Skip to main content
पडताळणी प्रलंबित

श्री गायत्री पञ्चोपचार पूजा

पुनः सङ्कल्पम् –

पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री गायत्री देवता प्रीत्यर्थं पञ्चोपचार सहित श्री गायत्री महामन्त्र जपं करिष्ये ॥

गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥

गायत्री आवाहनम् –

ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्षम् ।

गायत्रं छन्दं । परमात्मं॑ सरू॒पं । सायुज्यं वि॑नियो॒गम् ।

आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् ।

गा॒य॒त्रीं᳚ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे ॥

यदह्ना᳚त्कुरु॑ते पा॒पं॒ तदह्ना᳚त्प्रति॒ मुच्य॑ते ।

यद्रात्रिया᳚त्कुरु॑ते पा॒पं॒ तद्रात्रिया᳚त्प्रति॒ मुच्य॑ते ।

सर्व॑व॒र्णे म॑हादे॒वि॒ स॒न्ध्या वि॑द्ये स॒रस्व॑ति ।

ओजो॑ऽसि॒ सहो॑ऽसि॒ बलम॑सि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒स्सर्व॑मसि स॒र्वायुरभिभूरोम् ।

गायत्रीमावा॑हया॒मि॒ । सावित्रीमावा॑हया॒मि॒ । सरस्वतीमावा॑हया॒मि॒ । छन्दर्षीनावा॑हया॒मि॒ । श्रियमावा॑हया॒मि॒ ॥

गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्मशिरो विष्णुर् हृदयग्ं रुद्रश्शिखा पृथिवी योनिः प्राणापानव्यानोदान समाना स प्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विग्ं शत्यक्षरा त्रिपदा॑ षट्कु॒क्षि॒: पञ्चशीर्षोपनयने वि॑नियो॒ग॒: ॥

करन्यासः ।

ओं तत्सवितु॒: ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।

वरे᳚ण्य॒म् विष्ण्वात्मने तर्जनीभ्यां नमः ।

भ॒र्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।

धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।

धियो॒ योन॑: ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।

प्रचो॒दया᳚त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।

ओं तत्सवितु॒: ब्रह्मात्मने हृदयाय नमः ।

वरे᳚ण्य॒म् विष्ण्वात्मने शिरसे स्वाहा ।

भ॒र्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।

धी॒महि सत्यात्मने कवचाय हुम् ।

धियो॒ योन॑: ज्ञानात्मने नेत्रत्रयाय वौषट् ।

प्रचो॒दया᳚त् सर्वात्मने अस्त्राय फट् ।

ओं भूर्भुव॒स्सुव॒रों इति दिग्बन्धः ॥

ध्यानम् –

मुक्ता विद्रुम हेमनील धवलच्छायैर्मुखैस्त्रीक्षणैः

युक्तामिन्दु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ।

गायत्रीं वरदाभयाङ्कुश कशाश्शुभ्रङ्कपालं गदां

शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

यो देवस्सविताऽस्माकं धियो धर्मादिगोचराः

प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥

पञ्चोपचार पूजा –

१) ओं लं पृथिव्यात्मिकायै

श्री गायत्री देव्यै गन्धं समर्पयामि ।

२) ओं हं आकाशात्मिकायै

श्री गायत्री देव्यै पुष्पैः पूजयामि ।

३) ओं यं वाय्वात्मिकायै

श्री गायत्री देव्यै धूपं आघ्रापयामि ।

४) ओं रं अग्न्यात्मिकायै

श्री गायत्री देव्यै दीपं दर्शयामि ।

५) ओं वं अमृतात्मिकायै

श्री गायत्री देव्यै अमृत नैवेद्यं समर्पयामि ।

ओं सं सर्वात्मिकायै

श्री गायत्री देव्यै सर्वोपचार पूजां समर्पपयामि ।

॥ गायत्री मन्त्र जपम् ॥

उत्तर करन्यासः ।

ओं तत्सवितु॒: ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।

वरे᳚ण्य॒म् विष्ण्वात्मने तर्जनीभ्यां नमः ।

भ॒र्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।

धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।

धियो॒ योन॑: ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।

प्रचो॒दया᳚त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।

ओं तत्सवितु॒: ब्रह्मात्मने हृदयाय नमः ।

वरे᳚ण्य॒म् विष्ण्वात्मने शिरसे स्वाहा ।

भ॒र्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।

धी॒महि सत्यात्मने कवचाय हुम् ।

धियो॒ योन॑: ज्ञानात्मने नेत्रत्रयाय वौषट् ।

प्रचो॒दया᳚त् सर्वात्मने अस्त्राय फट् ।

ओं भूर्भुव॒स्सुव॒रों इति दिग्विमोकः ॥

पुनः ध्यानम् –

मुक्ता विद्रुम हेमनील धवलच्छायैर्मुखैस्त्रीक्षणैः

युक्तामिन्दु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ।

गायत्रीं वरदाभयाङ्कुश कशाश्शुभ्रङ्कपालं गदां

शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

यो देवस्सविताऽस्माकं धियो धर्मादिगोचराः

प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥

समर्पणम् –

गुह्यादि गुह्य गोप्त्री त्वं गृहाणाऽस्मत् कृतं जपम् ।

सिद्धिर्भवतु मे देवी त्वत् प्रसादान् मयि स्थिरा ॥

उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि

ब्रा॒ह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छदे॑वि य॒थासु॑खम् ।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।

यत्पूजितं मया देवी परिपूर्णं तदस्तु ते ।

अनया पञ्चोपचार पूजया भगवती सर्वात्मिका श्री गायत्री देवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

ओं शान्तिः शान्तिः शान्तिः ।

sri gayathri pancha upachara puja