Skip to main content
पडताळणी प्रलंबित

श्री महागणपति षोडशोपचार पूजा

पुनः सङ्कल्पम् –

पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ श्रीमहगणपतिमुद्दिश्य श्रीमहागणपतिप्रीत्यर्थं श्रीमन्मुद्गलपुराणे श्रीगृत्समद प्रोक्त श्लोकविधानेन यावच्छक्ति ध्यानावहनादि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठ –

ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:

पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒

मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥

अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:

प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

आवाहितो भव स्थापितो भव ।

सुप्रसन्नो भव वरदो भव ।

अस्मिन् बिम्बे सपरिवार समेत श्रीमहागणपति स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥

ध्यानम् –

ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे

क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒

आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥

चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ।

पाशाङ्कुशादिसम्युक्तं मायायुक्तं प्रचिन्तयेत् ॥

ओं श्रीमहागणपतये नमः ध्यायामि ।

आवाहनम् –

आगच्छ ब्रह्मणां नाथ सुराऽसुरवरार्चित ।

सिद्धिबुद्ध्यादिसम्युक्त भक्तिग्रहणलालस ॥

ओं श्रीमहागणपतये नमः आवहयामि ।

आसनम् –

रत्नसिंहासनं स्वामिन् गृहाण गणनायक ।

तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषतः ॥

ओं श्रीमहागणपतये नमः आसनं समर्पयामि ।

पाद्यम् –

सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो ।

शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥

ओं श्रीमहागणपतये नमः पाद्यं समर्पयामि ।

अर्घ्यम् –

रत्नप्रवालमुक्ताद्यैरनर्घ्यैः संस्कृतं प्रभो ।

अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥

ओं श्रीमहागणपतये नमः अर्घ्यं समर्पयामि ।

आचमनीयम् –

सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।

आचमनं च तेनैव कुरुष्व गणनायक ॥

ओं श्रीमहागणपतये नमः आचमनीयं समर्पयामि ।

मधुपर्कम् –

दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।

गृहाण भावसम्युक्तं मया दत्तं नमोऽस्तु ते ॥

ओं श्रीमहागणपतये नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानम् –

नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः ।

कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥

ओं श्रीमहागणपतये नमः पञ्चामृतस्नानं समर्पयामि ।

स्नानम् –

गङ्गादि सर्वतीर्थेभ्यः आहृतैरमलैर्जलैः ।

स्नानं कुरुष्व भगवानुमापुत्र नमोऽस्तुते ॥

ओं श्रीमहागणपतये नमः शुद्धोदक स्नानं समर्पयामि ।

वस्त्रम् –

वस्त्रयुग्मं गृहाण त्वमनर्घं रक्तवर्णकम् ।

लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥

ओं श्रीमहागणपतये नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –

उपवीतं गणाध्यक्ष गृहाण च ततः परम् ।

त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥

ओं श्रीमहागणपतये नमः उपवीतं समर्पयामि ।

आभरणम् –

नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।

भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥

ओं श्रीमहागणपतये नमः आभरणानि समर्पयामि ।

गन्धम् –

अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन ।

द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥

ओं श्रीमहागणपतये नमः गन्धान् समर्पयामि ।

अक्षतान् –

रक्तचन्दनसम्युक्तानथवा कुङ्कुमैर्युतान् ।

अक्षतान्विघ्नराज त्वं गृहाण फालमण्डले ॥

ओं श्रीमहागणपतये नमः अक्षतान् समर्पयामि ।

पुष्पम् –

चम्पकादिसुवृक्षेभ्यः सम्भूतानि गजानन ।

पुष्पाणि शमीमन्दारदूर्वादीनि गृहाण च ॥

ओं श्रीमहागणपतये नमः नानाविध परिमल पुष्पाणि समर्पयामि ।

षोडशनाम पूजा –

ओं सुमुखाय नमः । ओं एकदन्ताय नमः ।

ओं कपिलायनमः । ओं गजकर्णिकाय नमः ।

ओं लम्बोदरायनमः । ओं विकटाय नमः ।

ओं विघ्नराजाय नमः । ओं गणाधिपायनमः ।

ओं धूमकेतवे नमः । ओं गणाध्यक्षाय नमः ।

ओं फालचन्द्राय नमः । ओं गजाननाय नमः ।

ओं वक्रतुण्डाय नमः । ओं शूर्पकर्णाय नमः ।

ओं हेरम्बाय नमः । ओं स्कन्दपूर्वजाय नमः ।

ओं सर्वसिद्धिप्रदाय नमः ।

अष्टोत्तरशतनामावली –

धूपम् –

दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् ।

गृहाण त्वं मया दत्तं विनायक महोदर ॥

ओं श्रीमहागणपतये नमः धूपमाघ्रापयामि ।

दीपम् –

नानाजातिभवं दीपं गृहाण गणनायक ।

अज्ञानमलजं दीपं हरन्तं ज्योतिरूपकम् ॥

ओं श्रीमहागणपतये नमः दीपं दर्शयामि ।

नैवेद्यम् –

चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् ।

नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥

ओं श्रीमहागणपतये नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।

(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)

अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।

ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।

ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।

ओं स॒मा॒नाय॒ स्वाहा᳚ ।

मध्ये मध्ये पानीयं समर्पयामि ।

अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।

हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।

शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –

अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् ।

असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥

ओं श्रीमहागणपतये नमः ताम्बूलं समर्पयामि ।

नीराजनम् –

नानादीपसमायुक्तं नीराजनं गजानन ।

गृहाण भावसम्युक्तं सर्वाज्ञानविनाशन ॥

ओं श्रीमहागणपतये नमः नीराजनं समर्पयामि ।

मन्त्रपुष्पम् –

ओं ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे

क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒

आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन ।

मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥

ओं श्रीमहागणपतये नमः मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिणम् –

एकविंशतिसङ्ख्यं वा त्रिसङ्ख्यं वा गजानन ।

प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥

ओं श्रीमहागणपतये नमः प्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्गनमस्कारः –

साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् ।

हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृतम् ॥

ओं श्रीमहागणपतये नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।

नमस्कारम् –

विघ्नेश्वराय वरदाय गणेश्वराय ।

सर्वेश्वराय शुभदाय सुरेश्वराय ॥

विद्याधराय विकटाय च वामनाय ।

भक्तिप्रसन्न वरदाय नमो नमोऽस्तु ॥

क्षमाप्रार्थन –

अपराधानसङ्ख्यातान् क्षमस्व गणनायक ।

भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥

समर्पणम् –

जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मनसैः कृतम् ।

सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मिकः श्री महागणाधिपति

सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

तीर्थस्वीकरण –

बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् ।

गणेशपादतीर्थस्य मस्तके धारणात्किल ॥

श्री महागणाधिपति पादोदक तीर्थं गृह्णामि ।

प्रसादस्वीकरण –

ततोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।

भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥

श्री महागणाधिपति प्रसादं शिरसा गृह्णामि ।

ओं शान्तिः शान्तिः शान्तिः ॥

sri maha ganapathi shodashopachara puja