Skip to main content
पडताळणी प्रलंबित

बालकाण्ड पञ्चषष्टितमः

॥ ब्रह्मर्षित्वप्राप्तिः ॥

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।

पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ १ ॥

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।

चकाराप्रतिमं राम तपः परमदुष्करम् ॥ २ ॥

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् ।

विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥ ३ ॥

स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ।

तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ॥ ४ ॥

भोक्तुमारब्धवानन्नं तस्मिन्काले रघूत्तम ।

इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥ ५ ॥

तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।

निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः ॥ ६ ॥

न किञ्चिदवदद्विप्रं मौनव्रतमुपास्थितः ।

अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गवः ॥ ७ ॥

तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।

त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ॥ ८ ॥

ततो देवाः सगन्धर्वाः पन्नगोरगराक्षसाः ।

मोहितास्तेजसा तस्य तपसा मन्दरश्मयः ॥ ९ ॥

कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ।

बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ॥ १० ॥

लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ।

न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ॥ ११ ॥

न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।

विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥ १२ ॥

व्याकुलाश्च दिशः सर्वा न च किञ्चित्प्रकाशते ।

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ १३ ॥

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ।

प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ॥ १४ ॥

ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः ।

संमूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् ॥ १५ ॥

बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।

तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ॥ १६ ॥

कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् ।

देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् ॥ १७ ॥

ततः सुरगणाः सर्वे पितामहपुरोगमाः ।

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ॥ १८ ॥

ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।

ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥ १९ ॥

दीर्घमायुश्च ते ब्रह्मन्ददामि समरुद्गणः ।

स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ॥ २० ॥

पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम् ।

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ २१ ॥

ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।

ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥ २२ ॥

क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ॥ २३ ॥

यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ।

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ॥ २४ ॥

सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।

ब्रह्मर्षिस्त्वं न सन्देहः सर्वं सम्पत्स्यते तव ॥ २५ ॥

इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ।

विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् ॥ २६ ॥

पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् ।

कृतकामो महीं सर्वां चचार तपसि स्थितः ॥ २७ ॥

एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।

एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः ॥ २८ ॥

एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ।

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥ २९ ॥

शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।

जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ॥ ३० ॥

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ।

यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक ॥ ३१ ॥ [धार्मिक]

पावितोऽहं त्वया ब्रह्मन्दर्शनेन महामुने ।

विश्वामित्र महाभाग ब्रह्मर्षीणां वरोत्तम ॥ ३२ ॥

गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया ।

विस्तरेण च ते ब्रह्मन्कीर्त्यमानं महत्तपः ॥ ३३ ॥

श्रुतं मया महातेजो रामेण च महात्मना ।

सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥ ३४ ॥

अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।

अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥ ३५ ॥

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो ।

कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥ ३६ ॥

श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः ।

स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ ३७ ॥

एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।

विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥ ३८ ॥

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः ।

प्रदक्षिणं चकाराथ सोपाध्यायः सबान्धवः ॥ ३९ ॥

विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः ।

स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥

valmiki ramayan balkand adhyay 65