Skip to main content
पडताळणी प्रलंबित

बालकाण्ड चतुःपञ्चाशः

॥ पप्लवादिसृष्टिः ॥

कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।

तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ १ ॥

नीयमाना तु शबला राम राज्ञा महात्मना ।

दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ २ ॥

परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।

याऽहं राजभटैर्दीना ह्रियेय भृशदुःखिता ॥ ३ ॥

किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः ।

यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ ४ ॥

इति सा चिन्तयित्वा तु विनिःश्वस्य पुनः पुनः ।

निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन ॥ ५ ॥

जगामानिलवेगेन पादमूलं महात्मनः ।

शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ॥ ६ ॥

वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिरावणी । [रुदन्ती मेघनिःस्वना]

भगवन्किं परित्यक्ता त्वयाऽहं ब्रह्मणः सुत ॥ ७ ॥

यस्माद्राजभटा मां हि नयन्ते त्वत्सकाशतः ।

एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ॥ ८ ॥

शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ।

न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया ॥ ९ ॥

एष त्वां नयते राजा बलान्मत्तो महाबलः ।

न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ॥ १० ॥

बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ।

इयमक्षौहिणी पूर्णा सवाजिरथासङ्कुला ॥ ११ ॥

हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ।

एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ॥ १२ ॥

वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम् ।

न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः ॥ १३ ॥

ब्रह्मन्ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ।

अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः ॥ १४ ॥

विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ।

नियुङ्क्ष्व मां महातेज त्वद्ब्रह्मबलसम्भृताम् ॥ १५ ॥

तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ।

इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः ॥ १६ ॥

सृजस्वेति तदोवाच बलं परबलारुजम् ।

तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा ॥ १७ ॥

तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप ।

नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ १८ ॥

बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।

स राजा परमक्रुद्धो रोषविस्फारितेक्षणः ॥ १९ ॥ [क्रोध]

पप्लवान्नाशयामास शस्त्रैरुच्चावचैरपि ।

विश्वामित्रार्दितान्दृष्ट्वा पप्लवान् शतशस्तदा ॥ २० ॥

भूय एवासृजत्कोपाच्छकान्यवनमिश्रितान् ।

तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः ॥ २१ ॥

प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः ।

दीर्घासिपट्‍टिशधरैर्हेमवर्णाम्बरावृतैः ॥ २२ ॥

निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ।

ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।

तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥

valmiki ramayan balkand adhyay 54