Skip to main content
पडताळणी प्रलंबित

बालकाण्ड द्वाविंशः

॥ विद्याप्रदानम् ॥

तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।

प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥ १ ॥

कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।

पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥ २ ॥

स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् ।

ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥ ३ ॥

ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा ।

विश्वामित्रगतं दृष्ट्वा रामं राजीवलोचनम् ॥ ४ ॥

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः ।

शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ ५ ॥

विश्वामित्रो ययावग्रे ततो रामो महायशाः ।

काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ ६ ॥

कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।

विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ।

अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ॥ ७ ॥

तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ ।

बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥ ८ ॥

कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ।

अनुयातौ श्रिया जुष्टौ शोभयेतामनिन्दितौ ॥ ९ ॥ [दीप्त्या]

स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ।

अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥ १० ॥

रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ।

गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ॥ ११ ॥

मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ।

न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥ १२ ॥

न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः ।

न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥ १३ ॥

त्रिषु लोकेषु वै राम न भवेत्सदृशस्तव ।

न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ॥ १४ ॥

नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ।

एतद्विद्याद्वये लब्धे भविता नास्ति ते समः ॥ १५ ॥

बला चातिबला चैव सर्वज्ञानस्य मातरौ ।

क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ॥ १६ ॥

बलामतिबलां चैव पठतस्तव राघव ।

[* गृहाण सर्वलोकस्य गुप्तये रघुनन्दन । *]

विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि ॥ १७ ॥

पितामहसुते ह्येते विद्ये तेजःसमन्विते ।

प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धर्मिक ॥ १८ ॥

कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ।

तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥ १९ ॥

ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ।

प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥ २० ॥

विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ।

सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥ २१ ॥

गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।

ऊषुस्तां रजनीं तीरे सरय्वाः सुसुखं त्रयः ॥ २२ ॥

दशरथनृपसूनुसत्तमाभ्यां

तृणशयनेऽनुचिते सहोषिताभ्याम् ।

कुशिकसुतवचोऽनुलालिताभ्यां

सुखमिव सा विबभौ विभावरी च ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥ २२ ॥

valmiki ramayan balkand adhyay 22