Skip to main content
पडताळणी प्रलंबित

श्री गायत्री षोडशोपचार पूजा

पुनः सङ्कल्पम् –

पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री गायत्री देवतामुद्दिश्य श्री गायत्री देवता प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भविता नियमेन सम्भविता प्रकारेण श्रीसूक्त विधानेन यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥

ध्यानम् –

ब्रह्माणी चतुराननाक्षवलयं कुम्भं करैः स्रुक्स्रवौ

बिभ्राणा त्वरुणेन्दुकान्तिवदना ऋग्रूपिणी बालिका ।

हंसारोहणकेलिखण्खणमणेर्बिम्बार्चिता भूषिता

गायत्री परिभाविता भवतु नः सम्पत्समृद्ध्यै सदा ॥

रुद्राणी नवयौवना त्रिनयना वैयाघ्रचर्माम्बरा

खट्वाङ्गत्रिशिखाक्षसूत्रवलयाऽभीतिः श्रियै चास्तु नः ।

विद्युद्दामजटाकलापविलसद्बालेन्दुमौलिर्मुदा

सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ॥

ध्येया सा च सरस्वती भगवती पीताम्बरालङ्कृता

श्यामा श्यामतनुर्जरापरिलसद्गात्राञ्चिता वैष्णवी ।

तार्क्ष्यस्था मणिनूपुराङ्गदलसद्ग्रैवेयभूषोज्ज्वला

हस्तालङ्कृतशङ्खचक्रसुगदापद्मा श्रियै चास्तु नः ॥

मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैः

युक्तामिन्दुनिबद्धरत्नमकुटां तत्त्वार्थवर्णात्मिकाम् ।

गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गदां

शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

ओं श्री गायत्री देव्यै नमः ध्यायामि ।

प्राणप्रतिष्ठ –

ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:

पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒

मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥

अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:

प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

आवाहिता भव स्थापिता भव ।

सुप्रसन्नो भव वरदा भव ।

स्थिरासनं कुरु प्रसीद प्रसीद ।

आवाहनम् –

ओं हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।

च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥

कनकमयवितर्दिशोभमानं

दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।

मणिमयमण्टपमध्यमेहि मात-

-र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥

ओं श्री गायत्री देव्यै नमः आवाहयामि ।

आसनम् –

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।

यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥

कनकमयवितर्दिस्थापिते तूलिकाढ्ये

विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।

भगवति रमणीये रत्नसिंहासनेऽस्मि-

-न्नुपविश पदयुग्मं हेमपीठे निधाय ॥

ओं श्री गायत्री देव्यै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।

पाद्यम् –

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।

श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥

दूर्वया सरसिजान्वितविष्णु-

-क्रान्तया च सहितं कुसुमाढ्यम् ।

पद्मयुग्मसदृशे पदयुग्मे

पाद्यमेतदुररीकुरु मातः ॥

ओं श्री गायत्री देव्यै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –

कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑-

-मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।

प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒

तामि॒होप॑ह्वये॒ श्रियम् ॥

गन्धपुष्पयवसर्षपदूर्वा-

-सम्युतं तिलकुशाक्षतमिश्रम् ।

हेमपात्रनिहितं सह रत्नै-

-रर्घ्यमेतदुररीकुरु मातः ॥

ओं श्री गायत्री देव्यै नमः हस्तयोरर्घ्यं समर्पयामि ।

आचमनीयम् –

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒

श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।

तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये-

-ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥

जलजद्युतिना करेण जाती-

-फलतक्कोललवङ्गगन्धयुक्तैः ।

अमृतैरमृतैरिवातिशीतै-

-र्भगवत्याचमनं विधीयताम् ॥

ओं श्री गायत्री देव्यै नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –

निहितं कनकस्य सम्पुटे

पिहितं रत्नपिधानकेन यत् ।

तदिदं जगदम्ब तेऽर्पितं

मधुपर्कं जननि प्रगृह्यताम् ॥

ओं श्री गायत्री देव्यै नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानम् –

दधिदुग्धघृतैः समाक्षिकैः

सितया शर्करया समन्वितैः ।

स्नपयामि तवाहमादरा-

-ज्जननि त्वां पुनरुष्णवारिभिः ॥

ओं श्री गायत्री देव्यै नमः पञ्चामृत स्नानं समर्पयामि ।

शुद्धोदक स्नानम् –

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो

वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।

तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु

मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥

एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-

-र्माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।

मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा-

-त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥

ओं श्री गायत्री देव्यै नमः शुद्धोदक स्नानं समर्पयामि ।

स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।

वस्त्रम् –

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।

प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥

बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं

मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।

मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं

तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥

ओं श्री गायत्री देव्यै नमः वस्त्रयुग्मं समर्पयामि ।

आभरणम् –

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।

अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥

मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ

मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।

केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-

-त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥

ओं श्री गायत्री देव्यै नमः सर्वाभरणानि समर्पयामि ।

गन्धम् –

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।

ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

मातः फालतले तवातिविमले काश्मीरकस्तूरिका-

-कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।

वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं

पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥

ओं श्री गायत्री देव्यै नमः श्री गन्धान् धारयामि ।

ओं श्री गायत्री देव्यै नमः हरिद्रा कुङ्कुम कज्जल कस्तूरी गोरोजनादि सुगन्ध द्रव्याणि समर्पयामि ।

अक्षतान् –

रत्नाक्षतैस्त्वां परिपूजयामि

मुक्ताफलैर्वा रुचिरैरविद्धैः ।

अखण्डितैर्देवि यवादिभिर्वा

काश्मीरपङ्काङ्किततण्डुलैर्वा ॥

ओं श्री गायत्री देव्यै नमः अक्षतान् समर्पयामि ।

पुष्पाणि –

मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।

प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥

मन्दारकुन्दकरवीरलवङ्गपुष्पै-

-स्त्वां देवि सन्ततमहं परिपूजयामि ।

जातीजपावकुलचम्पककेतकादि-

-नानाविधानि कुसुमानि च तेऽर्पयामि ।

ओं श्री गायत्री देव्यै नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।

अथ अष्टोत्तरशतनाम पुजा –

ओं श्री गायत्री देव्यै नमः अष्टोत्तरशतनामपुजां समर्पयामि ।

धूपम् –

क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।

श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥

लाक्षासम्मिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः

कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।

श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-

-र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥

ओं श्री गायत्री देव्यै नमः धूपमाघ्रापयामि ।

दीपम् –

आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।

नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥

रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-

-र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।

आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा

मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥

ओं श्री गायत्री देव्यै नमः दीपं समर्पयामि ।

नैवेद्यम् –

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम्।

च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥

सापूपसूपदधिदुग्धसिताघृतानि

सुस्वादुभक्तपरमान्नपुरःसराणि ।

शाकोल्लसन्मरिचिजीरकबाह्लिकानि

भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।

(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)

अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।

ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।

ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।

ओं स॒मा॒नाय॒ स्वाहा᳚ ।

मध्ये मध्ये पानीयं समर्पयामि ।

अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।

हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।

शुद्धाचमनीयं समर्पयामि ।

ओं श्री गायत्री देव्यै नमः नैवेद्यं समर्पयामि ।

ताम्बूलम् –

आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।

सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥

एलालवङ्गादिसमन्वितानि

तक्कोलकर्पूरविमिश्रितानि ।

ताम्बूलवल्लीदलसम्युतानि

पूगानि ते देवि समर्पयामि ॥

ओं श्री गायत्री देव्यै नमः ताम्बूलं समर्पयामि ।

नीराजनम् –

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।

यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚-

-न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥

इन्द्रादयो नतिनतैर्मकुटप्रदीपै-

-र्नीराजयन्ति सततं तव पादपीठम् ।

तस्मादहं तव समस्तशरीरमेत-

-न्नीराजयामि जगदम्ब सहस्रदीपैः ॥

ओं श्री गायत्री देव्यै नमः नीराजनं समर्पयामि ।

नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि ।

प्रदक्षिणा –

पदे पदे यत्परिपूजकेभ्यः

सद्योऽश्वमेधादिफलं ददाति ।

तत्सर्वपापक्षय हेतुभूतं

प्रदक्षिणं ते परितः करोमि ॥

यानिकानि च पापानि जन्मान्तरकृतानि च

तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।

पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।

त्राहि मां कृपया देवी शरणागतवत्सले ।

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।

तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वरी ।

ओं श्री गायत्री देव्यै नमः प्रदक्षिण नमस्कारान् समर्पयामि ।

पुष्पाञ्जलि –

चरणनलिनयुग्मं पङ्कजैः पूजयित्वा

कनककमलमालां कण्ठदेशेऽर्पयित्वा ।

शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते

हृदयकमलमध्ये देवि हर्षं तनोतु ॥

ओं श्री गायत्री देव्यै नमः पुष्पाञ्जलिं समर्पयामि ।

सर्वोपचाराः –

ओं श्री गायत्री देव्यै नमः छत्रं आच्छादयामि ।

ओं श्री गायत्री देव्यै नमः चामरैर्वीजयामि ।

ओं श्री गायत्री देव्यै नमः नृत्यं दर्शयामि ।

ओं श्री गायत्री देव्यै नमः गीतं श्रावयामि ।

ओं श्री गायत्री देव्यै नमः आन्दोलिकानारोहयामि ।

ओं श्री गायत्री देव्यै नमः अश्वानारोहयामि ।

ओं श्री गायत्री देव्यै नमः गजानारोहयामि ।

ओं श्री गायत्री देव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।

नमस्कारान् –

मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-

-मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।

नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां

सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥

ओं श्री गायत्री देव्यै नमः प्रार्थनानमस्कारान् समर्पयामि –

क्षमा प्रार्थन –

अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।

दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरी ।

आवाहनं न जानामि न जानामि विसर्जनम् ।

पूजाविधिं न जानामि क्षमस्व परमेश्वरी ।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरि ।

यत्पूजितं मया देवी परिपूर्णं तदस्तुते ।

अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्री गायत्री देवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –

अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।

समस्तपापक्षयकरं श्री गायत्री देवी पादोदकं पावनं शुभम् ॥

ओं श्री गायत्री देव्यै नमः प्रसादं शिरसा गृह्णामि ।

ओं शान्तिः शान्तिः शान्तिः ॥

sri gayatri shodasopachara puja vidhanam