Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य षोडशोपचार पूजा

पुनः सङ्कल्पम् –

पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ वल्लीदेवसेनासमेत श्रीसुब्रह्मण्येश्वर प्रसादेन सर्वोपशान्ति पूर्वक दीर्घायुरारोग्य धन कलत्र पुत्र पौत्राभि वृद्ध्यर्थं स्थिरलक्ष्मी कीर्तिलाभ शत्रुपराजयादि सकलाभीष्ट सिद्ध्यर्थं श्री सुब्रह्मण्येश्वर स्वामि पूजां करिष्ये ॥

ध्यानम् –

षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं

शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।

पाशं कुक्कुटमङ्कुशं च वरदं हस्तैर्ददानं सदा

ध्यायेदीप्सित सिद्धिदं शिवसुतं वन्दे सुराराधितम् ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्यं ध्यायामि ।

आवाहनम् –

सुब्रह्मण्य महाभाग क्रौञ्चाख्यगिरिभेदन ।

आवाहयामि देव त्वं भक्ताभीष्टप्रदो भव ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्यं आवाहयामि ।

आसनम् –

अग्निपुत्र महाभाग कार्तिकेय सुरार्चित ।

रत्नसिंहासनं देव गृहाण वरदाव्यय ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः आसनं समर्पयामि ।

पाद्यम् –

गणेशानुज देवेश वल्लीकामदविग्रह ।

पाद्यं गृहाण गाङ्गेय भक्त्या दत्तं सुरार्चित ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –

ब्रह्मादि देवबृन्दानां प्रणवार्थोपदेशक ।

अर्घ्यं गृहाण देवेश तारकान्तक षण्मुख ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः हस्तयोरर्घ्यं समर्पयामि ।

आचमनीयम् –

एलाकुङ्कुमकस्तूरीकर्पूरादिसुवासितैः ।

तीर्थैराचम्यतां देव गङ्गाधरसुताव्यय ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः आचमनीयं समर्पयामि ।

पञ्चामृत स्नानम् –

शर्करा मधु गोक्षीर फलसार घृतैर्युतम् ।

पञ्चामृतस्नानमिदं बाहुलेय गृहाण भो ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदक स्नानम् –

स्वामिन् शरवणोद्भूत शूरपद्मासुरान्तक ।

गङ्गादिसलिलैः स्नाहि देवसेनामनोहर ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः शुद्धोदक स्नानं समर्पयामि ।

वस्त्रम् –

दुकूलवस्त्रयुगलं मुक्ताजालसमन्वितम् ।

प्रीत्या गृहाण गाङ्गेय भक्तापद्भञ्जनक्षम ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः वस्त्रयुग्मं समर्पयामि ।

उपवीतम् –

राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम् ।

यज्ञोपवीतं देवेश गृहाण सुरनायक ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः उपवीतं समर्पयामि ।

भस्म –

नित्याग्निहोत्रसम्भूतं विरजाहोमभावितम् ।

गृहाण भस्म हे स्वामिन् भक्तानां भूतिदो भव ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः भस्म समर्पयामि ।

गन्धम् –

कस्तूरीकुङ्कुमाद्यैश्च वासितं सहिमोदकम् ।

गन्धं विलेपनार्थाय गृहाण क्रौञ्चदारण ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः गन्धान् धारयामि ।

अक्षतान् –

अक्षतान् धवलान् दिव्यान् शालेयान् तण्डुलान् शुभान् ।

काञ्चनाक्षतसम्युक्तान् कुमार प्रतिगृह्यताम् ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः अक्षतान् समर्पयामि ।

आभरणम् –

भूषणानि विचित्राणि हेमरत्नमयानि च ।

गृहाण भुवनाधार भुक्तिमुक्तिफलप्रद ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः आभरणानि समर्पयामि ।

पुष्पम् –

पुन्नग वकुलाशोक नीप पाटल जाति च ।

वासन्तिका बिल्वजाजी पुष्पाणि परिगृह्यताम् ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः पुष्पाणि समर्पयामि ।

अथाङ्ग पूज –

सुरवन्दितपादाय नमः – पादौ पूजयामि ।

मुकुराकारजानवे नमः – जानुनी पूजयामि ।

करिराजकरोरवे नमः – ऊरू पूजयामि ।

रत्नकिङ्किणिकायुक्तकटये नमः – कटिं पूजयामि ।

गुहाय नमः – गुह्यं पूजयामि ।

हेरम्बसहोदराय नमः – उदरं पूजयामि ।

सुनाभये नमः – नाभिं पूजयामि ।

सुहृदे नमः – हृदयं पूजयामि ।

विशालवक्षसे नमः – वक्षःस्थलं पूजयामि ।

कृत्तिकास्तनन्धयाय नमः – स्तनौ पूजयामि ।

शत्रुजयोर्जितबाहवे नमः – बाहून् पूजयामि ।

शक्तिहस्ताय नमः – हस्तान् पूजयामि ।

पुष्करस्रजे नमः – कण्ठं पूजयामि ।

षण्मुखाय नमः – मुखानि पूजयामि ।

सुनासाय नमः – नासिके पूजयामि ।

द्विषण्णेत्राय नमः – नेत्राणि पूजयामि ।

हिरण्यकुण्डलाय नमः – कर्णौ पूजयामि ।

फालनेत्रसुताय नमः – फालं पूजयामि ।

वेदशिरोवेद्याय नमः – शिरः पूजयामि ।

सेनापतये नमः – सर्वाण्यङ्गानि पूजयामि ।

अथ अष्टोत्तरशतनाम पूजा –

धूपम् –

दशाङ्गं गुग्गुलूपेतं सुगन्धं सुमनोहरम् ।

कपिलाघृतसम्युक्तं धूपं गृह्णीष्व षण्मुख ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः धूपमाघ्रापयामि ।

दीपम् –

साज्यं त्रिवर्तिसम्युक्तं वह्निना योजितं मया ।

दीपं गृहाण स्कन्देश त्रैलोक्यतिमिरापहम् ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः दीपं दर्शयामि ।

धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम् –

लेह्यं चोष्यं च भोज्यं च पानीयं षड्रसान्वितम् ।

भक्ष्यशाकादिसम्युक्तं नैवेद्यं स्कन्द गृह्यताम् ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।

(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)

अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।

ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।

ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।

ओं स॒मा॒नाय॒ स्वाहा᳚ ।

मध्ये मध्ये पानीयं समर्पयामि ।

अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।

हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।

शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।

कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ताम्बूलं समर्पयामि ।

नीराजनम् –

देवसेनापते स्कन्द संसारध्वान्तभारक ।

नीराजनमिदं देव गृह्यतां सुरसत्तम ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः कर्पूरनीराजनं दर्शयामि ।

मन्त्रपुष्पम् –

ओं तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नो स्कन्दः प्रचोदयात् ।

पुष्पाञ्जलिं प्रदास्यामि भक्ताभीष्टप्रदायक ।

गृहाणवल्लीरमण सुप्रीतेनान्तरात्मना ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः पुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिण नमस्कारम् –

यानि कानि च पापानि जन्मान्तरकृतानि च ।

तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥

पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।

त्राहिमां कृपया देव शरणागतवत्सल ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।

तस्मात्कारुण्य भावेन रक्ष रक्ष सुरेश्वर ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः आत्मप्रदक्षिण नमस्कारं समर्पयामि ।

नमस्कारम् –

षडाननं कुङ्कुमरक्तवर्णं

द्विषड्भुजं बालकमम्बिकासुतम् ।

रुद्रस्य सूनुं सुरसैन्यनाथं

गुहं सदाऽहं शरणं प्रपद्ये ॥

श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः प्रार्थना नमस्कारान् समर्पयामि ।

राजोपचार पूजा –

ओं श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।

छत्रमाच्छादयामि ।

चामरैर्वीजयामि ।

गीतं श्रावयामि ।

नृत्यं दर्शयामि ।

वाद्यं घोषयामि ।

आन्दोलिकान् आरोहयामि ।

अश्वान् आरोहयामि ।

गजान् आरोहयामि ।

ओं श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।

समस्त राजोपचारान् देवोपचारान् समर्पयामि ।

अर्घ्यम् –

देवसेनापते स्वामिन् सेनानीरखिलेष्टद ।

इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥

ओं श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।

इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥ १ ॥

चन्द्रात्रेय महाभाग सोम सोमविभूषण ।

इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥

ओं श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।

इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥ २ ॥

नीलकण्ठ महाभाग सुब्रह्मण्यसुवाहन ।

इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥

ओं श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।

इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥ ३ ॥

क्षमाप्रार्थना –

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।

यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

अनया ध्यानावाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्य स्वामि सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओं शान्तिः शान्तिः शान्तिः ॥

sri subrahmanya pooja vidhanam