Skip to main content
पडताळणी प्रलंबित

श्री महागणपति पूजा (हरिद्रा गणपति पूजा)

अस्मिन् हरिद्राबिम्बे श्रीमहागणपतिं आवाहयामि, स्थापयामि, पूजयामि ॥

प्राणप्रतिष्ठा –

ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:

पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒

मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥

अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:

प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

श्री महागणपतये नमः ।

स्थिरो भव वरदो भव ।

सुमुखो भव सुप्रसन्नो भव ।

स्थिरासनं कुरु ।

ध्यानम् –

हरिद्राभं चतुर्बाहुं हरिद्रावदनं प्रभुम् ।

पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ।

भक्ताऽभयप्रदातारं वन्दे विघ्नविनाशनम् ।

ओं हरिद्रा गणपतये नमः ।

अगजानन पद्मार्कं गजाननमहर्निशं

अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥

ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे

क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒

आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

ओं महागणपतये नमः ।

ध्यायामि । ध्यानम् समर्पयामि । १ ॥

ओं महागणपतये नमः ।

आवाहयामि । आवाहनं समर्पयामि । २ ॥

ओं महागणपतये नमः ।

नवरत्नखचित दिव्य हेम सिंहासनं समर्पयामि । ३ ॥

ओं महागणपतये नमः ।

पादयोः पाद्यं समर्पयामि । ४ ॥

ओं महागणपतये नमः ।

हस्तयोः अर्घ्यं समर्पयामि । ५ ॥

ओं महागणपतये नमः ।

मुखे आचमनीयं समर्पयामि । ६ ॥

स्नानम् –

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।

म॒हे रणा॑य॒ चक्ष॑से ॥

यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह न॑: ।

उ॒श॒तीरि॑व मा॒त॑रः ॥

तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।

आपो॑ ज॒नय॑था च नः ॥

ओं महागणपतये नमः ।

शुद्धोदक स्नानं समर्पयामि । ७ ॥

स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्रम् –

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।

अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥

ओं महागणपतये नमः ।

वस्त्रं समर्पयामि । ८ ॥

यज्ञोपवीतम् –

ओं य॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं

प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् ।

आयु॑ष्यमग्र्यं॒ प्र॒ति मु॑ञ्च शु॒भ्रं

य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेज॑: ॥

ओं महागणपतये नमः ।

यज्ञोपवीतार्थं अक्षतान् समर्पयामि । ।

गन्धम् –

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।

ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

ओं महागणपतये नमः ।

दिव्य श्री गन्धं समर्पयामि । ९ ॥

ओं महागणपतये नमः ।

आभरणं समर्पयामि । १० ॥

पुष्पैः पूजयामि ।

ओं सुमुखाय नमः । ओं एकदन्ताय नमः ।

ओं कपिलायनमः । ओं गजकर्णकाय नमः ।

ओं लम्बोदरायनमः । ओं विकटाय नमः ।

ओं विघ्नराजाय नमः । ओं गणाधिपायनमः ।

ओं धूमकेतवे नमः । ओं गणाध्यक्षाय नमः ।

ओं फालचन्द्राय नमः । ओं गजाननाय नमः ।

ओं वक्रतुण्डाय नमः । ओं शूर्पकर्णाय नमः ।

ओं हेरम्बाय नमः । ओं स्कन्दपूर्वजाय नमः ।

ओं सर्वसिद्धिप्रदाय नमः ।

ओं महागणपतये नमः ।

नानाविध परिमल पत्र पुष्पाणि समर्पयामि । ११ ॥

धूपम् –

वनस्पत्युद्भविर्दिव्यैः नाना गन्धैः सुसम्युतः ।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

ओं महागणपतये नमः ।

धूपं आघ्रापयामि । १२ ॥

दीपम् –

साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितं प्रियम् ।

गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापह ॥

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।

त्राहिमां नरकाद्घोरात् दिव्य ज्योतिर्नमोऽस्तु ते ॥

ओं महागणपतये नमः ।

प्रत्यक्ष दीपं समर्पयामि । १३ ॥

धूप दीपानन्तरं आचमनीयं समर्पयामि ।

नैवेद्यम् –

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।

(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)

अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।

श्री महागणपतये नमः __________ समर्पयामि ।

ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।

ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।

ओं स॒मा॒नाय॒ स्वाहा᳚ ।

मध्ये मध्ये पानीयं समर्पयामि ।

अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।

हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।

शुद्धाचमनीयं समर्पयामि ।

ओं महागणपतये नमः ।

नैवेद्यं समर्पयामि । १४ ॥

ताम्बूलम् –

पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् ।

मुक्ताचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥

ओं महागणपतये नमः ।

ताम्बूलं समर्पयामि । १५ ॥

नीराजनम् –

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।

आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।

सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।

नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒, यदास्ते᳚ ।

ओं महागणपतये नमः ।

नीराजनं समर्पयामि । १६ ॥

मन्त्रपुष्पम् –

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः

लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥

धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः

वक्रतुण्डश्शूर्पकर्णो हेरम्बस्स्कन्दपूर्वजः ॥

षोडशैतानि नामानि यः पठेच्छृणुयादपि

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा

सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥

ओं महागणपतये नमः ।

सुवर्ण मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिणम् –

यानिकानि च पापानि जन्मान्तरकृतानि च ।

तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥

पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।

त्राहि मां कृपया देव शरणागतवत्सल ॥

अन्यधा शरणं नास्ति त्वमेव शरणं मम ।

तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥

ओं महागणपतये नमः ।

प्रदक्षिणा नमस्कारान् समर्पयामि ।

ओं महागणपतये नमः ।

छत्र चामरादि समस्त राजोपचारान् समर्पयामि ॥

क्षमाप्रार्थन –

यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।

न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप ।

यत्पूजितं मयादेव परिपूर्णं तदस्तु ते ॥

ओं वक्रतुण्ड महाकाय सूर्य कोटि समप्रभ ।

निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री महागणपति सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

उत्तरे शुभकर्मण्यविघ्नमस्तु इति भवन्तो ब्रुवन्तु ।

उत्तरे शुभकर्मणि अविघ्नमस्तु ॥

तीर्थम् –

अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।

समस्तपापक्षयकरं श्री महागणपति पादोदकं पावनं शुभम् ॥

श्री महागणपति प्रसादं शिरसा गृह्णामि ॥

उद्वासनम् –

ओं य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।

तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।

ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते ।

यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥

ओं श्री महागणपति नमः यथास्थानं उद्वासयामि ॥

शोभनार्थे क्षेमाय पुनरागमनाय च ।

ओं शान्तिः शान्तिः शान्तिः ।

sri haridra ganapati puja