Skip to main content
पडताळणी प्रलंबित

बालकाण्ड पञ्चमः

॥ अयोध्यावर्णना ॥

सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा ।

प्रजपतिमुपादाय नृपाणं जयशालिनाम् ॥ १ ॥

येषां स सगरो नाम सागरो येन खानितः ।

षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ २ ॥

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।

महदुत्पन्नमाख्यनं रामायणमिति श्रुतम् ॥ ३ ॥

तदिदं वर्तयिष्यामि सर्वं निखिलमादितः ।

धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ ४ ॥

कोसलो नाम मुदितः स्फीतो जनपदो महान् ।

निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ ५ ॥

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।

मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ ६ ॥

आयता दश च द्वे च योजनानि महापुरी ।

श्रीमती त्रीणि विस्तीर्णा सुविभक्तामहापथा ॥ ७ ॥

राजमार्गेण महता सुविभक्तेन शोभिता ।

मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ ८ ॥

तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।

पुरीमावासयामास दिवं देवपतिर्यथा ॥ ९ ॥

कवाटतोरणवतीं सुविभक्तान्तरापणाम् ।

सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥ १० ॥

सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।

उच्चाट्‍टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ॥ ११ ॥

वधूनाटकसङ्घैश्च सम्युक्तां सर्वतः पुरीम् ।

उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥

दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदम् ।

वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ १३ ॥

सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।

नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ १४ ॥

प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् ।

कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ १५ ॥

चित्रामष्टापदाकारां वरनारीगणैर्युताम् ।

सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ १६ ॥

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।

शालितण्डुलसम्पूर्णामिक्षुदण्डरसोदकाम् ॥ १७ ॥

दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।

नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥

विमानमिव सिद्धानां तपसाधिगतं दिवि ।

सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥

ये च बाणैर्न विध्यन्ति विविक्तमपरावरम् ।

शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ २० ॥

सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।

हन्तारोनिशितैर्बाणैर्बलाद्बाहुबलैरपि ॥ २१ ॥

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।

पुरीमावासयामास राजा दशरथस्तदा ॥ २२ ॥

तामग्निमद्भिर्गुणवद्भिरावृतां

द्विजोत्तमैर्वेदषडङ्गपारगैः ।

सहस्रदैः सत्यरतैर्महात्मभि-

-र्महर्षिकल्पैरृषिभिश्च केवलैः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥ ५ ॥

valmiki ramayan balkand adhyay 5