Skip to main content
पडताळणी प्रलंबित

गौरी व गणपतीची पूजा विधी

(पूजेमध्ये एखादी वस्तू उपलब्ध नसल्यास 'मनसा परिकल्प्य समर्पयामि' म्हणावे। जसे, आभूषण करिता 'आभूषणं मनसा परिकल्प्य समर्पयामि'।) हातात अक्षता घेऊन गणपतीचे ध्यान करावे गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् । उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥ भगवती गौरीचे ध्यान नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि । भगवान् गणेशाचे आवाहन ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ (यजुर्वेद २३।१९) एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष । माड्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ॐ भूर्भवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च । हातातील अक्षता गणपतीला वाहव्यात, परत अक्षता घेऊन गौरी आवाहन करावे. भगवती गौरी आवाहन ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥ हेमाद्रितनयां देवीं वरदां शड्करप्रियाम् । लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥ ॐ भूर्भवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च । प्रतिष्ठा- ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो म्प्रतिष्ठ ॥ (यजुर्वेद २।१३) अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ गणेशाम्बिके ! सुप्रतिष्ठिते वरदे भवेताम् । प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः । (आसनकरिता अक्षता व्हाव्यात ) पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ॥ (यजु १।१०) एतानि पाद्यार्थ्याचमनीयस्नानीपुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः । हे म्हणून जल वहावे दुग्धस्नान ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ (यजुर्वेद १८।३६) कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, पयःस्नानं समर्पयामि । दुधाने स्नान घालावे दधिस्नान ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयू षि तारिषत् ॥ (यजु० २३।३२) पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, दधिस्नानं समर्पयामि । (दह्याने स्नान घालावे) घृतस्नान ॐ घृतं मिमिक्षे घृतमस्य योनिघृते श्रितो घृतम्वस्य धाम् अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ (यजु० १७।८८) नवनीतसमुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, घृतस्नानं समर्पयामि । (घृतस्नान घालावे ) मधुस्नान ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ नक्तमुतोषसो मधुमत्पार्थिव रजः । मधु द्यौरस्तु नः पिता ॥ (यजु १३।२७-२८) पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि । शर्करास्नान ॐ अपा रसमुद्वयस सूर्ये सन्त समाहितम् । अपा रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टताम् ॥ (यजु०९।३) इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, शर्करास्नानं समर्पयामि । पञ्चामृतस्नान ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥ (यजु०३४।११) पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, पञ्चामृतस्नानं समर्पयामि । (पञ्चामृत स्नान घालावे) गन्धोदकस्नान ॐ अ शुना ते अ शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥ (यजु०२०।२७) मलयाचलसम्भूतचन्दनेन विनिःसृतम् । इदं गन्धोदकस्नानं कुडकुमाक्तं च गृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, गन्धोदकस्नानं समर्पयामि । (गन्धोदक स्नान घालावे) शुद्धोदकस्नान ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरुपाः पार्जन्याः ॥ (यजु०२४।३) गड्गा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि । (शुद्ध जल स्नान घालावे) आचमन शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । वस्त्र- ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयति स्वाध्यो३ मनसा देवयन्तः ॥ (ऋग्०३।८।४) शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालड्ङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि आचमन वस्त्रान्ते आचमनीयं जलं समर्पयामि । उपवस्त्र ॐ सुजातो ज्योतिषा सह शर्म वरुथमाऽसदत्स्वः । वासो अग्ने विश्वरुप सं व्ययस्व विभावसो ॥ (यजु०११।४०) यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति । उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रम् समर्पयामि) । (उपवस्त्र समर्पित करावे) आचमन उपवस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमन करिता पाणी सोडावे) यज्ञोपवीत ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि । नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं समर्पयामि । (यज्ञोपवीत समर्पित करावे) आचमन-यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । चन्दन ॐ त्वां गन्धर्वा अखनॅस्त्वामिद्रस्त्वां बृहस्पतिः । त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥ (यजु०१२।९८) श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम् । विलेपनं सुरश्रेष्ठ ! चन्दनं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं समर्पयामि । (चन्दन लावावे ) अक्षत ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्रते हरी ॥ (यजु०३।५१) अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ ॐ भूर्भव स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि । (अक्षता वाहव्यात) पुष्पमाला ॐ औषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥ (यजु०१२।७७) माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयाहतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि । (पुष्पमाला अर्पण करावी) दूर्वा ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥ (यजु०१३।२०) दूर्वांकुरान् सुहरितानमृतान् मंगलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाकुरान् समर्पयामि । सिन्दूर ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्णाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥ (यजु०१७।९५) सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् । शुभदं कामदं चैव सिन्दुरं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि । अबीर-गुलाल आदि नाना परिमल द्रव्य ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वतः ॥ (यजु०२९।५१) अबीरं च गुलालं च हरिद्रादिसमन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि । सुगन्धिद्रव्य ॐ अहिरिव --- विश्वतः ॥ दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् । गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि । (सुगन्धित द्रव्य अर्पण करावे ) धूप ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः । देवानामसि वह्नितम सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥ (यजु०१।८) वनस्पतिरसोद्भूतो गन्धाढ्यो उत्तमः । आघ्रयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि । (धूप दाखवावा) दीप ॐ अग्निर्योतिर्योतिरग्निः स्वाहा सूर्यो ज्योतिर्योतिः सूर्यः स्वाहा । अग्निर्वर्ची ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥ ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥ (यजु० ३।९) साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि । (दीवा ओवाळावे) हस्तप्रक्षालन 'ॐ हृषीकेशाय नमः' म्हणून हात ओले करावेत नैवेद्य नैवेद्य दाखवावा ॐ नाभ्या आसीदन्तरिक्ष शीर्णो समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ (यजु० ३१।१३) ॐ अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ अमृतापिधानमसि स्वाहा । शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि । नैवेद्यान्ते आचमनीयं जलं समर्पयामि । पाणी सोडावे ऋतुफल ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥ (यजु० १२।८९) इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि । (ऋतुफल अर्पित करावेत ) फलान्ते आचमनीयं जलं समर्पयामि । उत्तरापोऽशन-उत्तरापोऽशनार्थे जलं समर्पयामि । गणेशाम्बिकाभ्यां नमः । करोद्वर्तन ॐ अ शुना ते अ शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥ (यजु० २०।२७) चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम् । करोद्वर्तनकं देव गृहाण परमेश्वर ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तनकं चन्दनं समर्पयामि । ताम्बूल ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ (यजु० ३१।१४) पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि । दक्षिणा ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ (यजु० १३।४) हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । (द्रव्य दक्षिणा अर्पण करावी )

आरती ॐ इद हविः प्रजननं मे अस्तु दशवीर सर्वगण स्वस्तये आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥ (यजु० १९।४८) ॐ आ रात्रि पार्थिव रजः पितुरप्रायि धामभिः । दिवः सदा सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ (यजु० ३४।३२) कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि । नंतर आरती करावी पुष्पाञ्जलि ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा : || (यजु० ३१।१६) ॐ गणानां त्वा ॐ अम्बे अम्बिके नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं समर्पयामि । प्रदक्षिणा ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषंगिणः । तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि । (यजु) १६।६१) यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पद ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि ॥ (प्रदक्षिणा घालावी) विशेषार्ध्य तांब्याच्या पात्रात जल, चन्दन, अक्षत, फल, फूल, दूर्वा आणि दक्षिणा ठेऊन अर्घ्यपात्र हातात घेऊन पुढील प्रार्थना म्हणावी रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक । भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥ द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो । वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥ अनेन सफलार्येण वरदोऽस्तु सदा मम । ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्ध्य समर्पयामि । (विशेषार्घ्य अर्पण करावे) प्रार्थना विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥ भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय । विद्याधराय विकटाय च वामनाय भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय । विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥ नमस्ते ब्रह्मरुपाय विष्णुरुपाय ते नमः नमस्ते रुद्ररुपाय करिरुपाय ते नमः । विश्वरुपस्वरुपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥ त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति । विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥ त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया । सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ॐ भूर्भवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि । (साष्टांग नमस्कार करावा) गणेशपूजने कर्म यत्र्यूनमधिकं कृतम् । तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥ अनया पूजया गणेशाम्बिके प्रीयेताम्, न मम । पुन्हा नमस्कार करावा

gauri mahalaxmi ganapati poojan puja