Skip to main content
पडताळणी प्रलंबित

बालकाण्ड एकादशः

॥ ऋश्यशृङ्गस्यायोध्याप्रवेशः ॥

भूय एव हि राजेन्द्र शृणु मे वचनं हितम् ।

यथा स देवप्रवरः कथयामेवमब्रवीत् ॥ १ ॥

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।

राजा दशरथो राजा श्रीमान्सत्यप्रतिश्रवः ॥ २ ॥

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।

[* कन्या चास्य महाभागा शान्ता नाम भविष्यति । *]

पुत्रस्तु सोऽङ्गराजस्य रोमपाद इति श्रुतः ॥ ३ ॥

तं स राजा दशरथो गमिष्यति महायशाः ।

अनपत्योऽस्मि धर्मात्मन् शान्ता भर्ता मम क्रतुम् ॥ ४ ॥

आहरेत त्वयाज्ञप्तः सन्तानार्थं कुलस्य च ।

श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसापि विमृश्य च ॥ ५ ॥ [विचिन्त्य]

प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ।

प्रतिगृह्यं च तं विप्रं स राजा विगत ज्वरः ॥ ६ ॥

आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ।

तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ॥ ७ ॥

ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ।

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ॥ ८ ॥

लभते च स तं कामं द्विजमुख्याद्विशां पतिः ।

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ॥ ९ ॥

वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ।

एवं स देवप्रवरः पूर्वं कथितवान्कथाम् ॥ १० ॥

सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ।

स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् ॥ ११ ॥

स्वयमेव महाराज गत्वा सबलवाहनः ।

[* सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । *]

अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥ १२ ॥

वसिष्ठेनाभ्यनुज्ञातो राजा सम्पूर्णमानसः ।

सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ।

अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ १४ ॥

आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।

ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ १५ ॥

ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।

सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १६ ॥

रोमपादेन चाख्यातमृषिपुत्राय धीमते ।

सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।

सप्ताष्ट दिवसान्राजा राजानमिदमब्रवीत् ॥ १८ ॥

शान्ता तव सुता राजन्सह भर्त्रा विशां‍पते ।

मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ १९ ॥

तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।

उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ २० ॥

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ २१ ॥

तावान्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ।

ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ॥ २२ ॥

ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।

पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः ॥ २३ ॥

क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ।

धूपितं सिक्त सम्मृष्टं पताकाभिरलङ्कृतम् ॥ २४ ॥

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।

तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ २५ ॥

ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ।

शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ २६ ॥

ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् ।

प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ २७ ॥

[* यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् । *]

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः ।

कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ २८ ॥

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् ।

सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ २९ ॥

पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः ।

उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा ॥ ३० ॥ [सहद्विजा]

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥ ११ ॥

valmiki ramayan balkand adhyay 11