Skip to main content
पडताळणी प्रलंबित

बालकाण्ड सप्तविंशः

॥ अस्त्रग्रामप्रदानम् ॥

अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।

प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥ १ ॥

परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः ।

प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥

देवासुरगणान्वापि सगन्धर्वोरगानपि ।

यैरमित्रान्प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३ ॥

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।

दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ ४ ॥

धर्मचक्रं ततो वीर कालचक्रं तथैव च ।

विष्णुचक्रं तथाऽत्युग्रमैन्द्रमस्त्रं तथैव च ॥ ५ ॥

वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।

अस्त्रं ब्रह्मशिरश्चैव एषीकमपि राघव ॥ ६ ॥

ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ।

गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ॥ ७ ॥

प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ।

धर्मपाशमहं राम कालपाशं तथैव च ॥ ८ ॥

पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ।

अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥ ९ ॥

ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।

आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥ १० ॥

वायव्यं प्रथनं नाम ददामि च तवानघ ।

अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥ ११ ॥

शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ।

कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् ॥ १२ ॥

धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ।

वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥ १३ ॥

असिरत्नं महाबाहो ददामि नृवरात्मज ।

गान्धर्वमस्त्रं दयिते मानवं नाम नामतः ॥ १४ ॥ [मोहनं]

प्रस्वापनप्रशमनं दद्मि सौरं च राघव ।

दर्पणं शोषणं चैव सन्तापनविलापने ॥ १५ ॥

मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा ।

[* गान्धर्वमस्त्रं दयितं मानवं नाम नामतः । *]

पैशाचमस्त्रं दयितं मोहनं नाम नामतः ॥ १६ ॥

प्रतीच्छ नरशार्दूल राजपुत्र महायशः ।

तामसं नरशार्दूल सौमनं च महाबल ॥ १७ ॥

संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ।

सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ॥ १८ ॥

घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ।

सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदामनम् ॥ १९ ॥

दारुणं च भगस्यापि शितेषुमथ मानवम् ।

एतान्राम महाबाहो कामरूपान्महाबलान् ॥ २० ॥

गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ।

स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ॥ २१ ॥

ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ।

सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ॥ २२ ॥

तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ।

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ॥ २३ ॥

उपतस्तुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ।

ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ॥ २४ ॥

इमे स्म परमोदाराः किङ्करास्तव राघव ।

[* अधिकपाठः –

यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै ।

ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ।

*]

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।

मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ २५ ॥

ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।

अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥ २७ ॥

valmiki ramayan balkand adhyay 27