Skip to main content
पडताळणी प्रलंबित

श्री गौरी षोडशोपचार पूजा

पुनः सङ्कल्पम् –

पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम मनोवाञ्छाफल सिद्ध्यर्थं श्री गौरी देवतामुद्दिश्य श्री गौरी देवता प्रीत्यर्थं यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ।

प्राणप्रतिष्ठ –

ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:

पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒

मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥

अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:

प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

श्रीमहागौरीं साङ्गां सायुधं सवाहनं सशक्ति पतिपुत्र परिवार समेतं श्रीमहागौरी देवतां आवाहयामि स्थापयामि पूजयामि ।

स्थिरो भव वरदो भव सुप्रसन्नो भव स्थिरासनं कुरु ।

ध्यानम् –

ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलि कलकण्ठीम् ।

आगम विपिन मयूरीमार्यामन्तर्विभावयेद्गौरीम् ॥

नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मृताम् ॥

गौरी पद्मा शची मेधा सावित्री विजया जया ।

देवसेना स्वधा स्वाहा मातरो लोकमातरः ।

धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ।

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।

वाराही चैव चेन्द्राणि चामुण्डा सप्तमातरः ॥

श्री महागौर्यै नमः ध्यायामि ।

आवाहनम् –

हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।

लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥

श्री महागौर्यै नमः आवाहयामि ।

आसनम् –

भवानि त्वं महादेवि सर्वसौभाग्यदायिनी ।

अनेकरत्नसम्युक्तमासनं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः नवरत्नखचित स्वर्णसिंहासनं समर्पयामि ।

पाद्यम् –

सुचारुशीतलं दिव्यं नानागन्धसुवासितम् ।

पाद्यं गृहाण देवेशि महागौरी नमोऽस्तु ते ॥

श्री महागौर्यै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –

श्रीपार्वति महाभागे शङ्करप्रियवादिनि ।

अर्घ्यं गृहाण कल्याणि भर्त्रासहपत्रिव्रते ॥

श्री महागौर्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनम् –

गङ्गातोयं समानीतं सुवर्णकलशे स्थितम् ।

आचम्यतां महाभागे रुद्रेण सहितेऽनघे ॥

श्री महागौर्यै नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –

कांस्ये कांस्येन पिहितो दधिमध्वाज्यसम्युतः ।

मधुपर्को मयानीतः पूजार्थं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः मधुपर्कं समर्पयामि ।

पञ्चामृतस्नानम् –

पञ्चामृतं मयानीतं पयोदधिघृतं मधु ।

शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदक स्नानम् –

गङ्गा सरस्वती रेवा कावेरी नर्मदा जलैः ।

स्नापितासि मया देवि तथा शान्तं कुरुष्व मे ॥

श्री महागौर्यै नमः स्नानं समर्पयामि ।

स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।

वस्त्रम् –

पट्टयुग्मं मया दत्तं कञ्चुकेन समन्वितम् ।

परिधेहि कृपां कृत्वा मातर्दुर्गार्तिनाशिनी ॥

श्री महागौर्यै नमः वस्त्रयुग्मं समर्पयामि ।

सौभाग्य सूत्रम् –

सौभाग्य सूत्रं वरदे सुवर्णमणिसम्युतम् ।

कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा ॥

श्री महागौर्यै नमः सौभाग्य सूत्रं समर्पयामि ।

गन्धम् –

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।

विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः श्रीगन्धं समर्पयामि ।

अक्षतान् –

अक्षतान् धवलाकारान् शालीयान् तण्डुलान् शुभान् ।

अक्षतानि मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः अक्षतान् समर्पयामि ।

हरिद्राचूर्णम् –

हरिद्रारञ्जिते देवि सुखसौभाग्यदायिनि ।

तस्मात् त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ मे ॥

श्री महागौर्यै नमः हरिद्रा चूर्णं समर्पयामि ।

कुङ्कुम विलेपनम् –

कुङ्कुमं कामदं दिव्यं कामिनीकामसम्भवम् ।

कुङ्कुमेनार्चिता देवी कुङ्कुमं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः कुङ्कुम विलेपनं समर्पयामि ।

सिन्दूरम् –

सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् ।

अर्पितं ते मया भक्त्या प्रसीद परमेश्वरि ॥

श्री महागौर्यै नमः सिन्दूरं समर्पयामि ।

कज्जलम् –

चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् ।

कर्पूरज्योतिसमुत्पन्नं गृहाण जगदम्बिके ॥

श्री महागौर्यै नमः नेत्रायोः कज्जलं समर्पयामि ।

आभूषणम् –

हारकङ्कणकेयूरमेखलाकुण्डलादिभिः ।

रत्नाढ्यं हीरकोपेतं भूषणं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः नानाविध आभूषणानि समर्पयामि ।

पुष्पाणि –

माल्यादि च सुगन्धीनि मालत्यादीनि चाम्बिके ।

मयाहृतानि पुष्पाणि प्रतिगृह्णीष्व शाङ्करी ॥

ओं श्रीं गौर्यै नमः ।

ओं श्रीं पद्मायै नमः ।

ओं श्रीं शच्यै नमः ।

ओं श्रीं मेधायै नमः ।

ओं श्रीं सावित्रै नमः ।

ओं श्रीं विजयायै नमः ।

ओं श्रीं जयायै नमः ।

ओं श्रीं देवसेनायै नमः ।

ओं श्रीं स्वधायै नमः ।

ओं श्रीं स्वाहायै नमः ।

ओं श्रीं मात्रे नमः ।

ओं श्रीं लोकमात्रे नमः ।

ओं श्रीं धृत्यै नमः ।

ओं श्रीं पुष्ट्यै नमः ।

ओं श्रीं तुष्ट्यै नमः ।

ओं श्रीं आत्मनः कुलदेवतायै नमः ।

ओं श्रीं ब्राह्म्यै नमः ।

ओं श्रीं माहेश्वर्यै नमः ।

ओं श्रीं कौमार्यै नमः ।

ओं श्रीं वैष्णव्यै नमः ।

ओं श्रीं वाराह्यै नमः ।

ओं श्रीं इन्द्राण्यै नमः ।

ओं श्रीं चामुण्डायै नमः ।

ओं श्रीं महागौर्यै नमः ।

श्री महागौर्यै नमः नानाविध परिमल पत्रपुष्पाणि समर्पयामि ।

अष्टोत्तरशतनामावली –

धूपम् –

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः धूपमाघ्रापयामि ।

दीपम् –

श्वेतार्द्रवर्ति सम्युक्तं गोघृतेन समन्वितम् ।

दीपं गृहाण शर्वाणि भक्तानां ज्ञानदायिनि ॥

श्री महागौर्यै नमः दीपं दर्शयामि ।

धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम् –

अन्नं चतुर्विधं स्वादुरसैः षड्भिः समन्वितम् ।

मया निवेदितं तुभ्यं नैवेद्यं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।

(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)

अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।

ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।

ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।

ओं स॒मा॒नाय॒ स्वाहा᳚ ।

मध्ये मध्ये पानीयं समर्पयामि ।

अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।

हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।

शुद्धाचमनीयं समर्पयामि ।

ऋतुफलम् –

इदं फलं मया देवि स्थापितं पुरतस्तव ।

तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥

श्री महागौर्यै नमः ऋतुफलानि समर्पयामि ।

ताम्बूलम् –

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।

एलालवङ्गसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥

श्री महागौर्यै नमः ताम्बूलं समर्पयामि ।

दक्षिणा –

हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः ।

अनन्तपुण्यफलदमतश्शान्तिं प्रयच्छ मे ॥

श्री महागौर्यै नमः सुवर्णपुष्प दक्षिणादीन् समर्पयामि ।

नीराजनम् –

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।

आरार्तिकमहं कुर्वे पश्यमां वरदा भव ॥

श्री महागौर्यै नमः दिव्यकर्पूर मङ्गल नीराजनं समर्पयामि ।

आचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –

पुष्पाञ्जलि गृहाणेदमिष्टसौभाग्यदायिनि ।

शृति स्मृतिपुराणादि सर्वविद्या स्वरूपिणि ॥

श्री महागौर्यै नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणा –

यानि कानि च पापानि जन्मान्तरकृतानि च ।

तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥

पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।

त्राहि मां कृपया देवि शरणागतवत्सले ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।

तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरी ॥

श्री महागौर्यै नमः आत्मप्रदक्षिण त्रयं समर्पयामि ।

नमस्कारम् –

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

श्री महागौर्यै नमः नमस्कारान् समर्पयामि ।

क्षमा याचना –

आवाहनं न जानामि न जानामि विसर्जनम् ।

पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥

साधुवाऽसाधुवा कर्म यद्यदाचरितं मया ।

तत्सर्वं कृपया देवि गृहाणाराधनं मम ॥

ज्ञानतोऽज्ञानतो वाऽपि यन्मयाऽऽचरितं शिवे ।

तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।

दसोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥

श्री महागौर्यै नमः क्षमायाचनां समर्पयामि ।

प्रसन्नार्घ्यम् –

हिमवद्भूधरसुते गौरि चन्द्रवरानने ।

गृहाणार्घ्यं मयादत्तं सम्पद्गौरि नमोऽस्तु ते ॥

श्री महागौर्यै नमः कुङ्कुमपुष्पाक्षत सहित प्रसन्नार्घ्यं समर्पयामि ।

प्रार्थना –

सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

पुत्रान् देहि धनं देहि सौभाग्यं देहि सुव्रते ।

अन्यांश्च सर्वकामांश्च देही देवि नमोऽस्तु ते ॥

प्रातः प्रभृति सायान्तं सायादि प्रातरं ततः ।

यत्करोमि जगद्योने तदस्तु तवपूजनम् ॥

श्री महागौर्यै नमः प्रार्थनं समर्पयामि ।

पुनः पूजा –

छत्रं आच्छादयामि । चामरैर्वीजयामि ।

दर्पणं दर्शयामि । गीतं श्रावयामि ।

नृत्यं दर्शयामि । वाद्यं घोषयामि ।

आन्दोलिकामारोपयामि । अश्वानारोपयामि ।

गजानारोपयामि ।

समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार पूजां समर्पयामि ।

समर्पणम् –

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।

यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥

अनया ध्यानावहनादि षोडशोपचार पूजया भगवती सर्वदेवात्मिका श्रीमहागौरी सुप्रीता सुप्रसन्ना वरदा भवतु ॥

उद्वासनम् –

यान्तुदेवगणाः सर्वे पूजामादाय मामकीम् ।

इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥

श्रीमहागौरीं यथास्थानमुद्वासयामि ।

शोभनार्थं पुनरागमनाय च ॥

सर्वं श्रीमहागौरी देवता चरणारविन्दार्पणमस्तु ।

ओं शान्तिः शान्तिः शान्तिः ॥

sri gowri pooja vidhanam