव गणाधिनाथ ।

भक्तं सुभूषं कुरु भूषणेन

वरप्रदानं सफलं परेश ॥ ३४ ॥

कटीतटे रत्नसुवर्णयुक्तां

काञ्चीं सुचित्तेन च धारयामि ।

विघ्नेश ज्योतिर्गणदीपनीं ते

प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५ ॥

हेरम्ब ते रत्नसुवर्णयुक्ते

सुनूपुरे मञ्जिरके तथैव ।

सुकिङ्किणीनादयुते सुबुद्ध्या

सुपादयोः शोभय मे प्रदत्ते ॥ ३६ ॥

इत्यादि नानाविधभूषणानि

तवेच्छया मानसकल्पितानि ।

सम्भूषयाम्येव त्वदङ्गकेषु

विचित्रधातुप्रभवानि ढुण्ढे ॥ ३७ ॥

सुचन्दनं रक्तममोघवीर्यं

सुघर्षितं ह्यष्टकगन्धमुख्यैः ।

युक्तं मया कल्पितमेकदन्त

गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८ ॥

लिप्तेषु वैचित्र्यमथाष्टगन्धै-

-रङ्गेषु तेऽहं प्रकरोमि चित्रम् ।

प्रसीद चित्तेन विनायक त्वं

ततः सुरक्तं रविमेव फाले ॥ ३९ ॥

घृतेन वै कुङ्कुमकेन रक्तान्

सुतण्डुलांस्ते परिकल्पयामि ।

फाले गणाध्यक्ष गृहाण पाहि

भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४० ॥

गृहाण भो चम्पकमालतीनि

जलपङ्कजानि स्थलपङ्कजानि ।

चित्तेन दत्तानि च मल्लिकानि

पुष्पाणि नानाविधवृक्षजानि ॥ ४१ ॥

पुष्पोपरि त्वं मनसा गृहाण

हेरम्ब मन्दारशमीदलानि ।

मया सुचित्तेन प्रकल्पितानि

ह्यपारकाणि प्रणवाकृते तु ॥ ४२ ॥

दूर्वाङ्कुरान्वै मनसा प्रदत्तां-

-स्त्रिपञ्चपत्रैर्युतकांश्च स्निग्धान् ।

गृहाण विघ्नेश्वर सङ्ख्यया त्वं

हीनांश्च सर्वोपरि वक्रतुण्ड ॥ ४३ ॥

दशाङ्गभूतं मनसा मया ते

धूपं प्रदत्तं गणराज ढुण्ढे ।

गृहाण सौरभ्यकरं परेश

सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४ ॥

दीपं सुवर्त्या युतमादरात्ते

दत्तं मया मानसकं गणेश ।

गृहाण नानाविधजं घृतादि-

-तैलादिसम्भूतममोघदृष्टे ॥ ४५ ॥

भोज्यं च लेह्यं गणराज पेयं

चोष्यं च नानाविधषड्रसाढ्यम् ।

गृहाण नैवेद्यमथो मया ते

सुकल्पितं पुष्टिपते महात्मन् ॥ ४६ ॥

सुवासितं भोजनमध्यभागे

जलं मया दत्तमथो गृहाण ।

कमण्डलुस्थं मनसा गणेश

पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७ ॥

ततः करोद्वर्तनकं गृहाण

सौगन्ध्ययुक्तं मुखमार्जनाय ।

सुवासितेनैव सुतीर्थजेन

सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८ ॥

पुनस्तथाचम्य सुवासितं च

दत्तं मया तीर्थजलं पिबस्व ।

प्रकल्प्य विघ्नेश ततः परं ते

सम्प्रोञ्छनं हस्तमुखे करोमि ॥ ४९ ॥

द्राक्षादिरम्भाफलचूतकानि

खर्जूरकार्कन्धुकदाडिमानि ।

सुस्वादयुक्तानि मया प्रकल्प्य

गृहाण दत्तानि फलानि ढुण्ढे ॥ ५० ॥

पुनर्जलेनैव करादिकं ते

सङ्क्षालयामि मनसा गणेश ।

सुवासितं तोयमथो पिबस्व

मया प्रदत्तं मनसा परेश ॥ ५१ ॥

अष्टाङ्गयुक्तं गणनाथ दत्तं

ताम्बूलकं ते मनसा मया वै ।

गृहाण विघ्नेश्वर भावयुक्तं

सदा सकृत्तुण्डविशोधनार्थम् ॥ ५२ ॥

ततो मया कल्पितके गणेश

महासने रत्नसुवर्णयुक्ते ।

मन्दारकार्पासकयुक्तवस्त्रै-

-रनर्घ्यसञ्छादितके प्रसीद ॥ ५३ ॥

ततस्त्वदीयावरणं परेश

सम्पूजयामि मनसा यथावत् ।

नानोपचारैः परमप्रियैस्तु

त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४ ॥

गृहाण लम्बोदर दक्षिणां ते

ह्यसङ्ख्यभूतां मनसा प्रदत्ताम् ।

सौवर्णमुद्रादिकमुख्यभावां

पाहि प्रभो विश्वमिदं गणेश ॥ ५५ ॥

राजोपचारान्विविधान्गृहाण

हस्त्यश्वछत्रादिकमादराद्वै ।

चित्तेन दत्तान् गणनाथ ढुण्ढे

ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६ ॥

दानाय नानाविधरूपकांस्ते

गृहाण दत्तान्मनसा मया वै ।

पदार्थभूतान् स्थिरजङ्गमांश्च

हेरम्ब मां तारय मोहभावात् ॥ ५७ ॥

मन्दारपुष्पाणि शमीदलानि

दूर्वाङ्कुरांस्ते मनसा ददामि ।

हेरम्ब लम्बोदर दीनपाल

गृहाण भक्तं कुरु मां पदे ते ॥ ५८ ॥

ततो हरिद्रामबिरं गुलालं

सिन्दूरकं ते परिकल्पयामि ।

सुवासितं वस्तु सुवासभूतै-

-र्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९ ॥

ततः शुकाद्याः शिवविष्णुमुख्या

इन्द्रादयः शेषमुखास्तथान्ये ।

मुनीन्द्रकाः सेवकभावयुक्ताः

सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६० ॥

वामाङ्गके शक्तियुता गणेशं

सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।

अत्यन्तभावेन सुसेवते तु

मायास्वरूपा परमार्थभूता ॥ ६१ ॥

गणेश्वरं दक्षिणभागसंस्था

बुद्धिः कलाभिश्च सुबोधिकाभिः ।

विद्याभिरेवं भजते परेश

मायासु साङ्ख्यप्रदचित्तरूपाः ॥ ६२ ॥

प्रमोदमोदादयः पृष्ठभागे

गणेश्वरं भावयुता भजन्ते ।

भक्तेश्वरा मुद्गलशम्भुमुख्याः

शुकादयस्तं स्म पुरो भजन्ते ॥ ६३ ॥

गन्धर्वमुख्या मधुरं जगुश्च

गणेशगीतं विविधस्वरूपम् ।

नृत्यं कलायुक्तमथो पुरस्ता-

-च्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४ ॥

इत्यादिनानाविधभावयुक्तैः

संसेवितं विघ्नपतिं भजामि ।

चित्तेन ध्यात्वा तु निरञ्जनं वै

करोमि नानाविधदीपयुक्तम् ॥ ६५ ॥

चतुर्भुजं पाशधरं गणेशं

तथाङ्कुशं दन्तयुतं तमेवम् ।

त्रिनेत्रयुक्तं त्वभयङ्करं तं

महोदरं चैकरदं गजास्यम् ॥ ६६ ॥

सर्पोपवीतं गजकर्णधारं

विभूतिभिः सेवितपादपद्मम् ।

ध्यायेद्गणेशं विविधप्रकारैः

सुपूजितं शक्तियुतं परेशम् ॥ ६७ ॥

ततो जपं वै मनसा करोमि

स्वमूलमन्त्रस्य विधानयुक्तम् ।

असङ्ख्यभूतं गणराज हस्ते

समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८ ॥

आरार्तिकां कर्पूरकादिभूता-

-मपारदीपां प्रकरोमि पूर्णाम् ।

चित्तेन लम्बोदर तां गृहाण

ह्यज्ञानध्वान्ताघहरां निजानाम् ॥ ६९ ॥

वेदेषु विघ्नेश्वरकैः सुमन्त्रैः

सुमन्त्रितं पुष्पदलं प्रभूतम् ।

गृहाण चित्तेन मया प्रदत्त-

-मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७० ॥

अपारवृत्या स्तुतिमेकदन्तं

गृहाण चित्तेन कृतां गणेश ।

युक्तां श्रुतिस्मार्तभवैः पुराणैः

सर्वैः परेशाधिपते मया ते ॥ ७१ ॥

प्रदक्षिणा मानसकल्पितास्ता

गृहाण लम्बोदर भावयुक्ताः ।

सङ्ख्याविहीना विविधस्वरूपा

भक्तान् सदा रक्ष भवार्णवाद्वै ॥ ७२ ॥

नतिं ततो विघ्नपते गृहाण

साष्टाङ्गकाद्यां विविधस्वरूपाम् ।

सङ्ख्याविहीनां मनसा कृतां ते

सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३ ॥

न्यूनातिरिक्तं तु मया कृतं चे-

-त्तदर्थमन्ते मनसा गृहाण ।

दूर्वाङ्कुरान्विघ्नपते प्रदत्तान्

सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४ ॥

क्षमस्व विघ्नाधिपते मदीयान्

सदापराधान् विविधस्वरूपान् ।

भक्तिं मदीयां सफलां कुरुष्व

सम्प्रार्थयामि मनसा गणेश ॥ ७५ ॥

ततः प्रसन्नेन गजाननेन

दत्तं प्रसादं शिरसाभिवन्द्य ।

स्वमस्तके तं परिधारयामि

चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६ ॥

उत्थाय विघ्नेश्वर एव तस्मा-

-द्गतस्ततस्त्वन्तरधानशक्त्या ।

शिवादयस्तं प्रणिपत्य सर्वे

गताः सुचित्तेन च चिन्तयामि ॥ ७७ ॥

सर्वान्नमस्कृत्य ततोऽहमेव

भजामि चित्तेन गणाधिपं तम् ।

स्वस्थानमागत्य महानुभावै-

-र्भक्तैर्गणेशस्य च खेलयामि ॥ ७८ ॥

एवं त्रिकालेषु गणाधिपं तं

चित्तेन नित्यं परिपूजयामि ।

तेनैव तुष्टः प्रददातु भावं

विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ ७९ ॥

गणेशपादोदकपानकं च

ह्युच्छिष्टगन्धस्य सुलेपनं तु ।

निर्माल्यसन्धारणकं सुभोज्यं

लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८० ॥

यं यं करोम्येव तदेव दीक्षा

गणेश्वरस्यास्तु सदा गणेश ।

प्रसीद नित्यं तव पादभक्तं

कुरुष्व मां ब्रह्मपते दयालो ॥ ८१ ॥

ततस्तु शय्यां परिकल्पयामि

मन्दारकार्पासकवस्त्रयुक्ताम् ।

सुवासपुष्पादिभिरर्चितां

ते गृहाण निद्रां कुरु विघ्नराज ॥ ८२ ॥

सिद्ध्या च बुद्ध्या सहितं गणेश

सुनिद्रितं वीक्ष्य तथाहमेव ।

गत्वा स्ववासं च करोमि निद्रां

ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३ ॥

एतादृशं सौख्यममोघशक्ते

देहि प्रभो मानसजं गणेश ।

मह्यं च तेनैव कृतार्थरूपो

भवामि भक्तिरसलालसोऽहम् ॥ ८४ ॥

गार्ग्य उवाच ।

एवं नित्यं महाराज गृत्समदो महायशाः ।

चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५ ॥

य एतां मानसीं पूजां करिष्यति नरोत्तमः ।

पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६ ॥

श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसम्युतः ।

स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७ ॥

यं यमिच्छति तं तं वै सफलं तस्य जायते ।

अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८ ॥

इति श्रीमदान्त्ये मौद्गल्ये गणेशमानसपूजा सम्पूर्णम् ।

sri ganesha manasa puja