Skip to main content
पडताळणी प्रलंबित

बालकाण्ड पञ्चपञ्चाशः

॥ विश्वामित्रधनुर्वेदाधिगमः ॥

ततस्तानाकुलान्दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।

वसिष्ठश्चोदयामास कामधुक्सृज योगतः ॥ १ ॥

तस्या हुम्भारवाज्जाताः काम्भोजा रविसन्निभाः ।

ऊधसस्त्वथ सञ्जाताः पप्लवाः शस्त्रपाणयः ॥ २ ॥

योनिदेशाच्च यवनाः शकृद्देशाच्छकास्तथा ।

रोमकूपेषु च म्लेच्छा हारीताः सकिरातकाः ॥ ३ ॥

तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत् क्षणात् ।

सपदातिगजं साश्वं सरथं रघुनन्दन ॥ ४ ॥

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।

विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥ ५ ॥

अभ्यधावत्सुसङ्क्रुद्धं वसिष्ठं जपतां वरम् ।

हुङ्कारेणैव तान्सर्वान्ददाह भगवानृषिः ॥ ६ ॥

ते साश्वरथपादाता वसिष्ठेन महात्मना ।

भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥ ७ ॥

दृष्ट्वा विनाशितान्पुत्रान्बलं च सुमहायशाः ।

सव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा ॥ ८ ॥

समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः ।

उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ९ ॥

हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।

हतदर्पो हतोत्साहो निर्वेदं समपद्यत ॥ १० ॥

स पुत्रमेकं राज्याय पालयेति नियुज्य च ।

पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत ॥ ११ ॥

स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम् ।

महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १२ ॥

केनचित्त्वथ कालेन देवेशो वृषभध्वजः ।

दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ १३ ॥

किमर्थं तप्यसे राजन्ब्रूहि यत्ते विवक्षितम् ।

वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम् ॥ १४ ॥

एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।

प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १५ ॥

यदि तुष्टो महादेव धनुर्वेदो ममानघ ।

साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १६ ॥

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।

गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ ॥ १७ ॥

तव प्रसादाद्भवतु देवदेव ममेप्सितम् ।

एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १८ ॥

प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः । [देवेशात्]

दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा ॥ १९ ॥

विवर्धमानो वीर्येण समुद्र इव पर्वणि ।

हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ २० ॥

ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः ।

यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ २१ ॥

उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः ।

दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ २२ ॥

वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।

विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः ॥ २३ ॥

वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।

मुहूर्तमिव निःशब्दमासीदीरिणसन्निभम् ॥ २४ ॥

वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।

नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ २५ ॥

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।

विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६ ॥

आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।

दुराचारोसि यन्मूढ तस्मात्त्वं न भविष्यसि ॥ २७ ॥

इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।

विधूममिव कालाग्निं यमदण्डमिवापरम् ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

valmiki ramayan balkand adhyay 55