Skip to main content
पडताळणी प्रलंबित

बालकाण्ड सप्तषष्टितमः

॥ धनुर्भङ्गः ॥

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।

धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ १ ॥

ततः स राजा जनकः सचिवान्व्यादिदेश ह ।

धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ २ ॥

जनकेन समादिष्टाः सचिवाः प्राविशन्पुरीम् ।

तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥ ३ ॥

नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम् ।

मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन ॥ ४ ॥

तामादाय तु मञ्जूषामायसीं यत्र तद्धनुः ।

सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥ ५ ॥

इदं धनुर्वरं राजन्पूजितं सर्वराजभिः ।

मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि ॥ ६ ॥

तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।

विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ ॥ ७ ॥

इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् ।

राजभिश्च महावीर्यैरशक्तैः पूरितुं पुरा ॥ ८ ॥

नैतत्सुरगणाः सर्वे नासुरा न च राक्षसाः ।

गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ९ ॥

क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे ।

आरोपणे समायोगे वेपने तोलनेऽपि वा ॥ १० ॥

तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव ।

दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥ ११ ॥

विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् ।

वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ १२ ॥

ब्रह्मर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः ।

मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ १३ ॥

इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना ।

यत्नवांश्च भविष्यामि तोलने पूरणेपि वा ॥ १४ ॥

बाढमित्येव तं राजा मुनिश्च समभाषत ।

लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ॥ १५ ॥

पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ।

आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः ॥ १६ ॥

आरोपयित्वा धर्मात्मा पूरयामास वीर्यवान् ।

तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥ १७ ॥

तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः ।

भूमिकम्पश्च सुमहान्पर्वतस्येव दीर्यतः ॥ १८ ॥

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः ।

वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ ॥

प्रत्याश्वस्ते जने तस्मिन्राजा विगतसाध्वसः ।

उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥ २० ॥

भगवन्दृष्टवीर्यो मे रामो दशरथात्मजः ।

अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥ २१ ॥

जनकानां कुले कीर्तिमाहरिष्यति मे सुता ।

सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ २२ ॥

मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक ।

सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ २३ ॥

भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः ।

मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ २४ ॥

राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम ।

प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥ २५ ॥

मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै ।

प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः ॥ २६ ॥

कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः ।

अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् ॥ २७ ॥

[* यथावृत्तं समाख्यातुमानेतुं च नृपं तदा । *]

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥

valmiki ramayan balkand adhyay 67