Skip to main content
पडताळणी प्रलंबित

श्री महालक्ष्मि विशेष षोडशोपचार पूजा

पुनः सङ्कल्पम् –

पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री महालक्ष्मी अनुग्रहप्रसाद सिद्ध्यर्थं श्री महालक्ष्मी प्रीत्यर्थं श्री सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥

ध्यानम् –

या सा पद्मा॑सन॒स्था विपुलकटितटी पद्म॒पत्रा॑यता॒क्षी ।

गम्भीरा व॑र्तना॒भिः स्तनभर नमिता शुभ्र वस्त्रो॑त्तरी॒या ।

लक्ष्मीर्दि॒व्यैर्गजेन्द्रैर्म॒णिगण खचितैस्स्नापिता हे॑मकु॒म्भैः ।

नि॒त्यं सा प॑द्मह॒स्ता मम वस॑तु गृ॒हे सर्व॒माङ्गल्य॑युक्ता ॥

ल॒क्ष्मीं क्षीरसमुद्रराजतनयां श्री॒रङ्गधामे॑श्वरीम् ।

दा॒सीभूतसमस्त देव व॒नितां लो॒कैक॒ दीपा॑ङ्कुराम् ।

श्रीमन्मन्दकटाक्षलब्ध विभव ब्र॒ह्मेन्द्रगङ्गा॑धराम् ।

त्वां त्रै॒लोक्य॒ कुटु॑म्बिनीं स॒रसिजां व॒न्दे मुकु॑न्दप्रियाम् ॥

सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् ।

शरत्पार्वणकोटीन्दुप्रभाजुष्टकरां वराम् ॥

स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।

प्रतप्तकाञ्चननिभां शोभां मूर्तिमतीं सतीम् ।

रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।

ईषद्धास्यप्रसन्नास्यां रम्यां सुस्थिरयौवनाम् ॥

सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।

ध्यानेनानेन तां ध्यात्वा चोपचारैः सुसम्युतः ॥

ओं श्री महालक्ष्मै नमः ध्यायामि ।

आवाहनम् –

हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्ण र॑जत॒स्र॑जाम् ।

च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥

सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् ।

शान्तां च श्रीहरेः कान्तां तां भजे जगतां प्रसूम् ॥

ओं श्री महालक्ष्मै नमः आवाहयामि ।

आसनम् –

तां म॒ आ व॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।

यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥

अमूल्यरत्नखचितं निर्मितं विश्वकर्मणा ।

आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।

पाद्यम् –

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द प्र॒बोधि॑नीम् ।

श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑ दे॒वी जु॑षताम् ॥

पुष्पचन्दनदूर्वादिसम्युतं जाह्नवीजलम् ।

शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ॥

ओं श्री महालक्ष्मै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –

कां॒ सो᳚स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।

प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ।

पापेध्मवह्निरूपं च गृह्यतां कमलालये ॥

ओं श्री महालक्ष्मै नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –

च॒न्द्रां प्र॑भा॒सां यश॑सा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।

तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥

पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ।

गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ॥

ओं श्री महालक्ष्मै नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –

कापिलं दधि कुन्देन्दुधवलं मधुसम्युतम् ।

स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भोः ॥

ओं श्री महालक्ष्मै नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानम् –

ओं श्री महालक्ष्मै नमः पञ्चामृत स्नानं समर्पयामि ।

शुद्धोदक स्नानम् –

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑ जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ॑ बि॒ल्वः ।

तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒ यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥

पञ्चामृत समायुक्तं जाह्नवीसलिलं शुभम् ।

गृहाण विश्वजननि स्नानार्थं भक्तवत्सले ॥

ओं श्री महालक्ष्मै नमः शुद्धोदक स्नानं समर्पयामि ।

स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।

प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मि॒न् की॒र्तिमृद्धिं॑ द॒दातु॑ मे ॥

देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ।

कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥

ओं श्री महालक्ष्मै नमः वस्त्रयुग्मं समर्पयामि ।

व्यजनचामरम् –

क्षु॒त्पि॒पा॒साम॑लां ज्ये॒ष्ठाम॒ल॒क्ष्मीर्ना॑शया॒म्यहम् ।

अभू॑ति॒मस॑मृद्धिं॒ च॒ स॒र्वा॒न् निर्णु॑द मे॒ गृहात् ॥

शीतवायुप्रदं चैव दाहे च सुखदं परम् ।

कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ॥

ओं श्री महालक्ष्मै नमः व्यजनचामरैर्वीजयामि ।

गन्धादि परिमलद्रव्याणि –

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।

ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

शुद्धिदं शुद्धिरूपं च सर्वमङ्गलमङ्गलम् ।

गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः श्रीगन्धं समर्पयामि ।

मलयाचलसम्भूतं वृक्षसारं मनोहरम् ।

सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥

ओं श्री महालक्ष्मै नमः रक्तचन्दनं समर्पयामि ।

सिन्दूरं रक्तवर्णं च सिन्दूरतिलकप्रिये ।

भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः सिन्दूरं समर्पयामि ।

कुङ्कुमं कामदं दिव्यं कुङ्कुमं कामरूपिणम् ।

अखण्डकामसौभाग्यं कुङ्कुमं प्रतिगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः कुङ्कुमं समर्पयामि ।

सुगन्धियुक्तं तैलं च सुगन्धामलकीजलम् ।

देहसौन्दर्यबीजं च गृह्यतां श्रीहरिप्रिये ॥

ओं श्री महालक्ष्मै नमः सुगन्धि तैलं समर्पयामि ।

आभरणम् –

मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।

प॒शू॒नाग्ं रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥

रत्नस्वर्णविकारं च देहसौख्यविवर्धनम् ।

शोभाधानं श्रीकरं च भूषणं प्रतिगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः आभरणानि समर्पयामि ।

पुष्पमाला –

क॒र्दमे॑न प्र॑जाभू॒ता म॒यि॒ सम्भ॑व क॒र्दम ।

श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥

नानाकुसुमनिर्माणं बहुशोभाप्रदं परम् ।

सुरलोकप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः पुष्पमालाम् समर्पयामि ।

पुष्पाणि –

मन्दारपारिजातादीन्पाटलीं केतकीं तथा ।

मरुवामोगरं चैव गृहाणाशु नमोऽस्तु ते ॥

ओं श्री महालक्ष्मै नमः पुष्पाणि समर्पयामि ।

अथाङ्ग पूजा –

ओं चपलायै नमः – पादौ पूजयामि ।

ओं चञ्चलायै नमः – जानुनी पूजयामि ।

ओं कमलायै नमः – कटिं पूजयामि ।

ओं कात्यायन्यै नमः – नाभिं पूजयामि ।

ओं जगन्मात्रे नमः – जठरं पूजयामि ।

ओं विश्ववल्लभायै नमः – वक्षस्स्थलं पूजयामि ।

ओं कमलवासिन्यै नमः – नेत्रत्रयं पूजयामि ।

ओं श्रियै नमः – शिरः पूजयामि ।

ओं महालक्ष्मै नमः – सर्वाण्यङ्गानि पूजयामि ।

अथ पूर्वादिक्रमेणाष्टदिक्ष्वष्टसिद्धीः पूजयेत् ।

ओं अणिम्ने नमः ।

ओं महिम्ने नमः ।

ओं गरिम्णे नमः ।

ओं लघिम्ने नमः ।

ओं प्राप्त्यै नमः ।

ओं प्राकाम्यायै नमः ।

ओं ईशितायै नमः ।

ओं वशितायै नमः ।

अथ पूर्वादिक्रमेणाष्टलक्ष्मी पूजनम् ।

ओं आद्यलक्ष्मै नमः ।

ओं विद्यालक्ष्मै नमः ।

ओं सौभाग्यलक्ष्मै नमः ।

ओं अमृतलक्ष्मै नमः ।

ओं कामलक्ष्मै नमः ।

ओं सत्यलक्ष्मै नमः ।

ओं भोगलक्ष्मै नमः ।

ओं योगलक्ष्मै नमः ।

अथ अष्टोत्तरशतनाम पूजा –

धूपम् –

आप॑: सृ॒जन्तु॑ स्निग्धा॒नि चि॒क्ली॒त व॑स मे॒ गृहे ।

नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥

वृक्षनिर्यासरूपं च गन्धद्रव्यादिसम्युतम् ।

कृष्णकान्ते पवित्रो वै धूपोऽयं प्रतिगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः धूपं समर्पयामि ।

दीपम् –

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।

च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥

जगच्चक्षुः स्वरूपं च ध्वान्तप्रध्वंसकारणम् ।

प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरि ॥

ओं श्री महालक्ष्मै नमः दीपं समर्पयामि ।

नैवेद्यम् –

आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं सु॒वर्णां हे॑ममा॒लिनीम् ।

सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥

नानोपहाररूपं च नानारससमन्वितम् ।

नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।

(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)

अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।

ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।

ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।

ओं स॒मा॒नाय॒ स्वाहा᳚ ।

मध्ये मध्ये पानीयं समर्पयामि ।

अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।

हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।

शुद्धाचमनीयं समर्पयामि ।

आचमनम् –

शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् ।

आचम्यतां मम जलं प्रसीद त्वं महेश्वरि ॥

ओं श्री महालक्ष्मै नमः आचमनीयं समर्पयामि ।

ताम्बूलम् –

तां म॒ आ व॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।

यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥

ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।

जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥

ओं श्री महालक्ष्मै नमः ताम्बूलं समर्पयामि ।

फलम् –

नानाविधानि रम्याणि पक्वानि च फलानि तु ।

स्वादुरस्यानि कमले गृह्यतां फलदानि च ॥

ओं श्री महालक्ष्मै नमः फलानि समर्पयामि ।

दक्षिणाम् –

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।

अनन्तपुण्यफलदं अतः शान्तिं प्रयच्छ मे ॥

ओं श्री महालक्ष्मै नमः दक्षिणां समर्पयामि ।

नीराजनम् –

स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे ।

ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सग्ं सृ॒जामसि ॥

चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् ।

आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ।

सन्तत श्रीरस्तु समस्त मङ्गलानि भवन्तु ।

नित्य श्रीरस्तु नित्यमङ्गलानि भवन्तु ॥

ओं श्री महालक्ष्मै नमः नीराजनं समर्पयामि ।

नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –

ओं म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।

तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥

सद्भावपुष्पाण्यादाय सहजप्रेमरूपिणे ।

लोकमात्रे ददाम्यद्य प्रीत्या सङ्गृह्यतां सदा ॥

ओं श्री महालक्ष्मै नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।

आत्मप्रदक्षिण नमस्कारम् –

यानि कानि च पापानि जन्मान्तरकृतानि च ।

तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।

पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।

त्राहिमां कृपया देवी शरणागतवत्सले ।

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।

तस्मात्कारुण्य भावेन रक्ष मां परमेश्वरि ।

ओं श्री महालक्ष्मै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारम् –

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।

पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥

ओं श्री महालक्ष्मै नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।

सर्वोपचाराः –

ओं श्री महालक्ष्मै नमः छत्रं आच्छादयामि ।

ओं श्री महालक्ष्मै नमः चामरैर्वीजयामि ।

ओं श्री महालक्ष्मै नमः नृत्यं दर्शयामि ।

ओं श्री महालक्ष्मै नमः गीतं श्रावयामि ।

ओं श्री महालक्ष्मै नमः आन्दोलिकान्नारोहयामि ।

ओं श्री महालक्ष्मै नमः अश्वानारोहयामि ।

ओं श्री महालक्ष्मै नमः गजानारोहयामि ।

समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।

यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।

देवभूषाढ्यभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥

प्रार्थना –

सुरासुरेन्द्रादिकिरीटमौक्तिकै-

-र्युक्तं सदा यत्तवपाद कञ्जनम् ।

परावरं पातु वरं सुमङ्गलं

नमामि भक्त्या तव कामसिद्धये ॥

भवानि त्वं महालक्ष्मि सर्वकामप्रदायिनी ।

सुपूजिता प्रसन्ना स्यान्महालक्ष्मै नमोऽस्तु ते ॥

नमस्ते सर्वदेवानां वरदासि हरिप्रिये ।

या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥

ओं श्री महालक्ष्मै नमः प्रार्थना नमस्कारान् समर्पयामि ।

दीप पूजनम् –

भो दीप त्वं ब्रह्मरूप अन्धकारनिवारक ।

इमां मया कृतां पूजां गृह्णंस्तेजः प्रवर्धय ॥

ओं दीपाय नमः इति गन्धक्षतपुष्पैः सम्पूज्य श्रीमहालक्ष्म्यै निवेदयेत् ।

दीपमाला पूजनम् –

दीपावली मया दत्तं गृहाण त्वं सुरेश्वरि ।

आरार्तिकप्रदानेन ज्ञानदृष्टिप्रदा भव ॥

अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च ।

उत्तमः सर्वतेजस्तु दीपोऽयं प्रतिगृह्यताम् ॥

ओं श्री महालक्ष्मै नमः आरार्तिकं समर्पयामि ।

दीपावलि रात्रि प्रार्थना –

नमस्ते सर्वदेवानां वरदाऽसि हरिप्रिये ।

या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥ १ ॥

विश्वरूपस्य भार्याऽसि पद्मे पद्मालये शुभे ।

महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥ २ ॥

वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।

सुखरात्रिः प्रभातेऽद्य तन्मेऽलक्ष्मीं व्यपोहतु ॥ ३ ॥

या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता ।

संवत्सरप्रिया या च सा ममास्तु सुमङ्गलम् ॥ ४ ॥

माता त्वं सर्वभूतानां देवानां सृष्टिसम्भवाम् ।

आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥ ५ ॥

दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके ।

नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि ॥ ६ ॥

शङ्खचक्रगदाहस्ते शुभ्रवर्णे शुभानने ।

मह्यमिष्टवरं देहि सर्विसिद्धिप्रदायिनि ॥ ७ ॥

नमस्तेऽस्तु महालक्ष्मि महासौख्यप्रदायिनि ।

सर्वदा देहि मे द्रव्यं दानाय भुक्तिहेतवे ॥ ८ ॥

धनं धान्यं धरां हर्षं कीर्तिमायुर्यशः श्रियः ।

तुरगान् दन्तिनः पुत्रान् महालक्ष्मि प्रयच्छ मे ॥ ९ ॥

यन्मया वाञ्छितं देवि तत्सर्वं सफलं कुरु ।

न बाधन्तां कुकर्माणि सङ्कटान्मे निवारय ॥ १० ॥

न्यूनं वाऽप्यतुलं वापि यन्मया मोहितं कृतम् ।

सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादान्महेश्वरि ॥ ११ ॥

क्षमा प्रार्थन –

यस्य स्मृत्याच नामोक्त्या तपः पूजा क्रियादिषु ।

न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।

यत्पूजितं मयादेवी परिपूर्णं तदस्तुते ॥

अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्री महालक्ष्मी देवता सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –

अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।

समस्तपापक्षयकरं श्री महालक्ष्मी पादोदकं पावनं शुभम् ॥

श्री महालक्ष्मै नमः प्रसादं शिरसा गृह्णामि ।

ओं शान्तिः शान्तिः शान्तिः ।

sri maha lakshmi visesha shodasopachara puja