Skip to main content
पडताळणी प्रलंबित

श्री शिव षोडशोपचार पूजा

अस्मिन् लिङ्गे श्रीउमामहेश्वर स्वामिनमावाहयामि स्थापयामि । ततः प्राण प्रतिष्ठापनं करिष्ये ॥

ध्यानम् –

कर्पूर गौरं करुणावतारं

संसारसारं भुजगेन्द्र हारम् ।

सदा रमन्तं हृदयारविन्दे

भवं भवानी सहितं नमामि ॥ १

वन्दे महेशं सुरसिद्धसेवितं

देवाङ्गना गीत सुनृत्य तुष्टम् ।

पर्यङ्कगं शैलसुतासमेतं

कल्पद्रुमारण्यगतं प्रसन्नम् ॥ २

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नकल्पोज्ज्वलाङ्गं परशुवरमृगाभीति हस्तं प्रसन्नम् ।

पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्ववन्द्यं निखिल भयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ३

प्राणप्रतिष्ठा –

ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:

पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒

मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ।

अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:

प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

स्थिरो भव । वरदो भव । सुमुखो भव ।

सुप्रसन्नो भव । स्थिरासनं कुरु ॥

स्वामिन् सर्व जगन्नाथ यावत्पूजाऽवसानकम् ।

तावत्त्वं प्रीति भावेन लिङ्गेऽस्मिन् सन्निधिं कुरु ॥

त्र्यम्बकमिति स्थापन मुद्रां दर्शयित्वा ।

ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒ वर्ध॑नम् ।

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥

ध्यानम् –

कैलासे कमनीय रत्न खचिते कल्पद्रुमूले स्थितं

कर्पूर स्फटिकेन्दु सुन्दर तनुं कात्यायनी सेवितम् ।

गङ्गोत्तुङ्ग तरङ्ग रञ्जित जटा भारं कृपासागरं

कण्ठालङ्कृत शेषभूषणमहं मृत्युञ्जयं भावये ॥

ओं श्री उमामहेश्वर स्वामिने नमः ध्यायामि ।

आवाहनम् – (ओं स॒द्योजा॒तं प्र॑पद्या॒मि)

ओङ्काराय नमस्तुभ्यं ओङ्कारप्रिय शङ्कर ।

आवाहनं गृहाणेदं पार्वतीप्रिय वल्लभ ॥

ओं श्री उमामहेश्वर स्वामिने नमः आवाहयामि ।

आसनम् – (ओं स॒द्योजा॒ताय॒वै नमो॒ नम॑:)

नमस्ते गिरिजानाथ कैलासगिरि मन्दिर ।

सिंहासनं मया दत्तं स्वीकुरुष्व उमापते ॥

श्री उमामहेश्वर स्वामिने नमः नवरत्न खचित हेम सिंहासनं समर्पयामि ।

पाद्यम् – (ओं भवे भ॑वे॒न)

महादेव जगन्नाथ भक्तानामभयप्रद ।

पाद्यं गृहाण देवेश मम सौख्यं विवर्धय ॥

श्री उमामहेश्वर स्वामिने नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् – (ओं अति॑ भवे भवस्व॒मां)

शिवाप्रिय नमस्तेस्तु पावनं जलपूरितम् ।

अर्घ्यं गृहाण भगवन् गाङ्गेय कलशस्थितम् ॥

श्री उमामहेश्वर स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनम् – (ओं भ॒वोद्भ॑वाय॒ नमः)

वामादेव सुराधीश वन्दिताङ्घ्रि सरोरुह ।

गृहाणाचमनं देव करुणा वरुणालय ॥

श्री उमामहेश्वर स्वामिने नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –

यमान्तकाय उग्राय भीमाय च नमो नमः ।

मधुपर्कं प्रदास्यामि गृहाण त्वमुमापते ॥

श्री उमामहेश्वर स्वामिने नमः मधुपर्कं समर्पयामि ।

शुद्धोदक स्नानम् – (ओं वामदेवाय नमः)

ओङ्कार प्रीत मनसे नमो ब्रह्मार्चिताङ्घ्रये ।

स्नानं स्वीकुरु देवेश मयानीतं नदी जलम् ॥

[* नम॑श्श॒म्भवे॑ च मयो॒भवे॑च॒ नम॑श्शङ्क॒राय॑ च

मयस्क॒राय॑ च॒ नम॑श्शि॒वाय॑ च शि॒वत॑राय च ॥ *]

ओं श्री उमामहेश्वर स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ।

स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्रम् – (ओं ज्ये॒ष्ठाय॒ नमः)

नमो नागविभूषाय नारदादि स्तुताय च ।

वस्त्रयुग्मं प्रदास्यामि पार्थिवेश्वर स्वीकुरु ॥

ओं श्री उमामहेश्वर स्वामिने नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् – (ओं श्रे॒ष्ठाय॒ नमः)

यज्ञेश यज्ञविध्वंस सर्वदेव नमस्कृत ।

यज्ञसूत्रं प्रदास्यामि शोभनं चोत्तरीयकम् ॥

ओं श्री उमामहेश्वर स्वामिने नमः यज्ञोपवीतं समर्पयामि ।

आभरणम् – (ओं रु॒द्राय॒ नमः)

नागाभरण विश्वेश चन्द्रार्धकृतमस्तक ।

पार्थिवेश्वर मद्दत्तं गृहाणाभरणं विभो ॥

ओं श्री उमामहेश्वर स्वामिने नमः आभरणं समर्पयामि ।

गन्धम् – (ओं काला॑य॒ नम॑:)

श्री गन्धं ते प्रयच्छामि गृहाण परमेश्वर ।

कस्तूरि कुङ्कुमोपेतं शिवाश्लिष्ट भुजद्वय ॥

ओं श्री उमामहेश्वर स्वामिने नमः श्रीगन्धादि परिमल द्रव्यं समर्पयामि ।

अक्षतान् – (ओं कल॑विकरणाय॒ नमः)

अक्षतान् धवलान् दिव्यान् शालि तुण्डुल मिश्रितान् ।

अक्षतोसि स्वभावेन स्वीकुरुष्व महेश्वर ॥

ओं श्री उमामहेश्वर स्वामिने नमः धवलाक्षतान् समर्पयामि ।

पुष्पम् – (ओं बल॑ विकरणाय॒ नमः)

सुगन्धीनि सुपुष्पाणि जाजीबिल्वार्क चम्पकैः ।

निर्मितं पुष्पमालञ्च नीलकण्ठ गृहाण भो ॥

ओं श्री उमामहेश्वर स्वामिने नमः पुष्प बिल्वदलानि समर्पयामि ।

अथाङ्ग पूजा –

ओं महेश्वराय नमः – पादौ पूजयामि ।

ओं ईश्वराय नमः – जङ्घौ पूजयामि ।

ओं कामरूपाय नमः – जानुनी पूजयामि ।

ओं हराय नमः – ऊरू पूजयामि ।

ओं त्रिपुरान्तकाय नमः – गुह्यं पूजयामि ।

ओं भवाय नमः – कटिं पूजयामि ।

ओं व्याघ्रचर्माम्बरधराय नमः – नाभिं पूजयामि ।

ओं कुक्षिस्थ ब्रहाण्डाय नमः – उदरं पूजयामि ।

ओं गौरी मनः प्रियाय नमः – हृदयं पूजयामि ।

ओं पिनाकिने नमः – हस्तौ पूजयामि ।

ओं नागावृतभुजदण्डाय नमः – भुजौ पूजयामि ।

ओं श्रीकण्ठाय नमः – कण्ठं पूजयामि ।

ओं विरूपाक्षाय नमः – मुखं पूजयामि ।

ओं त्रिनेत्राय नमः – नेत्राणि पूजयामि ।

ओं रुद्राय नमः – ललाटं पूजयामि ।

ओं शर्वाय नमः – शिरः पूजयामि ।

ओं चन्द्रमौलये नमः – मौलिं पूजयामि ।

ओं अर्धनारीश्वराय नमः – तनुं पूजयामि ।

ओं श्री उमामहेश्वराय नमः – सर्वाण्यङ्गानि पूजयामि ।

अष्टोत्तरशतनाम पूजा –

ओं निध॑नपतये॒ नमः । ओं निध॑नपतान्तिकाय॒ नमः ।

ओं ऊर्ध्वाय॒ नमः । ओं ऊर्ध्वलिङ्गाय॒ नमः ।

ओं हिरण्याय॒ नमः । ओं हिरण्यलिङ्गाय॒ नमः ।

ओं सुवर्णाय॒ नमः । ओं सुवर्णलिङ्गाय॒ नमः ।

ओं दिव्याय॒ नमः । ओं दिव्यलिङ्गाय॒ नमः ।

ओं भवाय॒ नमः । ओं भवलिङ्गाय॒ नमः ।

ओं शर्वाय॒ नमः । ओं शर्वलिङ्गाय॒ नमः ।

ओं शिवाय॒ नमः । ओं शिवलिङ्गाय॒ नमः ।

ओं ज्वलाय॒ नमः । ओं ज्वललिङ्गाय॒ नमः ।

ओं आत्माय॒ नमः । ओं आत्मलिङ्गाय॒ नमः ।

ओं परमाय॒ नमः । ओं परमलिङ्गाय॒ नमः ।

ओं भ॒वाय॑ दे॒वाय॒ नमः

– ओं भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।

ओं श॒र्वाय॑ दे॒वाय॒ नमः

– ओं श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।

ओं ईशा॑नाय दे॒वाय॒ नमः

– ओं ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ नम॑: ।

ओं पशु॒पत॑ये दे॒वाय॒ नमः

– ओं पशु॒पते᳚र्दे॒वस्य पत्न्यै॒ नम॑: ।

ओं रु॒द्राय॑ दे॒वाय॒ नमः

– ओं रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।

ओं उ॒ग्राय॑ दे॒वाय॒ नमः

– ओं उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।

ओं भी॒माय॑ दे॒वाय॒ नमः

– ओं भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: ।

ओं मह॑ते दे॒वाय॒ नमः

– ओं मह॑तो दे॒वस्य॒ पत्न्यै॒ नम॑: ।

ओं श्री उमामहेश्वर स्वामिने नमः नाना विध परिमल पत्र पुष्पाक्षतान् समर्पयामि ।

धूपम् – (ओं बला॑य॒ नमः)

दशाङ्गं धूपमुख्यं च ह्यङ्गार विनिवेशितम् ।

धूपं सुगन्धैरुत्पन्नं त्वां प्रीणयतु शङ्कर ॥

ओं श्री उमामहेश्वर स्वामिने नमः धूपमाघ्रापयामि ।

दीपम् – (ओं बल॑ प्रमथनाय॒ नमः)

योगिनां हृदयेष्वेव ज्ञान दीपाङ्कुरोह्यसि ।

बाह्य दीपो मयादत्तः गृह्यतां भक्त गौरवात् ॥

ओं श्री उमामहेश्वर स्वामिने नमः दीपं दर्शयामि ।

धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम् – (ओं सर्व॑ भूत दमनाय॒ नमः)

नैवेद्यं षड्रसोपेतं घृत भक्ष्य समन्वितम् ।

भक्त्या ते सम्प्रदास्यामि गृहाण परमेश्वर ॥

ओं श्री उमामहेश्वर स्वामिने नमः ___ निवेदयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।

(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)

अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।

ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।

ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।

ओं स॒मा॒नाय॒ स्वाहा᳚ ।

मध्ये मध्ये पानीयं समर्पयामि ।

अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।

हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।

शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् – (ओं म॒नोन्म॑नाय॒ नमः)

ताम्बूलं भवतां देव अर्पयाम्यद्य शङ्कर ।

पूगीफल समायुक्तं नागवल्ली दलैर्युतम् ॥

ओं श्री उमामहेश्वर स्वामिने नमः ताम्बूलं समर्पयामि ।

ताम्बूल चर्वणानन्तरं शुद्ध आचमनीयं समर्पयामि ।

नीराजनम् –

ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।

सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

नीराजनमिदं देव कर्पूरामोद सम्युतम् ।

गृहाण परमानन्द हेरम्ब वरदायक ॥

ओं श्री उमामहेश्वर स्वामिने नमः कर्पूर नीराजनं दर्शयामि ।

नीराजनानन्तरं शुद्ध आचमनीयं समर्पयामि ।

मन्त्रपुष्पम् –

ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।

तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

ओं का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।

तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥

ओं श्री उमामहेश्वर स्वामिने नमः पादारविन्दयोः दिव्य सुवर्ण मन्त्र पुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणम् –

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒

ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

पदे पदे सर्वतमो निकृन्तनं

पदे पदे सर्व शुभप्रदायकम् ।

प्रदक्षिणं भक्तियुतेन चेतसा

करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥

ओं श्री उमामहेश्वर स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

प्रार्थना –

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥

अथ तर्पणम् –

भवं देवं तर्पयामि

– भवस्य देवस्य पत्नीं तर्पयामि ।

शर्वं देवं तर्पयामि

– शर्वस्य देवस्य पत्नीं तर्पयामि ।

ईशानं देवं तर्पयामि

– ईशानस्य देवस्य पत्नीं तर्पयामि ।

पशुपतिं देवं तर्पयामि

– पशुपतेर्देवस्य पत्नीं तर्पयामि ।

रुद्रं देवं तर्पयामि

– रुद्रस्य देवस्य पत्नीं तर्पयामि ।

उग्रं देवं तर्पयामि

– उग्रस्य देवस्य पत्नीं तर्पयामि ।

भीमं देवं तर्पयामि

– भीमस्य देवस्य पत्नीं तर्पयामि ।

महान्तं देवं तर्पयामि

– महतो देवस्य पत्नीं तर्पयामि ।

इति तर्पयित्वा अघोरादिभिस्त्रिभिर्मन्त्रैः घोर तनूरुपतिष्ठते ।

ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।

सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।

तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒

ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

इति ध्यात्वा रुद्रगायत्रीं यथा शक्ति जपेत् ।

ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।

तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

इति जपित्वा अथैनमाशिषमाशास्ते ।

(तै।ब्रा।३-५-१०-४)

आशा᳚स्ते॒ऽयं यज॑मानो॒ऽसौ । आयु॒राशा᳚स्ते ।

सु॒प्र॒जा॒स्त्वमाशा᳚स्ते । स॒जा॒त॒व॒न॒स्यामाशा᳚स्ते ।

उत्त॑रां देवय॒ज्यामाशा᳚स्ते । भूयो॑ हवि॒ष्कर॑ण॒माशा᳚स्ते ।

दि॒व्यं धामाशा᳚स्ते । विश्वं॑ प्रि॒यमाशा᳚स्ते ।

यद॒नेन॑ ह॒विषाऽऽशा᳚स्ते । तद॑स्या॒त्त॒दृ॑ध्यात् ।

तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते ।

व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्टं च॑ वी॒तं च॑ ।

उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अग्ंह॑सः स्पाताम् ।

इ॒ह गति॑र्वा॒मस्ये॒दं च॑ । नमो॑ दे॒वेभ्य॑: ॥

उपचारपूजाः –

पुनः पूजां करिष्ये । छत्रमाच्छादयामि ।

चामरैर्वीजयामि । नृत्यं दर्शयामि ।

गीतं श्रावयामि । आन्दोलिकानारोहयामि ।

अश्वानारोहयामि । गजानारोहयामि ।

समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजास्समर्पयामि ॥

क्षमाप्रार्थना –

यस्य स्मृत्याच नामोक्त्या तपः पूजा क्रियादिषु ।

न्यूनं सम्पूर्णतां याति सद्योवन्दे महेश्वरम् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।

यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

अनया सद्योजात विधिना ध्यानावहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री उमामहेश्वरस्वामी सुप्रीतः सुप्रसन्नो वरदो भवतु ।

एतत्फलं परमेश्वरार्पणमस्तु ॥

उत्तरतश्चण्डीश्वराय नमः निर्माल्यं विसृज्य ॥

तीर्थम् –

अकालमृत्युहरणं सर्वव्याधि निवारणम् ।

समस्तपापक्षयकरं शिवपादोदकं पावनं शुभम् ॥

इति त्रिवारं पीत्वा शिव निर्माल्य रूप बिल्वदलं वा दक्षिणे कर्णे धारयेत् ।

ओं शान्तिः शान्तिः शान्तिः ॥

sri shiva shodasopachara puja