Skip to main content
पडताळणी प्रलंबित

बालकाण्ड एकोनत्रिंशः

॥ सिद्धाश्रमः ॥

अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।

विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ १ ॥

इह राम महाबाहो विष्णुर्देववरः प्रभुः ।

वर्षाणि सुबहून्येव तथा युगशतानि च ॥ २ ॥

तपश्चरणयोगार्थमुवास सुमहातपाः ।

एष पूर्वाश्रमो राम वामनस्य महात्मनः ॥ ३ ॥

सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ।

एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥ ४ ॥

निर्जित्य दैवतगणान्सेन्द्रांश्च समरुद्गणान् ।

कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ ५ ॥

[* यज्ञं चकार सुमहान् असुरेन्द्रो महाबलः । *]

बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।

समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ ६ ॥

बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् ।

असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥ ७ ॥

ये चैनमभिवर्तन्ते याचितार इतस्ततः ।

यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ ८ ॥

स त्वं सुरहितार्थाय मायायोगमुपाश्रितः ।

वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ ९ ॥

एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः ।

अदित्या सहितो राम दीप्यमान इवौजसा ॥ १० ॥

देवीसहायो भगवन्दिव्यं वर्षसहस्रकम् ।

व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥ ११ ॥

तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् ।

तपसा त्वां सुतप्तेन पश्यामि पुरोषोत्तमम् ॥ १२ ॥

शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो ।

त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥ १३ ॥

तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम् ।

वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥ १४ ॥

तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् ।

अदित्या देवतानां च मम चैवानुयाचतः ॥ १५ ॥

वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ।

पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ॥ १६ ॥

भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन ।

शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ १७ ॥

अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति ।

सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥ १८ ॥

अथ विष्णुर्महातेजा अदित्यां समजायत ।

वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ १९ ॥

त्रीन्क्रमानथ भिक्षित्वा प्रतिगृह्य च मानदः ।

आक्रम्य लोकाँल्लोकात्मा सर्वलोकहिते रतः ॥ २० ॥

महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा ।

त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥ २१ ॥

तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।

मयापि भक्त्या तस्यैष वामनस्योपभुज्यते ॥ २२ ॥

एतमाश्रममायान्ति राक्षसा विघ्नकारिणः ।

अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥ २३ ॥

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् ।

तदाश्रमपदं तात तवाप्येतद्यथा मम ।

[* इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् । *]

प्रविशन्नाश्रम पदं व्यरोचत महामुनिः ॥ २४ ॥

शशीव गतनीहारः पुनर्वसुसमन्वितः ।

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः ॥ २५ ॥

उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ।

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ॥ २६ ॥

तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ।

मुहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ ॥ २७ ॥

प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ।

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव ॥ २८ ॥

सिद्धाश्रमोऽयं सिद्धः स्यात्सत्यमस्तु वचस्तव ।

एवमुक्तो महातेजा विश्वामित्रो महामुनिः ॥ २९ ॥

प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः ।

कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ॥ ३० ॥

प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च ।

स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च ।

हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥

valmiki ramayan balkand adhyay 29