Skip to main content
पडताळणी प्रलंबित

बालकाण्ड त्रयस्त्रिंशः

॥ ब्रह्मदत्तविवाहः ॥

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।

शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ १ ॥

वायुः सर्वात्मको राजन्प्रधर्षयितुमिच्छति ।

अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ २ ॥

पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।

पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ ३ ॥

तेन पापानुबन्धेन वचनं नप्रतीच्छता ।

एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥ ४ ॥

तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।

प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ ५ ॥

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् ।

ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ ६ ॥

अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।

दुष्करं तच्च यत् क्षान्तं त्रिदशेषु विशेषतः ॥ ७ ॥

यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।

क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः ॥ ८ ॥

क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ।

विसृज्य कन्या काकुत्स्थ राजा त्रिदशविक्रमः ॥ ९ ॥

मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।

देशे काले प्रदानस्य सदृशे प्रतिपादनम् ॥ १० ॥

एतस्मिन्नेव काले तु चूली नाम महामुनिः ।

ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ ११ ॥

तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते ।

सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥ १२ ॥

सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।

उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ १३ ॥

स च तां कालयोगेन प्रोवाच रघुनन्दन ।

परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥ १४ ॥

परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा ।

उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १५ ॥

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।

ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥ १६ ॥

अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।

ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥ १७ ॥

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रं तथाविधम् ।

ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १८ ॥

स राजा सौमदेयस्तु पुरीमध्यवसत्तदा ।

काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १९ ॥

स बुद्धिं कृतवान्राजा कुशनाभः सुधार्मिकः ।

ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ २० ॥

तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।

ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ २१ ॥

यथाक्रमं ततः पाणीन् जग्राह रघुनन्दन ।

ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ २२ ॥

स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।

युक्ताः परमया लक्ष्म्या बभुः कन्याः शतं तदा ॥ २३ ॥

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।

बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥ २४ ॥

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।

सदारं प्रेषयामास सोपाध्यायगणं तदा ॥ २५ ॥

सोमदाऽपि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् ।

यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।

दृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥

valmiki ramayan balkand adhyay 33