Skip to main content
पडताळणी प्रलंबित

बालकाण्ड त्रिसप्ततितमः

॥ दशरथपुत्रोद्वाहः ॥

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।

तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान् ॥ १ ॥

पुत्रः केकयराजस्य साक्षाद्भरतमातुलः ।

दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ २ ॥

केकयाधिपती राजा स्नेहात्कुशलमब्रवीत् ।

येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥ ३ ॥

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः ।

तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥ ४ ॥

श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।

मिथिलामुपयातांस्तु त्वया सह महीपते ॥ ५ ॥

त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुःसुतम् ।

अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥ ६ ॥

दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ।

ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ॥ ७ ॥

प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ।

ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ ८ ॥

युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः ।

भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः ॥ ९ ॥

वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ।

वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥ १० ॥

राजा दशरथो राजन्कृतकौतुकमङ्गलैः ।

पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते ॥ ११ ॥

दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ।

स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥ १२ ॥

इत्युक्तः परमोदारो वसिष्ठेन महात्मना ।

प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥ १३ ॥

कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्ष्यते ।

स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥ १४ ॥

कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ।

मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेर्यथार्चिषः ॥ १५ ॥

सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ।

अविघ्नं क्रियतां राजन्किमर्थमवलम्बते ॥ १६ ॥

तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।

प्रवेशयामास सुतान्सर्वानृषिगणानपि ॥ १७ ॥

ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ।

कारयस्व ऋषे सर्वामृषिभिः सह धार्मिकैः ॥ १८ ॥

रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ।

तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ॥ १९ ॥

विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ।

प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः ॥ २० ॥

अलं‍चकार तां वेदिं गन्धपुष्पैः समन्ततः ।

सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरैः ॥ २१ ॥

अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ।

शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्घ्याभिपूरितैः ॥ २२ ॥

लाजपूर्णैश्च पात्रौघैरक्षतैरपि संस्कृतैः ।

दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ॥ २३ ॥

अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ।

जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ॥ २४ ॥

ततः सीतां समानीय सर्वाभरणभुषिताम् ।

समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ॥ २५ ॥

अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ।

इयं सीता मम सुता सहधर्मचरी तव ॥ २६ ॥

प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ।

पतिव्रता महभागा छायेवानुगता सदा ॥ २७ ॥

इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ।

साधु साध्विति देवानामृषीणां वदतां तदा ॥ २८ ॥

देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत् ।

एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ॥ २९ ॥

अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ।

लक्ष्मणागच्छ भद्रं ते ऊर्मिलां च ममात्मजाम् ॥ ३० ॥

प्रतीच्छ पाणिं गृह्णीष्व मा भूत्कालस्य पर्ययः ।

तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ॥ ३१ ॥

पाणिं गृह्णीष्व माण्डव्याः पाणिना रघुनन्दन ।

शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ॥ ३२ ॥

श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ।

सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः ॥ ३३ ॥

पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः ।

जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन् ॥ ३४ ॥

चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः ।

अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च ॥ ३५ ॥

ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।

यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ॥ ३६ ॥

काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु ।

पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ॥ ३७ ॥

दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ।

ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम् ॥ ३८ ॥

विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ।

ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते ॥ ३९ ॥

त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ।

अथोपकार्यां जग्मुस्ते सदारा रघुनन्दनाः । [भार्या]

राजाप्यनुययौ पश्यन्सर्षिसङ्घः सबान्धवः ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥

valmiki ramayan balkand adhyay 73