Skip to main content
पडताळणी प्रलंबित

बालकाण्ड एकचत्वारिंशः

॥ सगरयज्ञसमाप्तिः ॥

पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन ।

नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १ ॥

शूरश्च कृतिविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।

पितॄणां गतिमन्विच्छ येन चाश्वोऽपहारितः ॥ २ ॥

अन्तर्भौमानि सत्वानि वीर्यवन्ति महान्ति च ।

तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥ ३ ॥

अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।

सिद्धार्थः सन्निवर्तस्व मम यज्ञस्य पारगः ॥ ४ ॥

एवमुक्तोंशुमान्सम्यक्सगरेण महात्मना ।

धनुरादाय खड्गं च जगाम लघुविक्रमः ॥ ५ ॥

स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः ।

प्रापद्यत नरश्रेष्ठस्तेन राज्ञाभिचोदितः ॥ ६ ॥

दैत्यदानवरक्षोभिः पिशाचपतगोरगैः । [देव]

पूज्यमानं महातेजा दिशागजमपश्यत ॥ ७ ॥

स तं प्रदक्षिणं कृत्वा दृष्ट्वा चैव निरामयम् ।

पितॄन्स परिपप्रच्छ वाजिहर्तारमेव च ॥ ८ ॥

दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः ।

आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ ९ ॥

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।

यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १० ॥

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।

पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥ ११ ॥

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।

भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १२ ॥

स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।

चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ १३ ॥

यज्ञीयं च हयं तत्र चरन्तमविदूरतः ।

ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १४ ॥

स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।

सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥ १५ ॥

विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम् ।

पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥ १६ ॥

स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः ।

मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥ १७ ॥

कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।

सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ १८ ॥

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।

तस्यां कुरु महाबाहो पितॄणां तु जलक्रियाम् ॥ १९ ॥

भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।

तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ॥ २० ॥

षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ।

गच्छ चाश्वं महाभाग सङ्गृह्य पुरुषर्षभ ॥ २१ ॥

यज्ञं पैतामहं वीर संवर्तयितुमर्हसि ।

सुपर्णवचनं श्रुत्वा सोंशुमानतिवीर्यवान् ॥ २२ ॥

त्वरितं हयमादाय पुनरायान्महायशाः ।

ततो राजानमासाद्य दीक्षितं रघुनन्दन ॥ २३ ॥

न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ।

तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः ॥ २४ ॥

यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ।

स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः ॥ २५ ॥

गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ।

अगत्वा निश्चयं राजा कालेन महता महान् ।

त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥

valmiki ramayan balkand adhyay 41