Skip to main content
पडताळणी प्रलंबित

बालकाण्ड चत्वारिंशः

॥ कपिलदर्शनम् ॥

देवतानां वचः श्रुत्वा भगवान् वै पितामहः ।

प्रत्युवाच सुसन्त्रस्तान्कृतान्तबलमोहितान् ॥ १ ॥

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।

[* महिषी माधवस्यैषा स एष भगवान् प्रभुः । *]

कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ २ ॥

तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ॥ ३ ॥

सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ।

पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम ॥ ४ ॥

देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।

सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ॥ ५ ॥

पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः ।

ततो भित्त्वा महीं कृत्स्नां कृत्वा चाभिप्रदक्षिणम् ॥ ६ ॥

सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ।

परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ॥ ७ ॥

देवदानवरक्षांसि पिशाचोरगकिन्नराः । [पन्नगाः]

न च पश्यामहेऽश्वं तमश्वहर्तारमेव च ॥ ८ ॥

किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ।

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ॥ ९ ॥

समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ।

भूयः खनत भद्रं वो निद्भिद्य वसुधातलम् ॥ १० ॥

अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।

पितुर्वचनमास्थाय सगरस्य महात्मनः ॥ ११ ॥

षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।

खन्यमाने ततस्तस्मिन्ददृशुः पर्वतोपमम् ॥ १२ ॥

दिशागजं विरूपाक्षं धारयन्तं महीतलम् ।

सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ॥ १३ ॥

शिरसा धारयामास विरूपाक्षो महागजः ।

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ॥ १४ ॥

खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ।

तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् ॥ १५ ॥

मानयन्तो हि ते राम जग्मुर्भित्वा रसातलम् ।

ततः पूर्वां दिशं भित्वा दक्षिणां बिभिदुः पुनः ॥ १६ ॥

दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ।

महापद्मं महात्मानं सुमहापर्वतोपमम् ॥ १७ ॥

शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ।

ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ॥ १८ ॥

षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।

पश्चिमायामपि दिशि महान्तमचलोपमम् ॥ १९ ॥

दिशागजं सौमनसं ददृशुस्ते महाबलाः ।

तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ॥ २० ॥

खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ।

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् ॥ २१ ॥

भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ।

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ॥ २२ ॥

षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ॥ २३ ॥

रोषादभ्यखनन्सर्वे पृथिवीं सगरात्मजाः ।

ते तु सर्वे महत्मानो भिमवेगा महबलाः ॥ २४ ॥

ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।

हयं च तस्य देवस्य चरन्तमविदूरतः ॥ २५ ॥

प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ।

ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ॥ २६ ॥

खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।

अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ २७ ॥

अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि ।

दुर्मेधस्त्वं हि सम्प्राप्तान्विद्धि नः सगरात्मजान् ॥ २८ ॥

श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन ।

रोषेण महताविष्टो हुङ्कारमकरोत्तदा ॥ २९ ॥

ततस्तेनाप्रमेयेण कपिलेन महात्मना ।

भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥

valmiki ramayan balkand adhyay 40