Skip to main content
पडताळणी प्रलंबित

बालकाण्ड त्रिपञ्चाशः

॥ शबलानिष्क्रियः ॥

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।

विदधे कामधुक्कामान्यस्य यस्य यथेप्सितम् ॥ १ ॥

इक्षून्मधूंस्तथा लाजान्मैरेयांश्च वरासवान् ।

पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥ २ ॥

उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।

मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ ३ ॥

नानास्वादुरसानां च षड्रसानां तथैव च । [षाडबानां]

भोजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४ ॥

सर्वमासीत्सुसन्तुष्टं हृष्टपुष्टजनायुतम् ।

विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् ॥ ५ ॥

विश्वामित्रोऽपि राजर्षिर्हृष्टः पुष्टस्तदाभवत् ।

सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ॥ ६ ॥

सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।

युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ ७ ॥

पूजितोऽहं त्वया ब्रह्मन्पूजार्हेण सुसत्कृतः ।

श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ ८ ॥

गवां शतसहस्रेण दीयतां शबला मम ।

रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ॥ ९ ॥

तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ।

एवमुक्तस्तु भगवान्वसिष्ठो मुनिसत्तमः ॥ १० ॥

विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ।

नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ॥ ११ ॥

राजन्दास्यामि शबलां राशिभी रजतस्य वा ।

न परित्यागमर्हेयं मत्सकाशादरिन्दम ॥ १२ ॥

शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ।

अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ॥ १३ ॥

आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ।

स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ॥ १४ ॥

आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ।

सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा ॥ १५ ॥

कारणैर्बहुभी राजन्न दास्ये शबलां तव ।

वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः ॥ १६ ॥

संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ।

हैरण्यकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् ॥ १७ ॥

ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ।

हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ॥ १८ ॥

ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ।

हयानां देशजातानां कुलजानां महौजसाम् ॥ १९ ॥

सहस्रमेकं दश च ददामि तव सुव्रत ।

नानावर्णविभक्तानां वयःस्थानां तथैव च ॥ २० ॥

ददाम्येकां गवां कोटिं शबला दीयतां मम ।

यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम ॥ २१ ॥

तावद्दास्यामि तत्सर्वं शबला दीयतां मम ।

एवमुक्तस्तु भगवान्विश्वामित्रेण धीमता ॥ २२ ॥

न दास्यामीति शबलां प्राह राजन्कथञ्चन ।

एतदेव हि मे रत्नमेतदेव हि मे धनम् ॥ २३ ॥

एतदेव हि सर्वस्वमेतदेव हि जीवितम् ।

दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ॥ २४ ॥

एतदेव हि मे राजन्विविधाश्च क्रियास्तथा ।

अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः ।

बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥

valmiki ramayan balkand adhyay 53